स्कंद वेदपाद स्तवः
यो देवानां पुरो दित्सुरर्थिभ्यो वरमीप्सितं |
अग्रे स्थितः स विघ्नेशो ममांतर्हृदये स्थितः || 1 ||
महः पुरा वै बुधसैंधवश्री-
-शराटवीमध्यगतं हृदंतः |
श्रीकंठफालेक्षणजातमीडे
तत्पुष्करस्यायतनाद्धि जातं || 2 ||
महो गुहाख्यं निगमांतपंक्ति
मृग्यांघ्रिपंकेरुहयुग्ममीडे |
सांबो वृषस्थः सुतदर्शनोत्को
यत्पर्यपश्यत्सरिरस्य मध्ये || 3 ||
त्वामेव देवं शिवफालनेत्र-
-महोविवर्तं परमात्मरूपं |
तिष्ठन् व्रजन् जाग्रदहं शयानः
प्राणेन वाचा मनसा बिभर्मि || 4 ||
नमो भवानीतनुजाय तेऽस्तु
विज्ञाततत्त्वा मुनयः पुराणाः |
यमेव शंभुं हरिमब्जयोनिं
यमिंद्रमाहुर्वरुणं यमाहुः || 5 ||
कोटीरकोटिस्थमहार्घकोटि-
-मणिप्रभाजालवृतं गुहं त्वां |
अनन्यचेताः प्रणवाब्जहंसं
वेदाहमेतं पुरुषं महांतं || 6 ||
स नोऽवतु स्वालिकपंक्तिजीव-
-ग्रहं गृहीतायत चंद्रखंडः |
गुहादसीयंतमिदं स्वरूपं
परात्परं यन्महतो महांतं || 7 ||
स्वर्गापगामध्यगपुंडरीक-
-दलप्रभाजैत्रविलोचनस्य |
अक्ष्णां सहस्रेण विलोक्यमानं
न संदृशे तिष्ठति रूपमस्य || 8 ||
हेमद्विषत्कुंडलमंडलाढ्य-
-गंडस्थलीमंडिततुंडशोभः |
ब्रह्म त्वमेवेति गुहो मुनींद्रैः
हृदा मनीषा मनसाऽभिक्लप्तः || 9 ||
सुपक्वबिंबाधरकांतिरक्त-
-संध्यामृगांकायितदंतपंक्तिः |
गुहस्य नः पातु विलोलदृष्टिः
येनावृतं खं च दिवं महीं च || 10 ||
करींद्रशुंडायितदोःप्रकांड
द्विषट्ककेयूरविराजमानं |
गुहं मृडानीभवमप्रमेयं
न चक्षुषा पश्यति कश्चनैनं || 11 ||
स्वकीयदोर्दंडगृहीतचंड-
-कोदंड निर्मुक्त पृषत्कषंडैः |
त्रिविष्टपांधंकरणैरशून्यान्
यः सप्तलोकानकृणोद्दिशश्च || 12 ||
सौवर्णहारादिविभूषणोज्ज्वल-
-न्मणिप्रभालीढ विशालवक्षाः |
स्कंदः स मां पातु जिताब्जयोनिः
अजायमानो बहुधा विजायते || 13 ||
देवः स वैहारिकवेषधारी
लीलाकृताशेषजगद्विमर्दः |
शिखिध्वजः पातु भयंकरेभ्यो
यः सप्तसिंधूनदधात्पृथिव्यां || 14 ||
षडाननो द्वादशबाहुदंडः
श्रुत्यंतगामी द्विषडीक्षणाढ्यः |
भीताय मह्यं गिरिजातनूजो
हिरण्यवर्णस्त्वभयं कृणोतु || 15 ||
यो दानवानीकभयंकराटवी
समूलकोत्पाटनचंडवातः |
षाण्मातुरः संहृत सर्वशत्रुः
अथैकराजो ह्यभवज्जनानां || 16 ||
अतीव बालः प्रवयाः कुमारो
वर्णी युवा षण्मुख एकवक्त्रः |
इत्थं महस्तद्बहुधाऽऽविरासी-
-द्यदेकमव्यक्तमनंतरूपं || 17 ||
यदीयमायावरणाख्यशक्ति
तिरोहितांतः करणा हि मूढाः |
न जानते त्वां गुह तं प्रपद्ये
परेण नाकं निहितं गुहायां || 18 ||
गुरूपदेशाधिगतेन योग-
-मार्गेण संप्राप्य च योगिनस्त्वां |
गुहं परं ब्रह्म हृदंबुजस्थं
