श्री त्रिपुरसुंदरी वेदपाद स्तवः
वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया |
यथामति मतिं देवस्तन्नो दंतिः प्रचोदयात् || 1 ||
अकिंचित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् |
सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् || 2 ||
अकारादिक्षकारांतवर्णावयवशालिनी |
वीणापुस्तकहस्ताव्यात्प्रणो देवी सरस्वती || 3 ||
या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी |
वाचि नर्तयतु क्षिप्रं मेधां देवी सरस्वती || 4 ||
उपास्यमाना विप्रेंद्रैः संध्यासु च तिसृष्वपि |
सद्यः प्रसीद मे मातः संध्याविद्ये सरस्वती || 5 ||
मंदा निंदालोलुपाहं स्वभावा-
-देतत्स्तोत्रं पूर्यते किं मयेति |
मा ते भीतिर्हे मते त्वादृशाना-
-मेषा नेत्री राधसा सूनृतानां || 6 ||
तरंगभ्रुकुटीकोटिभंग्या तर्जयते जरां |
सुधामयाय शुभ्राय सिंधूनां पतये नमः || 7 ||
तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः |
अस्तु मे ललितावासः स्वस्तिदा अभयंकरः || 8 ||
कदंबमंजरीनिर्यद्वारुणीपारणोन्मदैः |
द्विरेफैर्वर्णनीयाय वनानां पतये नमः || 9 ||
तत्र वप्रावली लीला गगनोल्लंघिगोपुरं |
मातः कौतूहलं दद्यात्सग्ंहार्यं नगरं तव || 10 ||
मकरंदझरीमज्जन्मिलिंदकुलसंकुलां |
महापद्माटवीं वंदे यशसा संपरीवृतां || 11 ||
तत्रैव चिंतामणिधोरणार्चिभि-
-र्विनिर्मितं रोपितरत्नशृंगं |
भजे भवानीभवनावतंस-
-मादित्यवर्णं तमसः परस्तात् || 12 ||
मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते |
तत्र पश्यामि बुद्ध्या तदक्षरे परमे व्योमन् || 13 ||
पंचब्रह्ममयो मंचस्तत्र यो बिंदुमध्यगः |
तव कामेशि वासोऽयमायुष्मंतं करोतु मां || 14 ||
नानारत्नगुलुच्छालीकांतिकिम्मीलितोदरं |
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशं || 15 ||
पर्यंकतल्पोपरि दर्शनीयं
सबाणचापांकुशपाशपाणिं |
अशेषभूषारमणीयमीडे
त्रिलोचनं नीलकंठं प्रशांतं || 16 ||
जटारुणं चंद्रकलाललामं
उद्वेललावण्यकलाभिरामं |
कामेश्वरं कामशरासनांकं
समस्तसाक्षिं तमसः परस्तात् || 17 ||
तत्र कामेशवामांके खेलंतीमलिकुंतलां |
सच्चिदानंदलहरीं महालक्ष्मीमुपास्महे || 18 ||
चारुगोरोचनापंकजंबालितघनस्तनीं |
नमामि त्वामहं लोकमातरं पद्ममालिनीं || 19 ||
शिवे नमन्निर्जरकुंजरासुर-
-प्रतोलिकामौलिमरीचिवीचिभिः |
इदं तव क्षालनजातसौभगं
चरणं नो लोके सुधितां दधातु || 20 ||
कल्पस्यादौ कारणेशानपि त्री-
-न्स्रष्टुं देवि त्रीन्गुणानादधानां |
सेवे नित्यं श्रेयसे भूयसे त्वा-
-मजामेकां लोहितशुक्लकृष्णां || 21 ||
केशोद्भूतैरद्भुतामोदपूरै-
-राशाबृंदं सांद्रमापूरयंतीं |
त्वामानम्य त्वत्प्रसादात्स्वयंभू-
-रस्मान्मायी सृजते विश्वमेतत् || 22 ||
अर्धोन्मीलद्यौवनोद्दामदर्पां
दिव्याकल्पैरर्पयंतीं मयूखान् |
देवि ध्यात्वा त्वां पुरा कैटभारि-
-र्विश्वं बिभर्ति भुवनस्य नाभिः || 23 ||
कल्हारश्रीमंजरीपुंजरीतिं
धिक्कुर्वंतीमंब ते पाटलिम्ना |
मूर्तिं ध्यात्वा शाश्वतीं भूतिमाय-
-न्निंद्रो राजा जगतो य ईशे || 24 ||
देवतांतरमंत्रौघजपश्रीफलभूतया |
जापकस्तव देव्यंते विद्यया विंदतेऽमृतं || 25 ||
पुंस्कोकिलकलक्वाणकोमलालापशालिनि |
