श्री त्रिपुरसुंदरी मानसपूजा स्तोत्रं
मम न भजनशक्तिः पादयोस्ते न भक्ति-
-र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः |
इति मनसि सदाहं चिंतयन्नाद्यशक्ते
रुचिरवचनपुष्पैरर्चनं संचिनोमि || 1 ||
व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः
पोतैराकुलितांतरं मणिधरैर्भूमीधरैर्भूषितं |
आरक्तामृतसिंधुमुद्धुरचलद्विचीचयव्याकुल-
-व्योमानं परिचिंत्य संततमहो चेतः कृतार्थीभव || 2 ||
तस्मिन्नुज्ज्वलरत्नजालविलसत्कांतिच्छटाभिः स्फुटं
कुर्वाणं वियदिंद्रचापनिचयैराच्छादितं सर्वतः |
उच्चैःशृंगनिषण्णदिव्यवनिताबृंदाननप्रोल्लस-
-द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे || 3 ||
जातीचंपकपाटलादिसुमनःसौरभ्यसंभावितं
ह्रींकारध्वनिकंठकोकिलकुहूप्रोल्लासिचूतद्रुमं |
आविर्भूतसुगंधिचंदनवनं दृष्टिप्रियं नंदनं
चंचच्चंचलचंचरीकचटुलं चेतश्चिरं चिंतय || 4 ||
परिपतितपरागैः पाटलक्षोणिभागो
विकसितकुसुमोच्चैः पीतचंद्रार्करश्मिः |
अलिशुकपिकराजीकूजितैः श्रोत्रहारी
स्फुरतु हृदि मदीये नूनमुद्यानराजः || 5 ||
रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ
स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते |
क्षोणीमंडलहेमहारविलसत्संसारपारप्रद
प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः || 6 ||
उद्यत्कांतिकलापकल्पितनभःस्फूर्जद्वितानप्रभः
सत्कृष्णागरुधूपवासितवियत्काष्ठांतरे विश्रुतः |
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
सोऽयं श्रीमणिमंडपोऽनवरतं मच्चेतसि द्योततां || 7 ||
क्वापि प्रोद्भटपद्मरागकिरणव्रातेन संध्यायितं
कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितं |
मध्यालंबिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-
-न्मातः श्रीमणिमंदिरं तव सदा वंदामहे सुंदरं || 8 ||
उत्तुंगालयविस्फुरन्मरकतप्रोद्यत्प्रभामंडला-
-न्यालोक्यांकुरितोत्सवैर्नवतृणाकीर्णस्थलीशंकया |
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-
-र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते || 9 ||
मणिसदनसमुद्यत्कांतिधारानुरक्ते
वियति चरमसंध्याशंकिनो भानुरथ्याः |
शिथिलितगतकुप्यत्सूतहुंकारनादैः
कथमपि मणिगेहादुच्चकैरुच्चलंति || 10 ||
भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना
किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् |
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः || 11 ||
विदूरमुक्तवाहनैर्विनम्रमौलिमंडलै-
-र्निबद्धहस्तसंपुटैः प्रयत्नसंयतेंद्रियैः |
विरिंचिविष्णुशंकरादिभिर्मुदा तवांबिके
प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमंडपः || 12 ||
ध्वनन्मृदंगकाहलः प्रगीतकिंनरीगणः
प्रनृत्तदिव्यकन्यकः प्रवृत्तमंगलक्रमः |
प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमंडलो
मुदे ममास्तु संततं त्वदीयरत्नमंडपः || 13 ||
प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै-
-र्बहिःस्थितामरावलीविधीयमानभक्तिभिः |
विचित्रवस्त्रभूषणैरुपेतमंगनाजनैः
सदा करोतु मंगलं ममेह रत्नमंडपः || 14 ||
सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-
-र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः |
असंख्यसुंदरीजनैः पुरस्थितैरधिष्ठितो
मदीयमेतु मानसं त्वदीयतुंगतोरणः || 15 ||
इंद्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा-
-न्योषिद्रूपधरान्स्वदिक्षु निहितान्संचिंत्य हृत्पंकजे |