विभ्राजदेतद्यतयो विशंति || 19 ||
यो देवसेनापतिरादराद्वै
ब्रह्मादिभिर्देवगणैरभिष्टुतः |
तं देवसेनान्यमहं प्रपद्ये
विश्वं पुराणं तमसः परस्तात् || 20 ||
हृदंबुजांतर्दहराग्रवर्ति
कृशानुमध्यस्थपरात्मरूपात् |
गुहात्सुसूक्ष्मान्मुनयः प्रतीयु-
-रतः परं नान्यदणीयसं हि || 21 ||
तपः प्रसन्नेशबहुप्रदत्त-
-वरप्रमत्तासुरभीतिभाजां |
सुपर्वणां स्कंद भवान् शरण्यः
इंद्रस्य विष्णोर्वरुणस्य राज्ञः || 22 ||
स एव देवो गिरिजाकुमारो
राजा स मित्रं स हि नो वरेण्यः |
भ्राता स बंधुः स गुरुः स्वसा च
स एव पुत्रः स पिता च माता || 23 ||
स्वराज्यदात्रे स्वसुतां वितीर्य
तां देवसेनां सुकुमारगात्रां |
आराधयत्यन्वहमांबिकेयं
इंद्रो हविष्मान्सगणो मरुद्भिः || 24 ||
देवेन येनालघुविक्रमेण
हतेषु सर्वेष्वपि दानवेषु |
पुरेव देवाः स्वपदेऽधिचक्रुः
इंद्रश्च सम्राड्वरुणश्च राजा || 25 ||
षाण्मातुरोऽसौ जगतां शरण्य-
-स्तेजोऽन्नमापः पवनश्च भूत्वा |
संरक्षणायैव जगत्सु देवो
विवेश भूतानि चराचराणि || 26 ||
करौ युवामंजलिमेव नित्यं
उमांगजाताय विधत्तमस्मै |
एष प्रसन्नः सुकुमारमूर्ति-
-रस्मासु देवो द्रविणं दधातु || 27 ||
निधिः कलानामुदधिर्दयानां
पतिर्जनानां सरणिर्मुनीनां |
कदा प्रसीदेन्मयि पार्वतेयः
पिता विराजामृषभो रयीणां || 28 ||
सौंदर्यवल्लीतनुसौकुमार्य-
-सरोजपुष्पंधयमानसो यः |
चचार कांतारपथेषु देवः
स नो ददातु द्रविणं सुवीर्यं || 29 ||
इतोऽपि सौंदर्यवदस्तु देह-
-मितीव हुत्वा शिवफालनेत्रे |
जातस्ततः किं स कुमार एव
कामस्तदग्रे समवर्तताधि || 30 ||
मुमुक्षुलोकाः शृणुत प्रियं वो
भजध्वमेनं गिरिजाकुमारं |
अस्यैव देवस्य परात्मतेति
हृदि प्रतीष्या कवयो मनीषा || 31 ||
धेनुर्बह्वीः कामदोग्ध्रीः सुवत्साः
कुंडोध्नीर्गा देहि नस्त्वं सहस्रं |
भक्तार्तिघ्नं देवदेवं षडास्यं
विद्माहि त्वा गोपतिं शूरगोनां || 32 ||
वंदामहे बर्हिणवाहनस्थितं
वनीपकाशेषमनीषितप्रदं |
तोष्टूयमानं बहुधा पदे पदे
संक्रंदनेनानिमिषेण जिष्णुना || 33 ||
दिग्भ्यो दशभ्यः परितः पुनः पुनः
परः शतायातसिषेविषावतां |
अनुग्रहायैव षडाननो ह्यसौ
प्रत्यंग्मुखस्तिष्ठति विश्वतोमुखः || 34 ||
कूर्मः फणींद्रश्च तथा फणाभृतो
दिग्दंतिनश्चैव कुलाचला अपि |
भूत्वाऽंबिकेयः प्रथितः प्रतापवान्
ब्रह्माध्यतिष्ठद्भुवनानि धारयन् || 35 ||
यो वै स्कंदः पृष्टः शंभोः सत्यं ज्ञानं ब्रह्माद्वैतं |
ओंकारार्थं प्राह स्मेत्थं सुब्रह्मण्यों सुब्रह्मण्यों || 36 ||
यो जाह्ववीशरारण्यह्रदांभोजे बभौ पुरा |
तस्मै नमः षण्मुखाय महासेनाय धीमहि || 37 ||