भद्राणि कुरु मे मातर्दुरितानि परासुव || 26 ||
अंतेवासिन्नस्ति चेत्ते मुमुक्षा
वक्ष्ये युक्तिं मुक्तसर्वैषणः सन् |
सद्भ्यः साक्षात्सुंदरीं ज्ञप्तिरूपां
श्रद्धाभक्तिध्यानयोगादवेहि || 27 ||
षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा |
कामेशमहिषी भूयः षोडशी शर्म यच्छतु || 28 ||
शांतो दांतो देशिकेंद्रं प्रणम्य
तस्यादेशात्तारकं मंत्रतत्त्वं |
जानीते चेदंब धन्यः समानं
नातः परं वेदितव्यं हि किंचित् || 29 ||
त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च |
त्वामंब न विना किंचित्त्वयि सर्वं प्रतिष्ठितं || 30 ||
परागमद्रींद्रसुते तवांघ्रि-
-सरोजयोरंब दधामि मूर्ध्ना |
अलंकृतं वेदवधूशिरोभि-
-र्यतो जातो भुवनानि विश्वा || 31 ||
दुष्टांदैत्यान्हंतुकामां महर्षीन्
शिष्टानन्यान्पातुकामां कराब्जैः |
अष्टाभिस्त्वां सायुधैर्भासमानां
दुर्गां देवीग्ं शरणमहं प्रपद्ये || 32 ||
देवि सर्वानवद्यांगि त्वामनादृत्य ये क्रियाः |
कुर्वंति निष्फलास्तेषामदुग्धा इव धेनवः || 33 ||
नाहं मन्ये दैवतं मान्यमन्य-
-त्त्वत्पादाब्जादंबिके कुंभजाद्याः |
ये ध्यातारो भक्तिसंशुद्धचित्ताः
परामृतात्परिमुच्यंति सर्वे || 34 ||
कुर्वाणोऽपि दुरारंभांस्तव नामानि शांभवि |
प्रजपन्नेति मायांतमति मृत्युं तराम्यहं || 35 ||
कल्याणि त्वं कुंदहासप्रकाशै-
-रंतर्ध्वांतं नाशयंती क्षणेन |
हंतास्माकं ध्यायतां त्वत्पदाब्ज-
-मुच्चतिष्ठ महते सौभगाय || 36 ||
तितीर्षया भवांभोधेर्हयग्रीवादयः पुरा |
अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे || 37 ||
मद्वश्या ये दुराचारा ये च सन्मार्गगामिनः |
भवत्याः कृपया सर्वे सुवर्यंतु यजमानाः || 38 ||
श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं
पौंड्रं चापं पुष्पबाणांदधानां |
बंधूकाभां भावयामि त्रिनेत्रां
तामग्निवर्णां तपसा ज्वलंतीं || 39 ||
भवानि तव पादाब्जनिर्णेजनपवित्रताः |
भवामयप्रशांत्यै त्वामपो याचामि भेषजं || 40 ||
चिदानंदसुधांभोधेस्तवानंदलवोऽस्ति यः |
कारणेशैस्त्रिभिः साकं तद्विश्वमुपजीवति || 41 ||
नो वा यागैर्नैव पूर्तादिकृत्यै-
-र्नो वा जप्यैर्नो महद्भिस्तपोभिः |
नो वा योगैः क्लेशकृद्भिः सुमेधा
निचाय्येमां शांतिमत्यंतमेति || 42 ||
प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये |
सायं पाहि जगद्वंद्ये पुनर्नः पाहि विश्वतः || 43 ||
बंधूकाभैर्भानुभिर्भासयंती
विश्वं शश्वत्तुंगपीनस्तनार्धा |
लावण्याब्धेः सुंदरि त्वं प्रसादा-
-दायुः प्रजाग्ं रयिमस्मासु धेहि || 44 ||
कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते |
त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परा गतिः || 45 ||
वाग्देवीति त्वां वदंत्यंब केचि-
-ल्लक्ष्मीर्गौरीत्येवमन्येऽप्युशंति |
शश्वन्मातः प्रत्यगद्वैतरूपां
शंसंति केचिन्निविदो जनाः || 46 ||
ललितेति सुधापूरमाधुरीचोरमंबिके |
तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा || 47 ||
ये संपन्नाः साधनैस्तैश्चत्तुर्भिः
शुश्रूषाभिर्देशिकं प्रीणयंति |
सम्यग्विद्वान् शुद्धसत्त्वांतराणां
तेषामेवैतां ब्रह्मविद्यां वदेत || 48 ||
अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे |
तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु || 49 ||
जगत्पवित्रि मामिकामपाहराशु दुर्जरां |
प्रसीद मे दयाधुने प्रशस्तिमंब नः स्कृधि || 50 ||
कदंबारुणमंबाया रूपं चिंतय चित्त मे |
मुंच पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनं || 51 ||
भंडभंडनलीलायां रक्तचंदनपंकिलः |
अंकुशस्तव तं हन्याद्यश्च नो द्विषते जनः || 52 ||
रे रे चित्त त्वं वृधा शोकसिंधौ
मज्जस्यंतर्वच्म्युपायं विमुक्त्यै |
देव्याः पादौ पूजयैकाक्षरेण
तत्ते पदं संग्रहेण ब्रवीम्यों || 53 ||
चंचद्बालातपज्योत्स्नाकलामंडलशालिने |
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने || 54 ||
तामेवाद्यां ब्रह्मविद्यामुपासे
मूर्तैर्वेदैः स्तूयमानां भवानीं |
हंत स्वात्मत्वेन यां मुक्तिकामो
मत्वा धीरो हर्षशोकौ जहाति || 55 ||
शरणं करवाण्यंब चरणं तव सुंदरि |
शपे त्वत्पादुकाभ्यां मे नान्यः पंथा अयनाय || 56 ||
रत्नच्छत्रैश्चामरैर्दर्पणाद्यै-
-श्चक्रेशानीं सर्वदोपाचरंत्यः |
योगिन्योऽन्याः शक्तयश्चाणिमाद्या
यूयं पातः स्वस्तिभिः सदा नः || 57 ||
दरिद्रं मां विजानीहि सर्वज्ञासि यतः शिवे |
दूरीकृत्याशु दुरितमथा नो वर्धया रयिं || 58 ||
महेश्वरि महामंत्रकूटत्रयकलेबरे |
कादिविद्याक्षरश्रेणिमुशंतस्त्वा हवामहे || 59 ||
मूलाधारादूर्ध्वमंतश्चरंतीं
भित्त्वा ग्रंथीन्मूर्ध्नि निर्यत्सुधार्द्रां |
पश्यंतस्त्वां ये च तृप्तिं लभंते
तेषां शांतिः शाश्वती नेतरेषां || 60 ||
मह्यं द्रुह्यंति ये मातस्त्वद्ध्यानासक्तचेतसे |
तानंब सायकैरेभिरव ब्रह्मद्विषो जहि || 61 ||
त्वद्भक्तानामंब शांतैषणानां
ब्रह्मिष्ठानां दृष्टिपातेन पूतः |
पापीयानप्यावृतः स्वर्वधूभिः
शोकातिगो मोदते स्वर्गलोके || 62 ||
संतु विद्या जगत्यस्मिन्संसारभ्रमहेतवः |
भजेऽहं त्वां यया विद्वान्विद्ययामृतमश्नुते || 63 ||
विद्वन्मुख्यैर्विद्रुमाभं विशाल-
-श्रोणीशिंजन्मेखलाकिंकिणीकं |
चंद्रोत्तंसं चिन्मयं वस्तु किंचि-
-द्विद्धि त्वमेतन्निहितं गुहायां || 64 ||
न विस्मरामि चिन्मूर्तिमिक्षुकोदंडशालिनीं |
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिं || 65 ||
चक्षुःप्रेंखत्प्रेमकारुण्यधारां
हंसज्योत्स्नापूरहृष्यच्चकोरां |
यामाश्लिष्यन्मोदते देवदेवः
सा नो देवी सुहवा शर्म यच्छतु || 66 ||
मुंच वंचकतां चित्त पामरं चापि दैवतं |
गृहाण पदमंबाया एतदालंबनं परं || 67 ||
का मे भीतिः का क्षतिः किं दुरापं
कामेशांकोत्तुंगपर्यंकसंस्थां |
तत्त्वातीतामच्युतानंददात्रीं
देवीमहं निरृतिं वंदमानः || 68 ||
चिंतामणिमयोत्तंसकांतिकंचुकितानने |
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन || 69 ||
तारुण्योत्तुंगितकुचे लावण्योल्लासितेक्षणे |
तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः || 70 ||
आकर्णाकृष्टकामासस्त्रसंजातं तापमंब मे |
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव || 71 ||
कुर्वे गर्वेणापचारानपारा-
-नद्यप्यंब त्वत्पदाब्जं तथापि |
मन्ये धन्ये देवि विद्यावलंबं
मातेव पुत्रं बिभृतास्वेनं || 72 ||
यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुंदरि |
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि || 73 ||
चक्रं सेवे तारकं सर्वसिध्यै
श्रीमन्मातः सिद्धयश्चाणिमाद्याः |
नित्या मुद्रा शक्तयश्चांगदेव्यो
यस्मिंदेवा अधि विश्वे निषेदुः || 74 ||
सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे |
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती || 75 ||
विद्युद्वल्लीकंदलीं कल्पयंतीं
मूर्तिं स्फूर्त्या पंकजं धारयंतीं |
ध्यायन्हि त्वां जायते सार्वभौमो
विश्वा आशाः पृतनाः संजयंजयन् || 76 ||
अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीं |
अहो पतंति निरयेष्वेके चात्महनो जनाः || 77 ||
सिंदूराभैः सुंदरैरंशुबृंदै-
-र्लाक्षालक्ष्म्यां मज्जयंतीं जगंति |
हेरंबांब त्वां हृदा लंबते य-
-स्तस्मै विशः स्वयमेवानमंते || 78 ||
तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणं |
चिदानंदघनादन्यन्नेह नानास्ति किंचन || 79 ||
कंठात्कुंडलिनीं नीत्वा सहस्रारं शिवे तव |
न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः || 80 ||
त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि |
पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे || 81 ||
तवानुग्रहनिर्भिन्नहृदयग्रंथिरद्रिजे |
स्वात्मत्वेन जगन्मत्वा ततो न विजुगुप्सते || 82 ||
कदा वसुदलोपेते त्रिकोणनवकान्विते |
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीं || 83 ||
ह्रीमित्येकं तावकं वाचकार्णं
यज्जिह्वाग्रे देवि जागर्ति किंचित् |
को वायं स्यात्कामकामस्त्रिलोक्यां
सर्वेऽस्मै देवाः बलिमावहंति || 84 ||
नाकस्त्रीणां किन्नरीणां नृपाणा-
-मप्याकर्षी चेतसा चिंतनीयं |
त्वत्पाणिस्थं कुंकुमाभं शिवे यं
द्विष्मस्तस्मिन्प्रति मुंचामि पाशं || 85 ||
नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् |
भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति || 86 ||
त्रिकलाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषितां |
यो जपत्यंब ते विद्यां सोऽक्षरः परमः स्वराट् || 87 ||
दारिद्र्याब्धौ देवि मग्नोऽपि शश्व-
-द्वाचा याचे नाहमंब त्वदन्यं |
तस्मादस्मद्वांछितं पूरयैत-
-दुषा सा नक्ता सुदुघेव धेनुः || 88 ||
यो वा यद्यत्कामनाकृष्टचित्तः
स्तुत्वोपास्ते देवि ते चक्रविद्यां |
कल्याणानामालयः कालयोगा-
-त्तं तं लोकं जयते तांश्च कामान् || 89 ||
साधकः सततं कुर्यादैक्यं श्रीचक्रदेहयोः |
तथा देव्यात्मनोरैक्यमेतावदनुशासनं || 90 ||
हस्तांभोजप्रोल्लसच्चामराभ्यां
श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानां |
श्रीसंम्राज्ञि त्वां सदालोकयेयं
सदा सद्भिः सेव्यमानां निगूढां || 91 ||
इष्टानिष्टप्राप्तिविच्छित्तिहेतुः
स्तोतुं वाचां क्लुप्तिरित्येव मन्ये |
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं
न चक्षुषा गृह्यते नापि वाचा || 92 ||
हरस्वरैश्चतुर्वर्गप्रदं मंत्रं सबिंदुकं |
देव्या जपत विप्रेंद्रा अन्या वाचो विमुंचथ || 93 ||
यस्ते राकाचंद्रबिंबासनस्थां
पीयूषाब्धिं कल्पयंतीं मयूखैः |
मूर्तिं भक्त्या ध्यायते हृत्सरोजे
न तस्य रोगो न जरा न मृत्युः || 94 ||
तुभ्यं मातर्योऽंजलिं मूर्ध्नि धत्ते
