श्री विष्णु सहस्रनाम स्तोत्रं (गरुडपुराणे)
रुद्र उवाच |
संसारसागराद्घोरान्मुच्यते किं जपन् प्रभो |
नरस्तन्मे परं जप्यं कथय त्वं जनार्दन || 1 ||
हरिरुवाच |
परेश्वरं परं ब्रह्म परमात्मानमव्ययं |
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः || 2 ||
यत्पवित्रं परं जप्यं कथयामि वृषध्वज |
शृणुष्वावहितो भूत्वा सर्वपापविनाशनं || 3 ||
ॐ || वासुदेवो महाविष्णुर्वामनो वासवो वसुः |
बालचंद्रनिभो बालो बलभद्रो बलाधिपः || 4 ||
बलिबंधनकृद्वेधा वरेण्यो वेदवित् कविः |
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः || 5 ||
वेदांगवेत्ता वेदेशो बलाधारो बलार्दनः |
अविकारो वरेशश्च वरुणो वरुणाधिपः || 6 ||
वीरहा च बृहद्वीरो वंदितः परमेश्वरः |
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः || 7 ||
पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः |
परमः परभूतश्च पुरुषोत्तम ईश्वरः || 8 ||
पद्मजंघः पुंडरीकः पद्ममालाधरः प्रियः |
पद्माक्षः पद्मगर्भश्च पर्जन्यः पद्मसंस्थितः || 9 ||
अपारः परमार्थश्च पराणां च परः प्रभुः |
पंडितः पंडितेड्यश्च पवित्रः पापमर्दकः || 10 ||
शुद्धः प्रकाशरूपश्च पवित्रः परिरक्षकः |
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा || 11 ||
प्रधानं पृथिवीपद्मं पद्मनाभः प्रियप्रदः |
सर्वेशः सर्वगः सर्वः सर्ववित् सर्वदः सुरः || 12 ||
सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत् |
सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः || 13 ||
सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः |
सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः || 14 ||
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणं |
सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् || 15 ||
सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः |
दुष्टानां चासुराणां च सर्वदा घातकोऽंतकः || 16 ||
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवंदितः |
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः || 17 ||
शरणं जगतश्चैव श्रेयः क्षेमस्तथैव च |
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः || 18 ||
सत्यस्थः सत्यसंकल्पः सत्यवित् सत्यदस्तथा |
धर्मो धर्मी च कर्मी च सर्वकर्मविवर्जितः || 19 ||
कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च |
श्रीपतिर्नृपतिः श्रीमान् सर्वस्य पतिरूर्जितः || 20 ||
सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः |
पतिर्हिरण्यगर्भस्य त्रिपुरांतपतिस्तथा || 21 ||
पशूनां च पतिः प्रायो वसूनां पतिरेव च |
पतिराखंडलस्यैव वरुणस्य पतिस्तथा || 22 ||
वनस्पतीनां च पतिरनिलस्य पतिस्तथा |
अनलस्य पतिश्चैव यमस्य पतिरेव च || 23 ||
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा |
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा || 24 ||
नागानां पतिरर्कस्य दक्षस्य पतिरेव च |
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा || 25 ||
गंधर्वाणां पतिश्चैव असूनां पतिरुत्तमः |
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा || 26 ||
सुराणां च पतिः श्रेष्ठः कपिलस्य पतिस्तथा |
लतानां च पतिश्चैव वीरुधां च पतिस्तथा || 27 ||
मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः |
पतिश्चंद्रमसः श्रेष्ठः शुक्रस्य पतिरेव च || 28 ||
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा |
किन्नराणां पतिश्चैव द्विजानां पतिरुत्तमः || 29 ||
सरितां च पतिश्चैव समुद्राणां पतिस्तथा |
सरसां च पतिश्चैव भूतानां च पतिस्तथा || 30 ||
वेतालानां पतिश्चैव कूष्मांडानां पतिस्तथा |
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च || 31 ||
महात्मा मंगळो मेयो मंदरो मंदरेश्वरः |