यद्दक्षिणकरांभोजमिष्टदं स्वानुजीविनां |
तेभ्य इंद्रादिसेनानां सेनानिभ्यश्च वो नमः || 38 ||
देवतानामृषीणां च भक्तानामपि योगिनां |
भूतानामपि वीराणां पतीनां पतये नमः || 39 ||
नमस्तेऽस्तु महेशान भीतेभ्यः शूरपद्मनः |
सुनासीरमुखेभ्यस्त्वं स्वस्तिदा अभयंकरः || 40 ||
कटाक्षवीक्षणापास्त निखिलव्याधिबंधन |
देवसेनापते स्वामिन् अभि त्वा शूर नूनुमः || 41 ||
अंतश्चरसि भूतेषु त्वमेकः सूक्ष्मरूपतः |
त्वमेव निगमांतेषु परमात्मा व्यवस्थितः || 42 ||
मही द्यौरंतरिक्षं च वायुरापोऽनलोऽंबरं |
सुब्रह्मण्य जगन्नाथ त्वयि सर्वं प्रतिष्ठितं || 43 ||
शैशवे त्वं महासेन बंदीकृत्य प्रजापतिं |
अस्राक्षीस्तान्यथापूर्वं मनुष्याः पशवश्च ये || 44 ||
वेदांतकंदरीवर्ति गुहाशयषडानने |
त्रिलोकीयं त्वयि विभो नावीवांतः समाहिता || 45 ||
कला मुहूर्ताः काष्ठाश्च मासा वर्षा युगानि च |
त्वयि वल्लीश निहिता निमेषास्त्रुटिभिः सह || 46 ||
रोगकांतारदावाग्ने मृत्युकक्षहुताशन |
शूरघ्न त्वत्प्रतापेन रेजती रोदसी उभे || 47 ||
परं ब्रह्म विचिन्वंतो हृदयांभोजमध्यगं |
योगिनो नारदाद्यास्त्वां सदा पश्यंति सूरयः || 48 ||
हतशूरमुखाशेषदैतेयं त्वां गुहास्तुवन् |
अग्नाविष्णू चेंद्रवायू सोमो धाता बृहस्पतिः || 49 ||
वाचालयस्यवाचं त्वं सचक्षुः कुरुषेऽदृशं |
आश्रितेभ्यो जगन्नाथ शिवो नः सुमना भव || 50 ||
स एव जगतः कर्ता भर्ता हर्ता जगद्गुरुः |
कुमारः सच्चिदानंदः सोऽक्षरः परमः स्वराट् || 51 ||
असुरान् शूरपद्मादीन् हत्वा शरवणोद्भवः |
देवान् स्वस्वपदे कृत्वा सम्राडेको विराजसि || 52 ||
तव दृष्ट्वा विश्वरूपं सहर्षभयवेपथु |
त्वामस्तुवन्नादितेयाः बृहस्पतिपुरोहिताः || 53 ||
किन्नरा गरुडा नागा यक्षाः साध्या मरुद्गणाः |
ऐंद्रीशं त्वामहरहः विश्वे देवा उपासते || 54 ||
विश्वासान्मानुषीणां च प्रजानां पशुपक्षिणां |
चराचराणां जगतां ध्रुवो राजा विशामयं || 55 ||
अंभोजसंवर्तिकासु राजहंसा इव प्रभो |
मदीयहृदयांभोजे ध्रुवस्तिष्ठाविचाचलिः || 56 ||
लीलामात्रकृताशेषभुवनाद्गिरिजासुतात् |
अथर्व चाथ ऋक्साम यजुस्तस्मादजायत || 57 ||
तिले तैलमिव प्रोतं दध्न्याज्यमिव षण्मुखे |
मणौ सूत्रमिव स्यूतं ब्रह्म विश्वमिदं जगत् || 58 ||
यस्तप्तादीनृषीन् शापादुद्दधार हरात्मजः |
मातुः स्तनसुधापूरे पुत्रः प्रमुदितोधयन् || 59 ||
इज्यया पूजया स्तुत्या भक्त्या च परिचर्यया |
ध्यानेन तपसा च त्वां देवं मनसि ईडते || 60 ||
श्रुतिस्मृत्यागमाद्युक्तकर्मणां फलदायिने |
स्कंदाय तुभ्यं मखिभिः श्रद्धया हूयते हविः || 61 ||
मूर्धा द्यौरंबरं नाभिरूरू भूरतलं पदे |