मौलिश्रेण्या भूभुजस्तं नमंति |
यः स्तौति त्वामंब चिद्वल्लिवाचा
तं धीरासः कवय उन्नयंति || 95 ||
वैरिंचोघैर्विष्णुरुद्रेंद्रबृंदै-
-र्दुर्गाकालीभैरवीशक्तिसंघैः |
यंत्रेशि त्वं वर्तसे स्तूयमाना
न तत्र सूर्यो भाति न चंद्रतारकं || 96 ||
भूत्यै भवानि त्वां वंदे सुराः शतमखादयः |
त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि || 97 ||
पुष्पवत्पुल्लताटंकां प्रातरादित्यपाटलां |
यस्त्वामंतः स्मरत्यंब तस्य देवा असन्वशे || 98 ||
वश्ये विद्रुमसंकाशां विद्यायां विशदप्रभां |
त्वामंब भावयेद्भूत्यै सुवर्णां हेममालिनीं || 99 ||
वामांकस्थामीशितुर्दीप्यमानां
भूषाबृंदैरिंदुरेखावतंसां |
यस्त्वां पश्यन् संततं नैव तृप्तः
तस्मै च देवि वषडस्तु तुभ्यं || 100 ||
नवनीपवनीवासलालसोत्तरमानसे |
शृंगारदेवते मातः श्रियं वासय मे कुले || 101 ||
भक्त्याभक्त्या वापि पद्यावसान-
-श्रुत्या स्तुत्या चैतया स्तौति यस्त्वां |
तस्य क्षिप्रं त्वत्प्रसादेन मातः
सत्याः संतु यजमानस्य कामाः || 102 ||
बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः |
आनंदमादिदंपत्योरिमा वर्धंतु वांगिरः || 103 ||
माधुरीसौरभावासचापसायकधारिणीं |
देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये || 104 ||
स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुंदरि |
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पंचमः || 105 ||
यः पठति स्तुतिमेतां
विद्यावंतं तमंब धनवंतं |
कुरु देवि यशस्वंतं
वर्चस्वंतं मनुष्येषु || 106 ||
ये शृण्वंति स्तुतिमिमां तव देव्यनसूयकाः |
तेभ्यो देहि श्रियं विद्यामुद्वर्च उत्तनूबलं || 107 ||
त्वामेवाहं स्तौमि नित्यं प्रणौमि
श्रीविद्येशां वच्मि संचिंतयामि |
अध्यास्ते या विश्वमाता विराजो
हृत्पुंडरीकं विरजं विशुद्धं || 108 ||
शंकरेण रचितं स्तवोत्तमं
यः पठेज्जगति भक्तिमान्नरः |
तस्य सिद्धिरतुला भवेद्ध्रुवा
सुंदरी च सततं प्रसीदति || 109 ||
यत्रैव यत्रैव मनो मदीयं
तत्रैव तत्रैव तव स्वरूपं |
यत्रैव यत्रैव शिरो मदीयं
तत्रैव तत्रैव पदद्वयं ते || 110 ||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ त्रिपुरसुंदरी वेदपाद स्तवः |
अर्थ
श्री त्रिपुरसुंदरी वेदपाद स्तव एक भक्तिमय स्तोत्र है जो देवी को वाक्पदा (वैदिक वाणी का स्रोत), वाग्देवी/सरस्वती और श्रीचक्र के भीतर त्रिपुरसुंदरी के रूप में संबोधित करता है। यह स्तोत्र ज्ञान, वाक्पटुता, बुद्धिमत्ता और सुरक्षा के मूल स्रोत के रूप में देवी की आराधना के लिए रचा गया है। यह भक्तों को अज्ञानता से मुक्ति, विद्या, धन और आध्यात्मिक उन्नति प्रदान करने के उद्देश्य से है। प्रत्येक श्लोक देवी के विभिन्न रूपों, गुणों और उनके आशीर्वाद के महत्व का गुणगान करता है, जिससे भक्तों को पूर्ण अनुग्रह प्राप्त करने का मार्गदर्शन मिलता है।
प्रारंभिक श्लोक वेदपाद देवी, अर्थात सरस्वती या वाग्देवी के स्वरूप का वर्णन करते हैं। उन्हें एक शुद्ध स्फटिक के समान उज्ज्वल, कमल पर आसीन, वीणा और पुस्तक धारण किए हुए दर्शाया गया है। यह रूप ज्ञान, कला और संगीत की अधिष्ठात्री देवी को इंगित करता है। स्तोत्र घोषणा करता है कि वह वाणी की क्षमता, काव्य और गद्य के अर्थ की व्याख्या करने की शक्ति, और वाक्पटुता तथा मेधा शक्ति प्रदान करती हैं। उनकी आराधना भक्तों के मन में ज्ञान का प्रकाश प्रज्वलित करती है और उनकी अभिव्यक्ति क्षमता को बढ़ाती है।
