श्री विष्णु पादादिकेशांतवर्णन स्तोत्रं
लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं
नीलाद्रेस्तुंगशृंगस्थितमिव रजनीनाथबिंबं विभाति |
पायान्नः पांचजन्यः स दितिसुतकुलत्रासनैः पूरयन्स्वै-
-र्निध्वानैर्नीरदौघध्वनिपरिभवदैरंबरं कंबुराजः || 1 ||
आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं
ध्वांतस्यैकांतमंतं यदपि च परमं सर्वधाम्नां च धाम |
चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं
शश्वन्नो विश्ववंद्यं वितरतु विपुलं शर्म घर्मांशुशोभं || 2 ||
अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते-
-रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः |
सर्वं संहर्तुमिच्छोररिकुलभुवनं स्फारविष्फारनादः
संयत्कल्पांतसिंधौ शरसलिलघटावार्मुचः कार्मुकस्य || 3 ||
जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयंती
युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः |
सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुःशोणितास्वादतृप्तो
नित्यानंदाय भूयान्मधुमथनमनोनंदनो नंदको नः || 4 ||
कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता
सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषां |
राजंती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा
कामं दीप्तांशुकांता प्रदिशतु दयितेवास्य कौमोदकी नः || 5 ||
यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो
यं संचिंत्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतंति |
चंचच्चंडोरुतुंडत्रुटितफणिवसारक्तपंकांकितास्यं
वंदे छंदोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णं || 6 ||
विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता
सोऽनंतः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः |
पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहंता
सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः || 7 ||
वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां
कारुण्यार्द्रैः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः |
कुंदेंदुस्वच्छमंदस्मितमधुरमुखांभोरुहां सुंदरांगीं
वंदे वंद्यामशेषैरपि मुरभिदुरोमंदिरामिंदिरां तां || 8 ||
या सूते सत्त्वजालं सकलमपि सदा सन्निधानेन पुंसो
धत्ते या तत्त्वयोगाच्चरमचरमिदं भूतये भूतजातं |
धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं
विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि || 9 ||
येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्गै-
-र्येभो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः |
नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः
पद्माक्षस्यांघ्रिपद्मद्वयतलनिलयाः पांसवः पापपंकं || 10 ||
रेखा लेखादिवंद्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः
स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः |
दद्युर्नो मंगळानि भ्रमरभरजुषा कोमलेनाब्धिजायाः
कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः || 11 ||
यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदंडायमाना-
-दाश्च्योतंती बभासे सुरसरिदमला वैजयंतीव कांता |
भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तंभशोभां दधौ नः
पातामेतौ पायोजोदरललिततलौ पंकजाक्षस्य पादौ || 12 ||
आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ
याभ्यां वैरोचनींद्रौ युगपदपि विपत्संपदोरेकधाम |
ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्यांचिताभ्यामुभाभ्यां
प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपंकेरुहाभ्यां || 13 ||
येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां
साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषां |
प्राप्ता विश्वंभरा यैरतिवितततनोर्विश्वमूर्तेर्विराजो
विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वंघ्रिपंकेरुहेभ्यः || 14 ||
विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या
राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली |
अस्माकं विस्मयार्हाण्यखिलजनमनः प्रार्थनीया हि सेयं
दद्यादाद्यानवद्या ततिरतिरुचिरा मंगळान्यंगुळीनां || 15 ||
यस्यां दृष्ट्वामलायां प्रतिकृतिममराः संभवंत्यानमंतः
सेंद्राः सांद्रीकृतेर्ष्यास्त्वपरसुरकुलाशंकयातंकवंतः |
सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न-
-श्चंचच्चार्वंशुचक्रा चरणनळिनयोश्चक्रपाणेर्नखाली || 16 ||
पादांभोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट-