षण्मुखस्येत्येवमाहुः अंतर्विश्वमिदं जगत् || 62 ||
भक्तसंतापशमन प्रावृषेण्यघनाघनात् |
स्कंदादन्यं मनो मागाः स दृष्टो मृडयाति नः || 63 ||
जिह्वे त्वमुच्चैर्निस्तंद्रा रात्रिंदिवमभिष्टुहि |
देवसेनं महासेनं अदुग्धा इव धेनवः || 64 ||
अकलंकशरच्चंद्रविलसत्त्वन्मुखस्रुताः |
मंदस्मितसुधाधारास्ता मे कृण्वंतु भेषजं || 65 ||
देवानीजिमहे पूर्वं तपश्चकृमहे पुरा |
यद्गुहो देवतास्माकं कविर्गृहपतिर्युवा || 66 ||
मदीयहृदयांभोजनिर्यूहमणिमंचके |
षडानन त्वत्पादः स्यादियान् प्रादेशसम्मितः || 67 ||
चिरंतनवचः स्तुत्यः प्रणवांबुजषट्पदः |
करोतु देवसेनेशः शिवा नः प्रदिशो दिशः || 68 ||
दैतेयवधसन्नद्धो भवान् पवनसारथिः |
द्विलक्षमर्वतो हैमे रथे युक्त्वाऽधितिष्ठति || 69 ||
गगनोच्छ्रितकोदंडकिरीटं शूरमाहवे |
बिभेदिथ त्वं नाराचैः सहस्रेण शतेन च || 70 ||
ऐशाल्ललाटनयनात् जातं वह्निर्यथाऽरणेः |
मुमुक्षवो गुहं ब्रह्म विचिन्वंतु मनीषया || 71 ||
हिरण्यज्योतिषं स्कंदं याचध्वं भो वनीपकाः |
एषोऽर्थिनः पूरयति प्रजया च धनेन च || 72 ||
सन्निधास्यति किं स्वामी भवनांबुरुहेक्षणः |
तावकं मंजुलं रूपं स्मर्यते न च दृश्यते || 73 ||
यतस्त्वं जगतामेषां आशिषे शिखिवाहन |
ततो देहि बहून्व्रीहीनकृष्टा ये च कृष्टजाः || 74 ||
धनधान्यगृहान् पुत्रान् देहि देव दयानिधे |
त्वमाश्रितेष्टद इति कर्णाभ्यां भूरि विश्रुतं || 75 ||
भक्तेभ्यो मुचुकुंदाख्यप्रमुखेभ्यो यथा गुह |
प्रादास्तथा देहि मह्यमच्युतां बहुलां श्रियं || 76 ||
भक्तान् तत्पुत्रसुहृदः तन्मातृपितृसोदरान् |
पाहि स्कंद पुनश्चास्य द्विपदो ये चतुष्पदः || 77 ||
चोरव्याघ्रपिशाचाखुसर्पकीटादिबाधकात् |
भक्तान्निशासु संरक्षन् त्रिषु लोकेषु जागृहि || 78 ||
दानवेष्वपि दैत्येषु राक्षसेष्वप्यरातिषु |
पिशाचेष्वपि गांगेय विक्रमस्व महानसि || 79 ||
आधिभिर्व्याधिभिश्चैव पीडितानामहर्निशं |
दूतानां वपुषि स्वामिन्नासुवोर्जमिषं च नः || 80 ||
अतितीव्रेण तपसा तप्यमाना अहर्निशं |
उपासत त्वां तप्ताद्याः अथ हैनं पुरर्षयः || 81 ||
ध्यानावाहनपूजेज्यापरिचर्यास्तुतिष्वहं |
अज्ञो मे सफलां पूजां कृणुहि ब्रह्मणस्पते || 82 ||
असुरान् राक्षसान् क्रूरान् देवयज्ञविघातकान् |
जहि देवेश यस्मात्त्वं रक्षोहामीवचातनः || 83 ||
दुर्वृत्तेभ्यो धनं धत्से नीचेभ्योऽपि धनं बहु |
न ददासि कुतो मह्यं एतत्पृच्छामि संप्रति || 84 ||
मुखैरेतान्महारौद्रान् दूरीकुरु जगत्पते |
मम स्वमभिकांक्षंते ये स्तेना ये च तस्कराः || 85 ||
गुह त्वत्पादभक्तानां गेहे जाग्रत्वहर्दिवं |