शंखे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर-
-न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसंतं भजे || 16 ||
गायंतीः कलवीणयातिमधुरं हुंकारमातन्वती-
-र्द्वाराभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन् |
द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां
मातंगीमसितांबरां परिलसन्मुक्ताविभूषां भजे || 17 ||
कस्तूरिकाश्यामलकोमलांगीं
कादंबरीपानमदालसांगीं |
वामस्तनालिंगितरत्नवीणां
मातंगकन्यां मनसा स्मरामि || 18 ||
विकीर्णचिकुरोत्करे विगलितांबराडंबरे
मदाकुलितलोचने विमलभूषणोद्भासिनि |
तिरस्करिणि तावकं चरणपंकजं चिंतय-
-न्करोमि पशुमंडलीमलिकमोहदुग्धाशयां || 19 ||
प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः
प्रचंडदैत्यसूदनाः प्रविष्टभक्तमानसाः |
उपोढकज्जलच्छविच्छटाविराजिविग्रहाः
कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः || 20 ||
स्फूर्जन्नव्ययवांकुरोपलसिताभोगैः पुरः स्थापितै-
-र्दीपोद्भासिशरावशोभितमुखैः कुंभैर्नवैः शोभिना |
स्वर्णाबद्धविचित्ररत्नपटलीचंचत्कपाटश्रिया
युक्तं द्वारचतुष्टयेन गिरिजे वंदे मणीमंदिरं || 21 ||
आस्तीर्णारुणकंबलासनयुतं पुष्पोपहारान्वितं
दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमं |
धूपोद्गारिसुगंधिसंभ्रममिलद्भृंगावलीगुंजितं
कल्याणं वितनोतु मेऽनवरतं श्रीमंडपाभ्यंतरं || 22 ||
कनकरचिते पंचप्रेतासनेन विराजिते
मणिगणचिते रक्तश्वेतांबरास्तरणोत्तमे |
कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे
हृदयकमले प्रादुर्भूतां भजे परदेवतां || 23 ||
सर्वांगस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां
जृंभामंजुमुखांबुजां मधुमदव्याघूर्णदक्षित्रयां |
सेवायातसमस्तसंनिधिसखीः संमानयंतीं दृशा
संपश्यन्परदेवतां परमहो मन्ये कृतार्थं जनुः || 24 ||
उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृंभिते
भक्तैर्भूमिविलग्नमौलिभिरलं दंडप्रणामे कृते |
नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां
प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलां || 25 ||
पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः
सौधीभिर्मधुपर्कमंब मधुरं धाराभिरास्वादय |
तोयेनाचमनं विधेहि शुचिना गांगेन मत्कल्पितं
साष्टांगं प्रणिपातमीशदयिते दृष्ट्या कृतार्थी कुरु || 26 ||
मातः पश्य मुखांबुजं सुविमले दत्ते मया दर्पणे
देवि स्वीकुरु दंतधावनमिदं गंगाजलेनान्वितं |
सुप्रक्षालितमाननं विरचयन्स्निग्धांबरप्रोंछनं
द्रागंगीकुरु तत्त्वमंब मधुरं तांबूलमास्वादय || 27 ||
निधेहि मणिपादुकोपरि पदांबुजं मज्जना-
-लयं व्रज शनैः सखीकृतकरांबुजालंबनं |
महेशि करुणानिधे तव दृगंतपातोत्सुका-
-न्विलोकय मनागमूनुभयसंस्थितांदैवतान् || 28 ||
हेमरत्नवरणेन वेष्टितं
विस्तृतारुणवितानशोभितं |
सज्जसर्वपरिचारिकाजनं
पश्य मज्जनगृहं मनो मम || 29 ||
कनककलशजालस्फाटिकस्नानपीठा-
-द्युपकरणविशालं गंधमत्तालिमालं |
स्फुरदरुणवितानं मंजुगंधर्वगानं
परमशिवमहेले मज्जनागारमेहि || 30 ||
पीनोत्तुंगपयोधराः परिलसत्संपूर्णचंद्रानना
रत्नस्वर्णविनिर्मिताः परिलसत्सूक्ष्मांबरप्रावृताः |
हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं
तैलं कंकतिकं करेषु दधतीर्वंदेऽंब ते दासिकाः || 31 ||
तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति-
-र्नीचैरुज्झितकंचुकोपरिहितारक्तोत्तरीयांबरा |
वेणीबंधमपास्य कंकतिकया केशप्रसादं मना-
-क्कुर्वाणा परदेवता भगवती चित्ते मम द्योततां || 32 ||