-प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चिंतितं यद्विभाति |
नम्रांगानां हरेर्नो हरिदुपलमहाकूर्मसौंदर्यहारि-
-च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमंतं || 17 ||
श्रीमत्यौ चारुवृत्ते करपरिमलनानंदहृष्टे रमायाः
सौंदर्याढ्येंद्रनीलोपलरचितमहादंडयोः कांतिचोरे |
सूरींद्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे
जंघे नारायणीये मुहुरपि जयतामस्मदंहो हरंत्यौ || 18 ||
सम्यक् साह्यं विधातुं सममिव सततं जंघयोः खिन्नयोर्ये
भारीभूतोरुदंडद्वयभरणकृतोत्तंभभावं भजेते |
चित्तादर्शं निधातुं महितमिव सतां ते समुद्रायमाने
वृत्ताकारे विधत्तां ह्यदि मुदमजितस्यानिशं जानुनी नः || 19 ||
देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा-
-प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान |
वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला-
-वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्तां || 20 ||
पीतेन द्योतते यच्चतुरपरिहितेनांबरेणात्युदारं
जातालंकारयोगं जलमिव जलधेर्बाडबाग्निप्रभाभिः |
एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं
सातत्येनैव चेतोविषयमवतरत्पातु पीतांबरस्य || 21 ||
यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽंगं यथाब्धे-
-र्मध्यस्थो मंदराद्रिर्भुजगपतिमहाभोगसन्नद्धमध्यः |
कांची सा कांचनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता
कल्यां कळ्याणदात्रीं मम मतिमनिशं कम्ररूपां करोतु || 22 ||
उन्नम्रं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः
पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजं |
यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या
नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय || 23 ||
पातालं यस्य नालं वलयमपि दिशां पत्रपंक्तीर्नगेंद्रा-
-न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलं |
भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो
नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः || 24 ||
आदौ कल्पस्य यस्मात् प्रभवति विततं विश्वमेतद्विकल्पैः
कल्पांते यस्य चांतः प्रविशति सकलं स्थावरं जंगमं च |
अत्यंताचिंत्यमूर्तेश्चिरतरमजितस्यांतरिक्षस्वरूपे
तस्मिन्नस्माकमंतःकरणमतिमुदा क्रीडतात्क्रोडभागे || 25 ||
कांत्यंभःपूरपूर्णे लसदसितवलीभंगभास्वत्तरंगे
गंभीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे |
क्रीडत्वानद्धहेमोदरनहनमहाबाडबाग्निप्रभाढ्ये
कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः || 26 ||
नाभीनालीकमूलादधिकपरिमळोन्मोहितानामलीनां
माला नीलेव यांती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या |
रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो-
-श्चित्तस्था मा विरंसीच्चिरतरमुचितां साधयंती श्रियं नः || 27 ||
संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं
श्रीवत्सोल्लासि फुल्लप्रतिनववनमालांकि राजद्भुजांतं |
वक्षः श्रीवृक्षकांतं मधुकरनिकरश्यामलं शार्ङ्गपाणेः
संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये || 28 ||
कांतं वक्षो नितांतं विदधदिव गलं कालिमा कालशत्रो-
-रिंदोर्बिंबं यथांको मधुप इव तरोर्मंजरीं राजते यः |
श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः
श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैःश्रियं नः || 29 ||
संभूयांभोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते
नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये |
आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां-
-स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै || 30 ||
या वायावानुकूल्यात्सरति मणिरुचा भासमानाऽसमाना
साकं साकंपमंसे वसति विदधती वासुभद्रं सुभद्रं |
सारं सारंगसंघैर्मुखरितकुसुमा मेचकांता च कांता
माला मालालितास्मान्न विरमतु सुखैर्योजयंती जयंती || 31 ||
हारस्योरुप्रभाभिः प्रतिनववनमालांशुभिः प्रांशुरूपैः
श्रीभिश्चाप्यंगदानां कबलितरुचि यन्निष्कभाभिश्च भाति |
बाहुल्येनैव बद्धांजलिपुटमजितस्याभियाचामहे त-
-द्बंधार्तिं बाधतां नो बहुविहतिकरीं बंधुरं बाहुमूलं || 32 ||
विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः
कर्तारो दुर्निरूपस्फुटगुणयशसां कर्मणामद्भुतानां |
शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशंखौ सहस्रं
बिभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिं || 33 ||
कंठाकल्पोद्गतैर्यः कनकमयलसत्कुंडलोत्थैरुदारै-
-रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति |
कंठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे
वैकुंठीयेऽत्र कंठे वसतु मम मतिः कुंठभावं विहाय || 34 ||
पद्मानंदप्रदाता परिलसदरुणश्रीपरीताग्रभागः
काले काले च कंबुप्रवरशशधरापूरणे यः प्रवीणः |
वक्त्राकाशांतरस्थस्तिरयति नितरां दंततारौघशोभां
श्रीभर्तुर्दंतवासोद्युमणिरघतमोनाशनायास्त्वसौ नः || 35 ||
नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या
वक्त्रेंदोरंतराले कृतवसतिरिवाभाति नक्षत्रराजिः |
लक्ष्मीकांतस्य कांताकृतिरतिविलसन्मुग्धमुक्तावलिश्री-
-र्दंताली संततं सा नतिनुतिनिरतानक्षतान्रक्षतान्नः || 36 ||
ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां
शंभो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः |
इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न-
-स्यास्येंदोरास्रवंती वरवचनसुधाह्लादयेन्मानसं नः || 37 ||
कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुंडलप्रोतदीप्य-
-न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् |
प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे-
-र्गाढामागामिनीं नः शमयतु विपदं गंडयोर्मंडलं तत् || 38 ||
वक्त्रांभोजे लसंतं मुहुरधरमणिं पक्वबिंबाभिरामं
दृष्ट्वा द्रष्टुं शुकस्य स्फुटमवतरतस्तुंडदंडायते यः |
घोणः शोणीकृतात्मा श्रवणयुगलसत्कुंडलोस्रैर्मुरारेः
प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् || 39 ||
दिक्कालौ वेदयंतौ जगति मुहुरिमौ संचरंतौ रवींदू
त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनींद्राः |
अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे
पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे || 40 ||
पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं
येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसंघाः |
नृत्यल्लालाटरंगे रजनिकरतनोरर्धखंडावदाते
कालव्यालद्वयं वा विलसति समया वालिकामातरं नः || 41 ||
लक्ष्माकारालकालिस्फुरदलिकशशांकार्धसंदर्शमील-
-न्नेत्रांभोजप्रबोधोत्सुकनिभृततरालीनभृंगच्छटाभे |
लक्ष्मीनाथस्य लक्ष्यीकृतविबुधगणापांगबाणासनार्ध-
-च्छाये नो भूरिभूतिप्रसवकुशलते भ्रूलते पालयेतां || 42 ||
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-
-प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकैशानलिंगं |
भूयाद्भूयो विभूत्यै मम भुवनपतेर्भ्रूलताद्वंद्वमध्या-
-दुत्थं तत्पुंड्रमूर्ध्वं जनिमरणतमःखंडनं मंडनं च || 43 ||
पीठीभूतालकांतं कृतमकुटमहादेवलिंगप्रतिष्ठे
लालाटे नाट्यरंगे विकटतरतटे कैटभारेश्चिराय |
प्रोद्धाट्यैवात्मतंद्रीप्रकटपटकुटीं प्रस्फुरंतीं स्फुटांगं
पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः || 44 ||
मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुंतलाली
कालिंद्यारुह्य मूर्ध्नो गलति हरशिरःस्वर्धुनीस्पर्धया नु |
राहुर्वा याति वक्त्रं सकलशशिकलाभ्रांतिलोलांतरात्मा
लोकैरालोक्यते या प्रदिशतु सततं साखिलं मंगळं नः || 45 ||
सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपाः
व्याप्तव्योमांतरालास्तरलमणिरुचा रंजिताः स्पष्टभासः |
देहच्छायोद्गमाभा रिपुवपुरगुरुप्लोषरोषाग्निधूम्याः
केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशं || 46 ||
यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
-स्फूर्त्या मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या |
कुर्वत्पारेपयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशंकां
शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटं || 47 ||
भ्रांत्वा भ्रांत्वा यदंतस्त्रिभुवनगुरुरप्यब्दकोटीरनेकाः
गंतुं नांतं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् |
उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं
देहांभोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः || 48 ||
मत्स्यः कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः
काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन् |
विष्णोरंशावतरा भुवनहितकरा धर्मसंस्थापनार्थाः
पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये || 49 ||
यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः
स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः |
नित्यानंदं स्वसंविन्निरवधिविमलस्वांतसंक्रांतबिंब-
-च्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः || 50 ||
आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्ते