मेरुर्माता प्रमाणं च माधवो मलवर्जितः || 32 ||
मालाधरो महादेवो महादेवेन पूजितः |
महाशांतो महाभागो मधुसूदन एव च || 33 ||
महावीर्यो महाप्राणो मार्कंडेयर्षिवंदितः |
मायात्मा मायया बद्धो मायया तु विवर्जितः || 34 ||
मुनिस्तुतो मुनिर्मैत्रो महानासो महाहनुः |
महाबाहुर्महादांतो मरणेन विवर्जितः || 35 ||
महावक्त्रो महात्मा च महाकायो महोदरः |
महापादो महाग्रीवो महामानी महामनाः || 36 ||
महागतिर्महाकीर्तिर्महारूपो महासुरः |
मधुश्च माधवश्चैव महादेवो महेश्वरः || 37 ||
मखेज्यो मखरूपी च माननीयो मखेश्वरः |
महावातो महाभागो महेशोऽतीतमानुषः || 38 ||
मानवश्च मनुश्चैव मानवानां प्रियंकरः |
मृगश्च मृगपूज्यश्च मृगाणां च पतिस्तथा || 39 ||
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः |
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा || 40 ||
लक्ष्मणो लक्षणश्चैव लंबोष्ठो ललितस्तथा |
नानालंकारसंयुक्तो नानाचंदनचर्चितः || 41 ||
नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः |
रामो रमापतिश्चैव सभार्यः परमेश्वरः || 42 ||
रत्नदो रत्नहर्ता च रूपी रूपविवर्जितः |
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च || 43 ||
नीलमेघनिभः शुद्धः कालमेघनिभस्तथा |
धूमवर्णः पीतवर्णो नानारूपो ह्यवर्णकः || 44 ||
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च |
सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च || 45 ||
सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च |
सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः || 46 ||
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च |
सुवर्णस्य प्रियश्चैव सुवर्णाढ्यस्तथैव च || 47 ||
सुपर्णी च महापर्णी सुपर्णस्य च कारणं |
वैनतेयस्तथादित्य आदिरादिकरः शिवः || 48 ||
कारणं महतश्चैव प्रधानस्य च कारणं |
बुद्धीनां कारणं चैव कारणं मनसस्तथा || 49 ||
कारणं चेतसश्चैव अहंकारस्य कारणं |
भूतानां कारणं तद्वत्कारणं च विभावसोः || 50 ||
आकाशकारणं तद्वत्पृथिव्याः कारणं परं |
अंडस्य कारणं चैव प्रकृतेः कारणं तथा || 51 ||
देहस्य कारणं चैव चक्षुषश्चैव कारणं |
श्रोत्रस्य कारणं तद्वत्कारणं च त्वचस्तथा || 52 ||
जिह्वायाः कारणं चैव प्राणस्यैव च कारणं |
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा || 53 ||
वाचश्च कारणं तद्वत्पायोश्चैव तु कारणं |
इंद्रस्य कारणं चैव कुबेरस्य च कारणं || 54 ||
यमस्य कारणं चैव ईशानस्य च कारणं |
यक्षाणां कारणं चैव रक्षसां कारणं परं || 55 ||
नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणं |
जंतूनां कारणं चैव वसूनां कारणं परं || 56 ||
मनूनां कारणं चैव पक्षिणां कारणं परं |
मुनीनां कारणं श्रेष्ठ योगिनां कारणं परं || 57 ||
सिद्धानां कारणं चैव यक्षाणां कारणं परं |
कारणं किन्नराणां च गंधर्वाणां च कारणं || 58 ||
नदानां कारणं चैव नदीनां कारणं परं |
कारणं च समुद्राणां वृक्षाणां कारणं तथा || 59 ||
कारणं वीरुधां चैव लोकानां कारणं तथा |
पाताल कारणं चैव देवानां कारणं तथा || 60 ||
सर्पाणां कारणं चैव श्रेयसां कारणं तथा |
पशूनां कारणं चैव सर्वेषां कारणं तथा || 61 ||
देहात्मा चेंद्रियात्मा च आत्मा बुद्धेस्तथैव च |
मनसश्च तथैवात्मा चात्माहंकारचेतसः || 62 ||
जाग्रतः स्वपतश्चात्मा महदात्मा परस्तथा |
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा || 63 ||
पृथिव्याः परमात्मा च रसस्यात्मा तथैव च |
गंधस्य परमात्मा च रूपस्यात्मा परस्तथा || 64 ||
शब्दात्मा चैव वागात्मा स्पर्शात्मा पुरुषस्तथा |
श्रोत्रात्मा च त्वगात्मा च जिह्वात्मा परमस्तथा || 65 ||
घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा |
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा || 66 ||
इंद्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा |
दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा || 67 ||
ईशात्मा परमात्मा च रौद्रात्मा मोक्षविद्यतिः |
यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरांतकः || 68 ||
ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः |
यतिरूपी च योगी च योगिध्येयो हरिः शितिः || 69 ||
संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा |
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा || 70 ||
मोहकर्ता च दुष्टानां मांडव्यो वडवामुखः |
संवर्तः कालकर्ता च गौतमो भृगुरंगिराः || 71 ||
अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च |
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः || 72 ||
शर्मदश्चैव गांगेयो हृषीकेशो बृहच्छ्रवाः |
केशवः क्लेशहंता च सुकर्णः कर्णवर्जितः || 73 ||
नारायणो महाभागः प्राणस्य पतिरेव च |
अपानस्य पतिश्चैव व्यानस्य पतिरेव च || 74 ||
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा |
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च || 75 ||
रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः |
चक्रपाणिः कुंडली च श्रीवत्सांकस्तथैव च || 76 ||
प्रकृतिः कौस्तुभग्रीवः पीतांबरधरस्तथा |
सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः || 77 ||
अनंतोऽनंतरूपश्च सुनखः सुरमंदरः |
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा || 78 ||
हिरण्यकशिपोर्हंता हिरण्याक्षविमर्दकः |
निहंता पूतनायाश्च भास्करांतविनाशनः || 79 ||
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः |
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः || 80 ||
अरिष्टस्य निहंता च अक्रूरप्रिय एव च |
अक्रूरः क्रूररूपश्च अक्रूरप्रियवंदितः || 81 ||
भगहा भगवान् भानुस्तथा भागवतः स्वयं |
उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिंतितः || 82 ||
चक्रधृक् चंचलश्चैव चलाचलविवर्जितः |
अहंकारोपमश्चित्तं गगनं पृथिवी जलं || 83 ||
वायुश्चक्षुस्तथा श्रोत्रं जिह्वा च घ्राणमेव च |
वाक्पाणिपादजवनः पायूपस्थस्तथैव च || 84 ||
शंकरश्चैव सर्वश्च क्षांतिदः क्षांतिकृन्नरः |
भक्तप्रियस्तथा भर्ता भक्तिमान् भक्तिवर्धनः || 85 ||
भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः |
कीर्तिर्दीप्तिः क्षमाकांतिर्भक्तश्चैव दया परा || 86 ||
दानं दाता च कर्ता च देवदेवप्रियः शुचिः |
शुचिमान् सुखदो मोक्षः कामश्चार्थः सहस्रपात् || 87 ||
सहस्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च |
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च || 88 ||
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा |
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः || 89 ||
मत्स्यः परशुरामश्च प्रह्लादो बलिरेव च |
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् || 90 ||
खरदूषणहंता च रावणस्य प्रमर्दनः |
सीतापतिश्च वर्धिष्णुर्भरतश्च तथैव च || 91 ||
कुंभेंद्रजिन्निहंता च कुंभकर्णप्रमर्दनः |
नरांतकांतकश्चैव देवांतकविनाशनः || 92 ||
दुष्टासुरनिहंता च शंबरारिस्तथैव च |
नरकस्य निहंता च त्रिशीर्षस्य विनाशनः || 93 ||
यमलार्जुनभेत्ता च तपोहितकरस्तथा |
वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः || 94 ||
सारः सारप्रियः सौरः कालहंतृनिकृंतनः |
अगस्त्यो देवलश्चैव नारदो नारदप्रियः || 95 ||
प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः शरत् |
उदानश्च समानश्च भेषजं च भिषक् तथा || 96 ||
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः |
चक्षुरिंद्रियहीनश्च वागिंद्रियविवर्जितः || 97 ||
हस्तेंद्रियविहीनश्च पादाभ्यां च विवर्जितः |
पायूपस्थविहीनश्च मरुतापविवर्जितः || 98 || [महाताप]
प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः |
चेतसा विगतश्चैव प्राणेन च विवर्जितः || 99 ||
अपानेन विहीनश्च व्यानेन च विवर्जितः |
उदानेन विहीनश्च समानेन विवर्जितः || 100 ||
आकाशेन विहीनश्च वायुना परिवर्जितः |
अग्निना च विहीनश्च उदकेन विवर्जितः || 101 ||
पृथिव्या च विहीनश्च शब्देन च विवर्जितः |
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः || 102 ||
रागेण विगतश्चैव अघेन परिवर्जितः |
शोकेन रहितश्चैव वचसा परिवर्जितः || 103 ||
रजोविवर्जितश्चैव विकारैः षड्भिरेव च |
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः || 104 ||
लोभेन विगतश्चैव दंभेन च विवर्जितः |
सूक्ष्मश्चैव सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा || 105 ||
विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा |
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा || 106 ||
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा |
इंद्रियाणां क्षोभकश्च विषयक्षोभकस्तथा || 107 ||
ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा |
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च || 108 ||
त्वचा न गम्यः कूर्मश्च जिह्वाऽग्राह्यस्तथैव च |
घ्राणेंद्रियागम्य एव वाचाऽग्राह्यस्तथैव च || 109 ||
अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च |
अग्राह्यो मनसश्चैव बुद्ध्याऽग्राह्यो हरिस्तथा || 110 ||
अहं बुद्ध्या तथाऽग्राह्यश्चेतसाऽग्राह्य एव च |
शंखपाणिश्चाव्ययश्च गदापाणिस्तथैव च || 111 ||
शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परंतपः |
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च || 112 ||
ज्ञेयश्च ज्ञेयहीनश्च ज्ञप्तिश्चैतन्यरूपकः |
भावो भाव्यो भवकरो भावनो भवनाशनः || 113 ||
गोविंदो गोपतिर्गोपः सर्वगोपीसुखप्रदः |
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा || 114 ||
उपेंद्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः |
आरणेयो बृहद्भानुर्बृहद्दीप्तिस्तथैव च || 115 ||
दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः |
त्रिसंध्यो द्वापरं त्रेता प्रजाद्वारं त्रिविक्रमः || 116 ||
विक्रमो दंडहस्तश्च ह्येकदंडी त्रिदंडधृक् |
सामभेदस्तथोपायः सामरूपी च सामगः || 117 ||
सामवेदो ह्यथर्वश्च सुकृतः सुतरूपणः |
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च || 118 ||
ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः |
यजुर्वेत्ता यजुर्वेदो यजुर्वेदविदेकपात् || 119 ||
बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् |
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली || 120 ||
सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च |
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः || 121 ||
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वर्णस्तथैव च |
शीलदः शीलसंपन्नो दुःशीलपरिवर्जितः || 122 ||
मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः |
पूज्यो वाक्करणं चैव वाच्यं चैव तु वाचकः || 123 ||
वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित् |
वाक्यगम्यस्तीर्थवासी तीर्थस्तीर्थी च तीर्थवित् || 124 ||
तीर्थादिभूतः सांख्यश्च निरुक्तं त्वधिदैवतं |
प्रणवः प्रणवेशश्च प्रणवेन प्रवंदितः || 125 ||
प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः |
शालग्रामनिवासी च शालग्रामस्तथैव च || 126 ||
जलशायी योगशायी शेषशायी कुशेशयः |
महीभर्ता च कार्यं च कारणं पृथिवीधरः || 127 ||
प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् |
सम्राट् पूषा तथा स्वर्गो रथस्थः सारथिर्बलं || 128 ||
धनी धनप्रदो धन्यो यादवानां हिते रतः |
अर्जुनस्य प्रियश्चैव ह्यर्जुनो भीम एव च || 129 ||
पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः |
सारस्वतो महाभीष्मः पारिजातहरस्तथा || 130 ||
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च |
इंद्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा || 131 ||
कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः |
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः || 132 ||
मुद्रो मुद्राकरश्चैव सर्वमुद्राविवर्जितः |
देही देहस्थितश्चैव देहस्य च नियामकः || 133 ||
श्रोता श्रोत्रनियंता च श्रोतव्यः श्रवणं तथा |
त्वक्-स्थितश्च स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा || 134 ||
रूपद्रष्टा च चक्षुःस्थो नियंता चक्षुषस्तथा |
दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः || 135 ||
घ्राणस्थो घ्राणकृद्घ्राता घ्राणेंद्रियनियामकः |
वाक्-स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः || 136 ||
प्राणिस्थः शिल्पकृच्छिल्पो हस्तयोश्च नियामकः |
पदव्यश्चैव गंता च गंतव्यं गमनं तथा || 137 ||
नियंता पादयोश्चैव पाद्यभाक् च विसर्गकृत् |
विसर्गस्य नियंता च ह्युपस्थस्थः सुखं तथा || 138 ||
उपस्थस्य नियंता च तदानंदकरश्च ह |
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च || 139 ||
अलर्कस्य हितश्चैव कार्तवीर्यनिकृंतनः |
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा || 140 ||
अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः |
धूमकृद्धूमरूपश्च देवकीपुत्र उत्तमः || 141 ||
देवक्यानंदनो नंदो रोहिण्याः प्रिय एव च |
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा || 142 ||
दुंदुभिर्हासरूपश्च पुष्पहासस्तथैव च |
अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः || 143 ||
अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः |
रुक्मिण्याश्च पतिश्चैव रुक्मिण्यावल्लभस्तथा || 144 ||
गोपीनां वल्लभश्चैव पुण्यश्लोकश्च विश्रुतः |
वृषाकपिर्यमो गुह्यो मुकुलश्च बुधस्तथा || 145 ||
राहुः केतुर्ग्रहो ग्राहो गजेंद्रमुखमेलकः |
ग्राहस्य विनिहंता च ग्रामणी रक्षकस्तथा || 146 ||
किन्नरश्चैव सिद्धश्च छंदः स्वच्छंद एव च |
विश्वरूपो विशालाक्षो दैत्यसूदन एव च || 147 ||
अनंतरूपो भूतस्थो देवदानवसंस्थितः |
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानांत एव च || 148 ||
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा |
स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च || 149 ||
जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः |
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा || 150 ||
भुवनाधिपतिश्चैव भुवनानां नियामकः |
पातालवासी पातालं सर्वज्वरविनाशनः || 151 ||
परमानंदरूपी च धर्माणां च प्रवर्तकः |
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा || 152 ||
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा |
प्रभा कांतिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः || 153 ||
अग्राहश्चैव गौरश्च सर्वः शुचिरभिष्टुतः |
वषट्कारो वषड्वौषट् स्वधा स्वाहा रतिस्तथा || 154 ||
पक्ता नंदयिता भोक्ता बोद्धा भावयिता तथा |
ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः || 155 ||
नदी नंदी च नंदीशो भारतस्तरुनाशनः |
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनां || 156 ||
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा |
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च || 157 ||
भरतो जनको जन्यः सर्वाकारविवर्जितः |
निराकारो निर्निमित्तो निरातंको निराश्रयः || 158 ||
इति नामसहस्रं ते वृषभध्वज कीर्तितं |
देवस्य विष्णोरीशस्य सर्वपापविनाशनं || 159 ||
पठन् द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् |
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः || 160 ||