अभ्यंगं गिरिजे गृहाण मृदुना तैलेन संपादितं
काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय |
गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते
नृत्यंतीमिह पश्य देवि पुरतो दिव्यांगनामंडलीं || 33 ||
कृतपरिकरबंधास्तुंगपीनस्तनाढ्या
मणिनिवहनिबद्धा हेमकुंभीर्दधानाः |
सुरभिसलिलनिर्यद्गंधलुब्धालिमालाः
सविनयमुपतस्थुः सर्वतः स्नानदास्यः || 34 ||
उद्गंधैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा
स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि |
पुष्पांभोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः
स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदंगीकुरु || 35 ||
प्रत्यंगं परिमार्जयामि शुचिना वस्त्रेण संप्रोंछनं
कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितं |
आलीबृंदविनिर्मितां यवनिकामास्थाप्य रत्नप्रभं
भक्तत्राणपरे महेशगृहिणि स्नानांबरं मुच्यतां || 36 ||
पीतं ते परिकल्पयामि निबिडं चंडातकं चंडिके
सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिंदूरपूरप्रभं |
मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभास्वरं
नीलं कंचुकमर्पयामि गिरिशप्राणप्रिये सुंदरि || 37 ||
विलुलितचिकुरेण च्छादितांसप्रदेशे
मणिनिकरविराजत्पादुकान्यस्तपादे |
सुललितमवलंब्य द्राक्सखीमंसदेशे
गिरिशगृहिणि भूषामंटपाय प्रयाहि || 38 ||
लसत्कनककुट्टिमस्फुरदमंदमुक्तावली-
-समुल्लसितकांतिभिः कलितशक्रचापव्रजे |
महाभरणमंडपे निहितहेमसिंहासनं
सखीजनसमावृतं समधितिष्ठ कात्यायनि || 39 ||
स्निग्धं कंकतिकामुखेन शनकैः संशोध्य केशोत्करं
सीमंतं विरचय्य चारु विमलं सिंदूररेखान्वितं |
मुक्ताभिर्ग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं
प्रांते मौक्तिकगुच्छकोपलतिकां ग्रथ्नामि वेणीमिमां || 40 ||
विलंबिवेणीभुजगोत्तमांग-
-स्फुरन्मणिभ्रांतिमुपानयंतं |
स्वरोचिषोल्लासितकेशपाशं
महेशि चूडामणिमर्पयामि || 41 ||
त्वामाश्रयद्भिः कबरीतमिस्रै-
-र्बंदीकृतं द्रागिव भानुबिंबं |
मृडानि चूडामणिमादधानं
वंदामहे तावकमुत्तमांगं || 42 ||
स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं
विलंबिमौक्तिकच्छटाविराजितं समंततः |
निबद्धलक्षचक्षुषा भवेन भूरि भावितं
समर्पयामि भास्वरं भवानि फालभूषणं || 43 ||
मीनांभोरुहखंजरीटसुषमाविस्तारविस्मारके
कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभां |
माध्वीपानमदारुणेऽतिचपले दीर्घे दृगंभोरुहे
देवि स्वर्णशलाकयोर्जितमिदं दिव्यांजनं दीयतां || 44 ||
मध्यस्थारुणरत्नकांतिरुचिरां मुक्तामुगोद्भासितां
दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीं |
उत्सिक्ताधरबिंबकांतिविसरैर्भौमीभवन्मौक्तिकां
मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमां || 45 ||
उडुकृतपरिवेषस्पर्धया शीतभानो-
-रिव विरचितदेहद्वंद्वमादित्यबिंबं |
अरुणमणिसमुद्यत्प्रांतविभ्राजिमुक्तं
श्रवसि परिनिधेहि स्वर्णताटंकयुग्मं || 46 ||
मरकतवरपद्मरागहीरो-
-त्थितगुलिकात्रितयावनद्धमध्यं |
विततविमलमौक्तिकं च
कंठाभरणमिदं गिरिजे समर्पयामि || 47 ||
नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामंडल-
-व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालंकृतां |
मध्यस्थारुणरत्नकांतिरुचिरां प्रांतस्थमुक्ताफल-
-व्रातामंब चतुष्किकां परशिवे वक्षःस्थले स्थापय || 48 ||
अन्योन्यं प्लावयंती सततपरिचलत्कांतिकल्लोलजालैः
कुर्वाणा मज्जदंतःकरणविमलतां शोभितेव त्रिवेणी |
मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै-
-र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः || 49 ||
करसरसिजनाले विस्फुरत्कांतिजाले
विलसदमलशोभे चंचदीशाक्षिलोभे |
विविधमणिमयूखोद्भासितं देवि दुर्गे
कनककटकयुग्मं बाहुयुग्मे निधेहि || 50 ||
व्यालंबमानसितपट्टकगुच्छशोभि
स्फूर्जन्मणीघटितहारविरोचमानं |
मातर्महेशमहिले तव बाहुमूले
केयूरकद्वयमिदं विनिवेशयामि || 51 ||
विततनिजमयूखैर्निर्मितामिंद्रनीलै-
-र्विजितकमलनालालीनमत्तालिमालां |
मणिगणखचिताभ्यां कंकणाभ्यामुपेतां
कलय वलयराजीं हस्तमूले महेशि || 52 ||
नीलपट्टमृदुगुच्छशोभिता-
-बद्धनैकमणिजालमंजुलां |
अर्पयामि वलयात्पुरःसरे
विस्फुरत्कनकतैतृपालिकां || 53 ||
आलवालमिव पुष्पधन्वना
बालविद्रुमलतासु निर्मितं |
अंगुलीषु विनिधीयतां शनै-
-रंगुलीयकमिदं मदर्पितं || 54 ||
विजितहरमनोभूमत्तमातंगकुंभ-
-स्थलविलुलितकूजत्किंकिणीजालतुल्यां |
अविरतकलनदैरीशचेतो हरंतीं
विविधमणिनिबद्धां मेखलामर्पयामि || 55 ||
व्यालंबमानवरमौक्तिकगुच्छशोभि
विभ्राजिहाटकपुटद्वयरोचमानं |
हेम्ना विनिर्मितमनेकमणिप्रबंधं
नीवीनिबंधनगुणं विनिवेदयामि || 56 ||
विनिहतनवलाक्षापंकबालातपौघे
मरकतमणिराजीमंजुमंजीरघोषे |
अरुणमणिसमुद्यत्कांतिधाराविचित्र-
-स्तव चरणसरोजे हंसकः प्रीतिमेतु || 57 ||
निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां
कलक्वणितमंजुलां गिरिशचित्तसंमोहनीं |
अमंदमणिमंडलीविमलकांतिकिम्मीरितां
निधेहि पदपंकजे कनकघुंघुरूमंबिके || 58 ||
विस्फुरत्सहजरागरंजिते
शिंजितेन कलितां सखीजनैः |
पद्मरागमणिनूपुरद्वयी-
-मर्पयामि तव पादपंकजे || 59 ||
पदांबुजमुपासितुं परिगतेन शीतांशुना
कृतां तनुपरंपरामिव दिनांतरागारुणां |
महेशि नवयावकद्रवभरेण शोणीकृतां
नमामि नखमंडलीं चरणपंकजस्थां तव || 60 ||
आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै-
-र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्यधूपैः |
उद्यद्गंधांधपुष्पंधयनिवहसमारब्धझांकारगीतां
चंचत्कह्लारमालां परशिवरसिके कंठपीठेऽर्पयामि || 61 ||
गृहाण परमामृतं कनकपात्रसंस्थापितं
समर्पय मुखांबुजे विमलवीटिकामंबिके |
विलोकय मुखांबुजं मुकुरमंडले निर्मले
निधेहि मणिपादुकोपरि पदांबुजं सुंदरि || 62 ||
आलंब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता
कूजन्मंदमरालमंजुलगतिप्रोल्लासिभूषांबरा |
आनंदप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा
मच्चित्ते स्थिरतामुपैतु गिरिजा यांती सभामंडपं || 63 ||
चलंत्यामंबायां प्रचलति समस्ते परिजने
सवेगं संयाते कनकलतिकालंकृतिभरे |
समंतादुत्तालस्फुरितपदसंपातजनितै-
-र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहं || 64 ||
चंचद्वेत्रकराभिरंगविलसद्भूषांबराभिः पुरो-
-यांतीभिः परिचारिकाभिरमरव्राते समुत्सारिते |
रुद्धे निर्जरसुंदरीभिरभितः कक्षांतरे निर्गतं
वंदे नंदितशंभु निर्मलचिदानंदैकरूपं महः || 65 ||
वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः
शंभुर्देहि दृगंचलं सुरपतिं दूरस्थमालोकय |
इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती
दृग्द्वंद्वेन यथोचितं भगवती भूयाद्विभूत्यै मम || 66 ||
मंदं चारणसुंदरीभिरभितो यांतीभिरुत्कंठया
नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् |
वेगादक्षिपथं गतान्सुरगणानालोकयंती शनै-
-र्दित्संती चरणांबुजं पथि जगत्पायान्महेशप्रिया || 67 ||
अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता
आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे |
संमर्दं शनकैरपास्य पुरतो दंडप्रणामान्मुहुः
कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छंति ते || 68 ||
अग्रे गायति किंनरी कलपदं गंधर्वकांताः शनै-
-रातोद्यानि च वादयंति मधुरं सव्यापसव्यस्थिताः |
कूजन्नूपुरनादमंजु पुरतो नृत्यंति दिव्यांगना
गच्छंतः परितः स्तुवंति निगमस्तुत्या विरिंच्यादयः || 69 ||
कस्मैचित्सुचिरादुपासितमहामंत्रौघसिद्धिं क्रमा-
-देकस्मै भवनिःस्पृहाय परमानंदस्वरूपां गतिं |
अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं
द्रव्यं द्वारसमाश्रिताय ददतीं वंदामहे सुंदरीं || 70 ||
नम्रीभूय कृतांजलिप्रकटितप्रेमप्रसन्नानने
मंदं गच्छति संनिधौ सविनयात्सोत्कंठमोघत्रये |
नानामंत्रगणं तदर्थमखिलं तत्साधनं तत्फलं
व्याचक्षाणमुदग्रकांति कलये यत्किंचिदाद्यं महः || 71 ||
तव दहनसदृक्षैरीक्षणैरेव चक्षु-
-र्निखिलपशुजनानां भीषयद्भीषणास्यं |
कृतवसति परेशप्रेयसि द्वारि नित्यं
शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि || 72 ||
कल्पांते सरसैकदासमुदितानेकार्कतुल्यप्रभां
रत्नस्तंभनिबद्धकांचनगुणस्फूर्जद्वितानोत्तमां |
कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं
श्रीचक्राकृतिमुल्लसन्मणिगणां वंदामहे वेदिकां || 73 ||
स्वस्थानस्थितदेवतागणवृते बिंदौ मुदा स्थापितं
नानारत्नविराजिहेमविलसत्कांतिच्छटादुर्दिनं |
चंचत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं
नित्यानंदनिदानमंब सततं वंदे च सिंहासनं || 74 ||
वदद्भिरभितो मुदा जय जयेति बृंदारकैः
कृतांजलिपरंपरा विदधति कृतार्था दृशा |
अमंदमणिमंडलीखचितहेमसिंहासनं
सखीजनसमावृतं समधितिष्ठ दाक्षायणि || 75 ||
कर्पूरादिकवस्तुजातमखिलं सौवर्णभृंगारकं
तांबूलस्य करंडकं मणिमयं चैलांचलं दर्पणं |
विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित-
-स्तिष्ठंतीः परिचारिकास्तव सदा वंदामहे सुंदरि || 76 ||
त्वदमलवपुरुद्यत्कांतिकल्लोलजालैः
स्फुटमिव दधतीभिर्बाहुविक्षेपलीलां |
मुहुरपि च विधूते चामरग्राहिणीभिः
सितकरकरशुभ्रे चामरे चालयामि || 77 ||
प्रांतस्फुरद्विमलमौक्तिकगुच्छजालं
चंचन्महामणिविचित्रितहेमदंडं |
उद्यत्सहस्रकरमंडलचारु हेम-
-च्छत्रं महेशमहिले विनिवेशयामि || 78 ||
उद्यत्तावकदेहकांतिपटलीसिंदूरपूरप्रभा-
-शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि |
दूरादादरनिर्मितांजलिपुटैरालोक्यमानं सुर-
-व्यूहैः कांचनमातपत्रमतुलं वंदामहे सुंदरं || 79 ||
संतुष्टां परमामृतेन विलसत्कामेश्वरांकस्थितां
पुष्पौघैरभिपूजितां भगवतीं त्वां वंदमाना मुदा |
स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः
श्रीचक्रावरणस्थिताः सविनयं वंदामहे देवताः || 80 ||
आधारशक्त्यादिकमाकलय्य
मध्ये समस्ताधिकयोगिनीं च |
मित्रेशनाथादिकमत्र नाथ-
-चतुष्टयं शैलसुते नतोऽस्मि || 81 ||
त्रिपुरासुधार्णवासन-
-मारभ्य त्रिपुरमालिनी यावत् |
आवरणाष्टकसंस्थित-
-मासनषट्कं नमामि परमेशि || 82 ||
ईशाने गणपं स्मरामि विचरद्विघ्नांधकारच्छिदं
वायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितं |
नैरृत्ये महिषासुरप्रमथिनीं दुर्गां च संपूजय-
-न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे || 83 ||
उड्यानजालंधरकामरूप-
-पीठानिमान्पूर्णगिरिप्रसक्तान् |
त्रिकोणदक्षाग्रिमसव्यभाग-
-मध्यस्थितान्सिद्धिकरान्नमामि || 84 ||
लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु-