वीरबाहुमुखा वीर ते नित्यानुचरास्तव || 86 ||
त्रिषड्विलोचनेष्वेकदृक्कटाक्षेण लक्षयन् |
आढ्यं करोतु मां स्कंदः पर्जन्यो वृष्टिमानिव || 87 ||
भयानकासुरानीककांदिशीकाः पुरा खलु |
गुह त्वां शरणं प्रापुः इंद्रेण सह देवताः || 88 ||
त्वामेव कीर्तयन् देव ध्यायन् शृण्वन् प्रपूजयन् |
गुह त्वत्पादभक्तोऽहं जीवानि शरदः शतं || 89 ||
कृपादुग्धाब्धिकल्लोलायमानापांगवीक्षण |
देहि मे गुह बह्वायुर्दीर्घायुस्त्वमिहेशिषे || 90 ||
पुरारातीक्षणपयः पारावारसुधाकर |
षड्वक्त्र धेहि कृपया मयि मेधां मयि प्रजां || 91 ||
भक्तचातकबृंदेष्टवर्षिधाराधर प्रभो |
अस्मान् संजीवय स्वामिनस्मिन् लोके शतं समाः || 92 ||
भीता वयं महासेन पथि दुर्गे वने यतः |
चोरव्याघ्रपिशाचेभ्यः ततो नो अभयं कृधि || 93 ||
व्याधयः शूलकुष्ठार्शः प्रमेहाद्या यतः सदा |
पीडयंति पिशाचाद्याः ततो नो धेहि भेषजं || 94 ||
त्वदीयपादकमलध्यानवर्मितविग्रहान् |
कुहका मोहकाः क्षुद्राः माऽस्मान्प्रापन्नरातयः || 95 ||
धनधान्यपशुक्षेत्रबलेष्वस्मदपेक्षया |
देवसेनापतेऽस्माकं अधरे संतु शत्रवः || 96 ||
अरातिकुलनिर्मूलनालंकर्मीणविक्रम |
अकारणेन बहुधा यो नो द्वेष्टि स रिष्यतु || 97 ||
मंत्रैर्यंत्रैस्तथा तंत्रैरौषधैरायुधैरपि |
जिघांसति च योऽस्मान् स द्विषन्मे बहु शोचतु || 98 ||
आखंडलारीनसुरान् त्वं तु स्पर्धावतो यथा |
जहि गांगेय तौ मर्त्यौ यं चाहं द्वेष्टि यश्च मां || 99 ||
त्वन्नामकीर्तनपरक्षेमंकरकरांबुज |
तमिमं संहर स्वामिन् यश्च नो द्वेषते जनः || 100 ||
दूरेऽंतिके वा यः शत्रुः अस्माननपराधिनः |
शपत्येनं जहि स्कंद यश्च नः शपतः शपात् || 101 ||
चक्षुषा मनसा वाचा मंत्रेण हवनेन च |
तत्कृत्यां नाशय स्वामिन् भ्रातृव्यस्याभिदासतः || 102 ||
मच्छिद्रान्वेषिणः शत्रोः धनमायुः प्रजाः पशून् |
सर्वान्नाशय शूरघ्न मा तस्योच्छेषि किंचन || 103 ||
अविद्वांसश्च विद्वांसः स्वप्ने जाग्रति वा गुह |
तेभ्यो मोचय मां यद्यदेनांसि चकृमा वयं || 104 ||
वयमूचिम यद्देव जिह्वया देवहेलनं |
एनसो मोचयाग्नेय त्वं हि वेत्थ यथातथं || 105 ||
वित्तार्थं वा तथाऽन्यार्थं विप्रार्थं गोऽर्थमेव वा |
पुनीह्यस्मांस्ततः स्कंद यत्किंचानृतमूदिम || 106 ||
तमागसं क्षमस्व त्वं स्वकीयाभीष्टलिप्सया |
संप्रार्थ्य तुभ्यं वाऽन्यस्मै यद्वाचाऽनृतमूदिम || 107 ||
सौंदर्यवल्ल्या सहितं अंबया देवसेनया |
महासेनं भजे देवं सत्येन तपसा सह || 108 ||
यो वै पठेद्गुहस्यैनं वेदांतस्तवमादरात् |
स्कांदाः कटाक्षास्तस्योच्चैरायुः कीर्तिं प्रजां ददुः || 109 ||