धत्ते नित्यं निरस्ताखिलकलिकलुष संततांतः प्रमोदं |
जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्रमंत्रानुपाठै-
-स्तत्पादांभोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्यां || 51 ||
मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधाम्नः
पादाब्जद्वंद्वसेवासमयनतमतिर्मस्तकेनानमेद्यः |
उन्मुच्यैवात्मनैनोनिचयकवचकं पंचतामेत्य भानो-
-र्बिंबांतर्गोचरं स प्रविशति परमानंदमात्मस्वरूपं || 52 ||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री विष्णु पादादिकेशांतवर्णण स्तोत्रं |
अर्थ
श्री विष्णु पादादिकेशांतवर्णन स्तोत्रं भगवान विष्णु के दिव्य स्वरूप का उनके चरण कमलों से लेकर शीश तक भक्तिभाव से वर्णन करने वाला एक अत्यंत सुंदर स्तोत्र है। यह भक्तों को भगवान के प्रत्येक अंग की दिव्यता का ध्यान करने, उसे अपने मन में चित्रित करने और उनके गुणों व लीलाओं का स्मरण करने का एक मार्गदर्शक प्रदान करता है। यह स्तोत्र केवल रूप का वर्णन नहीं, बल्कि भगवान के प्रति गहरी भक्ति और आध्यात्मिक संबंध स्थापित करने का एक माध्यम है।
स्तोत्र का आरंभ भगवान के चरण कमलों से होता है, जहाँ लक्ष्मी देवी निवास करती हैं और तुलसी, गंगा तथा पुष्कर की पवित्रता समाहित है। इन चरणों का स्मरण करने से समस्त पापों का नाश होता है और मोक्ष की प्राप्ति होती है। इसके उपरांत, जंघाओं (पिंडलियों), ऊरुओं (जांघों), वक्षस्थल (छाती) का वर्णन किया गया है, जो कौस्तुभ मणि और श्रीवत्स चिह्न से सुशोभित है। फिर ब्रह्मांड की सृष्टि का कारण बने नाभि कमल और चार भुजाओं का वर्णन आता है, जिनमें भगवान शंख, चक्र, गदा और पद्म धारण किए हुए हैं। प्रत्येक अंग भगवान की अनंत शक्ति, सौंदर्य और कल्याणकारी गुणों को प्रतिबिंबित करता है।
भगवान विष्णु का मुखारविंद चंद्र-सूर्य के समान प्रकाशमान है, जो भक्तों को आनंद प्रदान करता है। उनकी आँखें करुणा और प्रेम से भरी हैं। इस रूप का ध्यान करने से भक्त भगवान के साथ एकात्मता का अनुभव करते हैं। स्तोत्र भगवान के मत्स्य, कूर्म, वराह आदि अवतारों की महिमा को भी परोक्ष रूप से इंगित करता है, उनकी सार्वभौमिक रक्षा शक्ति और पापों का नाश करने की क्षमता पर जोर देता है। स्तोत्र के एक भाग में, भगवान का पाञ्चजन्य शंख अपने गर्जना से दितिपुत्रों के कुल में भय उत्पन्न करता है, यह भगवान की विजय और दुष्ट शक्तियों के विनाश का प्रतीक है। एक अन्य भाग में, भगवान के सुदर्शन चक्र को सूर्य के समान तेजस्वी बताया गया है, जो समस्त पापों का नाश कर शांति प्रदान करता है।
इस स्तोत्र का पाठ केवल एक सुखद अनुभव नहीं, बल्कि गहरे आध्यात्मिक परिणाम प्रदान करता है। भगवान के प्रत्येक अंग का ध्यान हमारे मन को शुद्ध करता है, नकारात्मक विचारों को दूर करता है और सकारात्मक ऊर्जा से भर देता है। भक्तिपूर्वक इस स्तोत्र का पाठ करने वाले भक्त लौकिक और आध्यात्मिक दोनों लोकों में सुख, शांति और समृद्धि प्राप्त करते हैं। यह अंततः मोक्ष के मार्ग को सुगम बनाता है।
लाभ (Benefits):
- पापों का क्षय और नित्य शुभ फल की प्राप्ति: श्री विष्णु के पाद-स्मरण और पाद-सेवा से संचित समस्त पापों का नाश होता है और जीवन में सदैव शुभ फल प्राप्त होते हैं, जिससे कर्म बंधन से मुक्ति मिलती है।
- गृह-सौख्य, ऐश्वर्य और यश की प्राप्ति: भगवान विष्णु के दिव्य रूप का एकाग्रता से ध्यान करने से घर में सुख, समृद्धि, धन-संपत्ति और समाज में मान-सम्मान व कीर्ति की वृद्धि होती है।
- भक्ति, ध्यान और आत्मसाक्षात्कार में वृद्धि: यह स्तोत्र भगवान के रूप पर मन को केंद्रित करने में सहायक होता है, जिससे भक्ति दृढ़ होती है, ध्यान शक्ति बढ़ती है और अंततः आत्मसाक्षात्कार का मार्ग प्रशस्त होता है।
- भय रहित संरक्षण, शांति और मानसिक स्थिरता: भगवान के सर्वव्यापी सुरक्षा कवच में होने से सभी प्रकार के भय दूर होते हैं और मन को असीम शांति व स्थिरता मिलती है।
- मोक्ष के अनुपम अनुभव में सहायता और परमानंद की प्राप्ति: अंततः, इस स्तोत्र का निरंतर पाठ मोक्ष के मार्ग को सुगम बनाता है और भक्त को परम सत्य के अनुभव तथा परमानंद की स्थिति तक पहुँचने में सहायता करता है।
अक्सर पूछे जाने वाले प्रश्न
श्री विष्णु पादादिकेशांतवर्णन स्तोत्रं क्या है?
इस स्तोत्र का पाठ कब और कैसे करना चाहिए?
इस स्तोत्र के पाठ से क्या प्रमुख लाभ मिलते हैं?
इस स्तोत्र का पाठ कौन कर सकता है?
इस स्तोत्र का पाठ कितनी बार करना चाहिए?
इस स्तोत्र का मूल या स्रोत क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