-स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः |
आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता-
-नेतांश्चक्रबहिःस्थितान्सुरगणान्वंदामहे सादरं || 85 ||
तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं
त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमं |
रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं
नित्याषोडशकं नमामि लसितं चक्रात्मनोरंतरे || 86 ||
हृदि भावितदैवतं प्रयत्ना-
-भ्युपदेशानुगृहीतभक्तसंघं |
स्वगुरुक्रमसंज्ञचक्रराज-
-स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना || 87 ||
हृदयमथ शिरः शिखाखिलाद्ये
कवचमथो नयनत्रयं च देवि |
मुनिजनपरिचिंतितं तथास्त्रं
स्फुरतु सदा हृदये षडंगमेतत् || 88 ||
त्रैलोक्यमोहनमिति प्रथिते तु चक्रे
चंचद्विभूषणगणत्रिपुराधिवासे |
रेखात्रये स्थितवतीरणिमादिसिद्धी-
-र्मुद्रा नमामि सततं प्रकटाभिधास्ताः || 89 ||
सर्वाशापरिपूरके वसुदलद्वंद्वेन विभ्राजिते
विस्फूर्जंत्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः |
कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्यांबरा
योगिन्यः प्रदिशंतु कांक्षितफलं विख्यातगुप्ताभिधाः || 90 ||
महेशि वसुभिर्दलैर्लसति सर्वसंक्षोभणे
विभूषणगणस्फुरंत्रिपुरसुंदरीसद्मनि |
अनंगकुसुमादयो विविधभूषणोद्भासिता
दिशंतु मम कांक्षितं तनुतराश्च गुप्ताभिधाः || 91 ||
लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे
शुभाभरणभूषितत्रिपुरवासिनीमंदिरे |
स्थिता दधतु मंगलं सुभगसर्वसंक्षोभिणी-
-मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः || 92 ||
बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः |
कुलकौलाभिधाः पांतु सर्वसिद्धिप्रदायिकाः || 93 ||
अंतःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे
मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः |
नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्यांबरं
सर्वज्ञादिकशक्तिबृंदमनिशं वंदे निगर्भाभिधं || 94 ||
सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते |
रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहं || 95 ||
चूताशोकविकासिकेतकरजःप्रोद्भासिनीलांबुज-
-प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् |
रम्यं पुष्पशरासनं सुललितं पाशं तथा चांकुशं
वंदे तावकमायुधं परशिवे चक्रांतराले स्थितं || 96 ||
त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे
युते त्रिपुरयांबया स्थितवती च कामेश्वरी |
तनोतु मम मंगलं सकलशर्म वज्रेश्वरी
करोतु भगमालिनी स्फुरतु मामके चेतसि || 97 ||
सर्वानंदमये समस्तजगतामाकांक्षिते बैंदवे
भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुंदरी |
आनंदोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषांबरा
विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी || 98 ||
उल्लसत्कनककांतिभासुरं
सौरभस्फुरणवासितांबरं |
दूरतः परिहृतं मधुव्रतै-
-रर्पयामि तव देवि चंपकं || 99 ||
वैरमुद्धतमपास्य शंभुना
मस्तके विनिहितं कलाच्छलात् |
गंधलुब्धमधुपाश्रितं सदा
केतकीकुसुममर्पयामि ते || 100 ||
चूर्णीकृतं द्रागिव पद्मजेन
त्वदाननस्पर्धिसुधांशुबिंबं |
समर्पयामि स्फुटमंजलिस्थं
विकासिजातीकुसुमोत्करं ते || 101 ||
अगरुबहलधूपाजस्रसौरभ्यरम्यां
मरकतमणिराजीराजिहारिस्रगाभां |
दिशि विदिशि विसर्पद्गंधलुब्धालिमालां
वकुलकुसुममालां कंठपीठेऽर्पयामि || 102 ||
ईंकारोर्ध्वगबिंदुराननमधोबिंदुद्वयं च स्तनौ