इति श्रीगारुडे महापुराणे आचारकांडे श्री विष्णु सहस्रनाम स्तोत्रं नाम पंचदशोऽध्यायः ||
अर्थ
श्री विष्णु सहस्रनाम केवल भगवान के हजारों नामों की एक सूची मात्र नहीं है। यह एक विश्व-तात्विक दर्शन, एक भक्ति मार्ग, एक आध्यात्मिक विज्ञान और एक अंतर्मुखी साधना है। गरुड़ पुराण में वर्णित इस सहस्रनाम का लक्ष्य मनुष्य के अज्ञान, पाप, भय, दुख और कर्मों को दूर कर भक्त को परब्रह्मानंद की ओर ले जाना है। प्रत्येक नाम भगवान की एक विशेष शक्ति, गुण या विश्वरूप को दर्शाने वाला एक दिव्य दीपक है। इस स्तोत्र का केंद्रीय संदेश है कि विष्णु ही परमात्मा हैं। वह अनादि, अनंत, नित्य, सर्वव्यापी और सर्वशक्तिमान हैं। 'परमेश्वर', 'परमात्मा', 'ब्रह्म' जैसे नाम उनके परब्रह्म स्वरूप को बताते हैं।
'जगन्नाथ', 'भूतभृत्', 'सर्वगः' जैसे नाम उनकी जगत् को धारण करने वाली शक्तियों को इंगित करते हैं। इसके माध्यम से भक्त यह समझता है कि ईश्वर कोई दूर की शक्ति नहीं है; वह हम में, हमारे चारों ओर, प्रत्येक अणु में एक साथ विद्यमान सत्स्वरूप है। यह सहस्रनाम मन-शरीर-संसार नामक तीन स्तरों पर कार्य करता है।
1. अज्ञान का नाश – आंतरिक शुद्धि: अनेक नाम भक्त के अज्ञान को दूर करने के उद्देश्य से हैं। 'पापनाशनः', 'भयहरः', 'शोकनाशनः', 'सत्यसंकल्पः' जैसे नाम मन के भय, दुख, दुराशाओं, चिंताओं और अविश्वासों को शांत करते हैं। इन नामों का जप करने वाले भक्त का अंतर्मन धीरे-धीरे शांत हो जाता है। ईश्वर के गुण हमारे हृदय में प्रतिबिंबित होते हैं, जिससे हम स्वयं को सुधारने में सक्षम होते हैं।
2. नैतिक-आध्यात्मिक मार्गदर्शन: विष्णु को 'धर्मस्थापक', 'सत्यवान', 'कृपामूर्ति', 'कर्मफल दाता' कहा जाता है। इसका अर्थ है कि सहस्रनाम के श्रवण से भक्त भीतर से धर्म पथ पर चलने का संकल्प प्राप्त करता है। पाप करने वाला पश्चाताप करता है, भटका हुआ व्यक्ति फिर से ईश्वर के मार्ग को चुनता है, और भक्ति रहित हृदय में भी धीरे-धीरे श्रद्धा और विनय बढ़ता है।
3. सृष्टि की पवित्रता – विश्वरूप दर्शन: इस सहस्रनाम के अनेक नाम भगवान को प्रकृति, भूत, दिशाओं, लोकों, वृक्षों, नदियों, पर्वतों, देवताओं – इन सभी रूपों में दिखाते हैं। उदाहरण के लिए: 'पर्वतानां पतिः', 'सरितां पतिः', 'वृक्षाणां पतिः' जैसे नाम सृष्टि के प्रत्येक तत्व में ईश्वर के अस्तित्व को दर्शाते हैं। यह भक्त को यह बोध कराता है कि संपूर्ण विश्व ही दिव्य है, जिससे सृष्टि के प्रति सम्मान और पवित्रता की भावना बढ़ती है। इस प्रकार, विष्णु सहस्रनाम केवल एक स्तोत्र नहीं, बल्कि एक समग्र जीवन दृष्टि प्रदान करने वाला पवित्र ग्रंथ है।
लाभ (Benefits):
- मानसिक शांति और स्पष्टता: नियमित जप से मन शांत होता है, चिंताएं कम होती हैं और मानसिक स्पष्टता आती है।
- पाप निवारण और भय मुक्ति: 'पापनाशनः' और 'भयहरः' नामों का जप पापों का नाश करता है और सभी प्रकार के भयों से मुक्ति दिलाता है।
- आध्यात्मिक उन्नति और आत्म-साक्षात्कार: भगवान के गुणों का स्मरण करने से आत्म-साक्षात्कार की दिशा में प्रगति होती है और आध्यात्मिक उन्नति मिलती है।
- धर्म मार्ग में प्रेरणा: चूंकि विष्णु धर्म के रक्षक हैं, इस स्तोत्र का पाठ भक्त को धर्म के मार्ग पर चलने के लिए प्रेरित करता है।
- इच्छित फल की प्राप्ति और सुरक्षा: भगवान के हजार नामों का स्मरण करने से सद्गुण बढ़ते हैं, इच्छित मनोकामनाएं पूर्ण होती हैं और सभी नकारात्मक शक्तियों से सुरक्षा मिलती है।
अक्सर पूछे जाने वाले प्रश्न
श्री विष्णु सहस्रनाम स्तोत्रं (गरुडपुराणे) क्या है?
इस स्तोत्र का पाठ कब और कैसे करना चाहिए?
इस स्तोत्र का पाठ करने से क्या लाभ मिलते हैं?
कौन इस स्तोत्र का पाठ कर सकता है?
इस स्तोत्र का पाठ कितनी बार करना चाहिए?
इस स्तोत्र का उद्गम या स्रोत क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