स्कंदस्यैनं वेदपादस्तवं यो
भक्त्या नित्यं श्रावयेद्वा पठेद्वा |
भूयासुस्ते तस्य मर्त्यस्य शीघ्रं
ये ये कामा दुर्लभा मर्त्यलोके || 110 ||
इति स्कंदवेदपादस्तवः |
अर्थ
स्कंद वेदपाद स्तव भगवान गुहा/स्कंद को न केवल एक युद्ध देवता के रूप में प्रस्तुत करता है, बल्कि उन्हें वेदांत के मूर्तरूप के रूप में, मानव हृदय के भीतर स्थित आंतरिक 'वेदपाद' (वैदिक सत्य का आधार) के रूप में भी दर्शाता है। यह स्तोत्र भक्त के दृष्टिकोण को बाहरी वीरता से आंतरिक तत्वमीमांसा की ओर ले जाता है: वह योद्धा जो एक साथ सर्वोच्च स्व भी है। यह भगवान स्कंद के अस्तित्व को बड़े गर्व से स्थापित करता है – एक ओर वे लघु और मनोहारी बालरूप में हैं, तो दूसरी ओर वे परब्रह्म के साक्षात् स्वरूप हैं। 'वेदपाद' शब्द आंतरिक ज्ञान और गूढ़ शक्ति की अवधारणा को दर्शाता है, जिसका अर्थ है कि गुह हृदय की गुहा में निवास करने वाला परम सत्य है।
स्कंद के षड्मुख (छह-मुख वाले) रूपों, कई आँखों और भुजाओं, और दिव्य हथियारों का उल्लेख केवल अलंकरण नहीं है - वे उनके व्यापक कार्य को दर्शाते हैं। छह मुख छह दिशाओं में उनके विस्तार और छह मार्गों (भक्ति, ज्ञान, कर्म, तपस्या, योग, दान) के प्रतिबिंब हैं। कई आँखें सर्वव्यापी चेतना को, और कई भुजाएँ/हथियार सृष्टि, संरक्षण और संहार में एक साथ संलग्न होने की समग्र क्षमता को दर्शाते हैं। मोर, ध्वज, तेजस्वी रंग और कृत्तिकाओं (पालक माताएँ) के प्रसंग उनके ब्रह्मांडीय भूमिका और भक्तों के प्रति कोमल पालन-पोषण दोनों को इंगित करते हैं। यह स्तोत्र स्कंद के जन्म (अग्नि/गंगा तत्वों से), उनके दिव्य रंग, धीरता, शत्रुहंतापन और भक्तप्रियता जैसे बहुआयामी गुणों को उजागर करता है।
'गुहा' नाम स्कंद के एक आंतरिक, छिपे हुए पहलू पर जोर देता है - हृदय की 'गुहा' जहाँ सर्वोच्च ज्ञान निवास करता है। यह अर्ध-तत्वों, मंत्रों के गूढ़ अर्थ, और हृदय के मध्य में स्थित आत्म-अनुभव जैसे गुह्य ज्ञान को सिखाता है। साधकों के लिए यह छवि अत्यंत महत्वपूर्ण है: स्कंद गुप्त प्रथाओं के गुरु के रूप में, मंत्र और हृदय-केंद्रित ज्ञान के प्रकटीकरणकर्ता के रूप में, और वेदांत को अनुभवात्मक बनाने वाले मार्गदर्शक के रूप में कार्य करते हैं। योगियों और साधकों के लिए स्कंद केवल एक दृश्यमान रूप नहीं हैं; वे जटिल योग मार्ग के मार्गदर्शक हैं, और हृदय में प्रणव (ओम) की अनुभूति के लिए सदा आधार बने रहते हैं। वे युद्ध और ध्यान दोनों के देवता हैं - कर्म और अंतर्दृष्टि के ध्रुवीयता को सुलझाते हैं।