त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दं च रेखात्मकं |
इत्थं कामकलात्मिकां भगवतीमंतः समाराधय-
-न्नानंदांबुधिमज्जने प्रलभतामानंदथुं सज्जनः || 103 ||
धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगंधोद्धुरं
दीपं चैव निवेदयामि महसा हार्दांधकारच्छिदं |
रजस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं
नैवेद्यं विनिवेदयामि परमानंदात्मिके सुंदरि || 104 ||
जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं
शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतातथा सूपकाः |
प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ-
-क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमंगीकुरु || 105 ||
शिंबीसूरणशाकबिंबबृहतीकूश्मांडकोशातकी-
-वृंताकानि पटोलकानि मृदुना संसाधितान्यग्निना |
संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता-
-न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे || 106 ||
निंबूकार्द्रकचूतकंदकदलीकौशातकीकर्कटी-
-धात्रीबिल्वकरीरकैर्विरचितान्यानंदचिद्विग्रहे |
राजीभिः कटुतैलसैंधवहरिद्राभिः स्थितान्पातये
संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते || 107 ||
सितयांचितलड्डुकव्रजा-
-न्मृदुपूपान्मृदुलाश्च पूरिकाः |
परमान्नमिदं च पार्वति
प्रणयेन प्रतिपादयामि ते || 108 ||
दुग्धमेतदनले सुसाधितं
चंद्रमंडलनिभं तथा दधि |
फाणितं शिखरिणीं सितासितां
सर्वमंब विनिवेदयामि ते || 109 ||
अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमंगीकृतं
ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः |
देवीं त्वां परिशिष्टमंब कनकामत्रेषु संस्थापितं
शक्तिभ्यः समुपाहारामि सकलं देवेशि शंभुप्रिये || 110 ||
वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णां दधाना-
-मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयंतीं |
सिंदूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकांगीं
तिष्ठंतीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि || 111 ||
पंक्त्योपविष्टान्परितस्तु चक्रं
शक्त्या स्वयालिंगितवामभागान् |
सर्वोपचारैः परिपूज्य भक्त्या
तवांबिके पारिषदान्नमामि || 112 ||
परमामृतमत्तसुंदरी-
-गणमध्यस्थितमर्कभासुरं |
परमामृतघूर्णितेक्षणं
किमपि ज्योतिरुपास्महे परं || 113 ||
दृश्यते तव मुखांबुजं शिवे
श्रूयते स्फुटमनाहतध्वनिः |
अर्चने तव गिरामगोचरे
न प्रयाति विषयांतरं मनः || 114 ||
त्वन्मुखांबुजविलोकनोल्लस-
-त्प्रेमनिश्चलविलोचनद्वयीं |
उन्मनीमुपगतां सभामिमां
भावयामि परमेशि तावकीं || 115 ||
चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु
श्रोत्रं हंत शृणोतु न त्वगपि न स्पर्शं समालंबतां |
जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते
नित्यानंदविघूर्णमाननयने नित्यं मनो मज्जतु || 116 ||
यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं
मन्ये सुंदरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतं |
यस्तस्मिन्समये तवार्चनविधावानंदसांद्राशयो
यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव || 117 ||
गणाधिनाथं वटुकं च योगिनीः
क्षेत्राधिनाथं च विदिक्चतुष्टये |
सर्वोपचारैः परिपूज्य भक्तितो
निवेदयामो बलिमुक्तयुक्तिभिः || 118 ||
वीणामुपांते खलु वादयंत्यै
निवेद्य शेषं खलु शेषिकायै |
सौवर्णभृंगारविनिर्गतेन
जलेन शुद्धाचमनं विधेहि || 119 ||
तांबूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका-