बाद के श्लोक देवी की शक्ति और प्रभाव का और अधिक वर्णन करते हैं। सुब्रह्मण्य, षण्मुख जैसे देवता और महान ऋषि उनकी पूजा करते हैं। वह चिंतामणि और मणिद्वीप में, कल्पवृक्षों से सुशोभित नंदनवनों में विराजमान हैं। रत्नालंकारों से सुशोभित देवी के आकर्षक वर्णन उनके दिव्य वैभव और ऐश्वर्य को उजागर करते हैं। श्रीचक्र के केंद्र में, कामेश्वर के वामांक में उनकी स्थिति का वर्णन किया गया है, जो सृष्टि, स्थिति और लय की परशक्ति के रूप में उनके सर्वोच्च स्थान को दर्शाता है। वह केवल ज्ञान ही नहीं, बल्कि ज्वर को शांत करने, विद्या का बल प्रदान करने और श्रुति वेदी में प्रभाव डालने की शक्ति भी रखती हैं।
यह स्तोत्र भक्तों को देवी के चरण कमलों की पूजा करने और उनके चरणोदक (आशीर्वाद के पवित्र जल) का पान करने के लिए प्रोत्साहित करता है। यह स्पष्ट रूप से कहा गया है कि इस पूजा से अज्ञानता, रोग, दरिद्रता, जरापाक (वृद्धावस्था के कष्ट) और मृत्यु के भय से मुक्ति मिलती है। देवी की कृपा से विद्या का सार, वैभव, शांति, शाश्वत सौभाग्य और आध्यात्मिक प्रगति प्राप्त होती है। स्तोत्र यह भी इंगित करता है कि मंत्र, यंत्र, ध्यान और श्रीचक्र सेवा, षोडशी सेवा जैसे विशिष्ट साधनाओं के माध्यम से भी देवी का अनुग्रह प्राप्त किया जा सकता है। संक्षेप में, यह स्तोत्र वाग्देवी और वेदपाद गुणों को समर्पित है, जो भक्ति, ज्ञान, वाक्पटुता, कला-साहित्य प्रेरणा, सुरक्षा और दिव्य अनुग्रह प्रदान करता है।
लाभ (Benefits):
- अज्ञानता का निवारण और ज्ञान की प्राप्ति: इस स्तोत्र का पाठ मन से अज्ञानता के अंधकार को दूर करता है और ज्ञान तथा विद्या प्रदान करता है, विशेष रूप से छात्रों के लिए यह अत्यंत लाभकारी है।
- वाक्पटुता और कलात्मक प्रेरणा: वाग्देवी के अनुग्रह से वाक्पटुता और अभिव्यक्ति की क्षमता बढ़ती है। कवियों, लेखकों, वक्ताओं और कलाकारों को रचनात्मकता और कलात्मक प्रेरणा मिलती है।
- रोग, दरिद्रता और भय से सुरक्षा: देवी की आराधना रोगों, दरिद्रता और वृद्धावस्था की कठिनाइयों के साथ-साथ मृत्यु के भय से भी सुरक्षा प्रदान करती है, भक्तों को स्वास्थ्य और धन प्रदान करती है।
- शांति और आध्यात्मिक प्रगति: नियमित पाठ से मन को शांति और स्थिरता मिलती है। आध्यात्मिक साधकों के लिए यह भक्ति स्थिति और प्रगति प्राप्त करने में सहायक होता है।
- धन और सामर्थ्य: श्रीचक्र सेवा और मंत्र पाठ जैसी साधनाओं के माध्यम से भक्तों को धन, समृद्धि, दिव्य सामर्थ्य और सभी कार्यों में सफलता प्राप्त होती है।
अक्सर पूछे जाने वाले प्रश्न
श्री त्रिपुरसुंदरी वेदपाद स्तव क्या है?
इस स्तोत्र का पाठ कब करना चाहिए?
श्री त्रिपुरसुंदरी वेदपाद स्तव के पाठ के क्या लाभ हैं?
इस स्तोत्र का पाठ किसे करना चाहिए?
इस स्तोत्र का पाठ कितनी बार करना चाहिए?
इस स्तोत्र का मूल या उद्गम क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