एक क्षेत्रीय या युद्ध देवता होने से कहीं अधिक, यह स्तव स्कंद को सार्वभौमिक अधिकार क्षेत्र प्रदान करता है - वे दिव्य सेनाओं के नेता, राक्षसों का नाश करने वाले, और देवताओं तथा मनुष्यों के रक्षक हैं। दार्शनिक रूप से, स्कंद को सभी लोकों के कर्ता, भर्ता और हर्ता (सृष्टिकर्ता, पालक और संहारक) के रूप में पहचाना जाता है। उनकी शक्ति व्यक्तिगत सीमाओं से परे सभी लोकों में फैली हुई है - विद्वानों में, देव-असुर सेनाओं में, और कालचक्र में भी उनका स्थान है, यह कहकर उनके सार्वभौमिक अधिकार पर मुहर लगाई जाती है।
स्तव का पाठ करते समय हमें यह समझना चाहिए कि स्कंद आंतरिक शक्तियों के प्रतीक मात्र हैं। ऐसे रूप में भक्ति का अर्थ केवल विजय की कामना करना नहीं है - यह आंतरिक पवित्रता, धर्म की रक्षा करना और भय पर विजय प्राप्त करना है। इसके माध्यम से भक्ति आंतरिक शुद्धता, और बदले में, दुनिया के प्रति प्रेम और जिम्मेदारी उत्पन्न करती है। यह केवल बाहरी पूजा नहीं, बल्कि आंतरिक परिवर्तन का मार्ग है। इस स्तव का नित्य भक्ति से पाठ करने वालों को यह आत्मविश्वास, रोगों से मुक्ति, शत्रुओं से छुटकारा, पुत्र-सौभाग्य, ऐश्वर्य और भावनात्मक स्थिरता जैसी पुनर्जीवन शक्ति प्रदान करता है।
लाभ (Benefits):
- आत्मविश्वास में वृद्धि: इस स्तोत्र के नियमित पाठ से आत्मविश्वास बढ़ता है और जीवन की चुनौतियों का सामना करने की आंतरिक शक्ति प्राप्त होती है।
- रोगों से मुक्ति और स्वास्थ्य: भगवान स्कंद आरोग्य के देवता हैं, जिनकी कृपा से विभिन्न रोगों और व्याधियों से मुक्ति मिलती है तथा उत्तम स्वास्थ्य प्राप्त होता है।
- शत्रुओं पर विजय: स्कंद देवसेनापति हैं, जो भक्तों को बाहरी और आंतरिक शत्रुओं पर विजय प्राप्त करने तथा बाधाओं को दूर करने में सहायता करते हैं।
- पुत्र प्राप्ति का सौभाग्य: पुत्र प्राप्ति की कामना करने वाले भक्तों के लिए यह स्तव विशेष रूप से फलदायी है, यह संतान सुख प्रदान करता है।
- ऐश्वर्य और मानसिक शांति: इस स्तव का पाठ भक्तों को समृद्धि, धन-संपदा और मानसिक शांति प्रदान करता है, जिससे जीवन में स्थिरता आती है।
अक्सर पूछे जाने वाले प्रश्न
स्कंद वेदपाद स्तव क्या है?
स्कंद वेदपाद स्तव का पाठ कब और कैसे करना चाहिए?
इस स्तव का पाठ करने के प्रमुख लाभ क्या हैं?
स्कंद वेदपाद स्तव का पाठ कौन कर सकता है?
स्कंद वेदपाद स्तव का पाठ कितनी बार करना चाहिए?
स्कंद वेदपाद स्तव का उद्भव या स्रोत क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