-जातीपूगलवंगचूर्णखदिरैर्भक्त्या समुल्लासितं |
स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै-
-र्दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यतां || 120 ||
काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी
रंभा नृत्यति केलिमंजुलपदं मातः पुरस्तात्तव |
कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं
नित्यानंदसुधांबुधिं तव मुखं पश्यंति दृश्यंति च || 121 ||
तांबूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै-
-श्चक्रस्थैः शक्तिसंघैः परिहृतविषयासंगमाकर्ण्यमानं |
गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि-
-र्वीणाझंकारनादं कलय परशिवानंदसंधानहेतोः || 122 ||
अर्चाविधौ ज्ञानलवोऽपि दूरे
दूरे तदापादकवस्तुजातं |
प्रदक्षिणीकृत्य ततोऽर्चनं ते
पंचोपचारात्मकमर्पयामि || 123 ||
यथेप्सितमनोगतप्रकटितोपचारार्चितां
निजावरणदेवतागणवृतां सुरेशस्थितां |
कृतांजलिपुटो मुहुः कलितभूमिरष्टांगकै-
-र्नमामि भगवत्यहं त्रिपुरसुंदरि त्राहि मां || 124 ||
विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं
प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु |
चित्तं त्वत्पदभावने व्यभिचरेद्दृग्वाक्च मे जातु चे-
-त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति || 125 ||
क्वाहं मंदमतिः क्व चेदमखिलैरेकांतभक्तैः स्तुतं
ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनं |
कादाचित्कमदीयचिंतनविधौ संतुष्टया शर्मदं
स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने || 126 ||
नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया |
निबद्धं विविधैः पद्यैरनुगृह्णातु सुंदरी || 127 ||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ त्रिपुरसुंदरी मानसपूजा स्तोत्रं |
अर्थ
श्री त्रिपुरसुंदरी मानसपूजा स्तोत्रं भगवती त्रिपुरसुंदरी को हृदय में स्थापित करने और एक पूर्ण भक्ति अभ्यास को रेखांकित करने वाला एक निर्देशित मानसिक-पूजा स्तोत्र है। यह स्तोत्र भक्त को बाह्य आडंबरों से परे जाकर, अपने अंतर्मन में ही देवी के दिव्य स्वरूप, उनके निवास स्थान और समस्त पूजन विधि की कल्पना करने का मार्ग प्रशस्त करता है। यह 'मानसपूजा' की अवधारणा पर आधारित है, जहाँ भक्त अपनी शुद्ध भावना और कल्पना शक्ति से देवी की आराधना करता है।
मानसपूजा भक्ति के उच्चतम रूपों में से एक मानी जाती है, क्योंकि यह किसी भी भौतिक वस्तु पर निर्भर नहीं करती। भक्त अपनी एकाग्रता और श्रद्धा के बल पर संपूर्ण पूजा विधि को अपने मन में ही संपन्न करता है। यह मन को शुद्ध करने, उसे एकाग्र करने और देवी के साथ सीधा, आंतरिक संबंध स्थापित करने में अत्यंत सहायक है। यह केवल एक मानसिक क्रिया नहीं, बल्कि आत्मिक शुद्धि और गहन आध्यात्मिक अनुभव का एक शक्तिशाली माध्यम है। इस स्तोत्र के माध्यम से भक्त देवी के रमणीय स्वरूप, उनके निवास स्थान, उनके परिवार और पूजा के लिए आवश्यक सभी उपचारों की स्पष्ट कल्पना करता है।
यह स्तोत्र भक्त को देवी माँ के दिव्य पावन चरणों को अपने अंतर्मन में स्थापित करने का निर्देश देता है। यह मणिद्वीप, चिंतामणि गृह, रत्नमंडप और कमलासन के चित्रण के माध्यम से भक्ति-ध्यान को विकसित करने का तरीका बताता है। देवी की परिचारिकाओं, देवांगनाओं की सेवा, मणिमंडपों का परिचय, तोरणों की सजावट और संगीत-नृत्य के वर्णनों के माध्यम से देवी का सम्मान करने के पारंपरिक दृश्यों को मन में निर्मित करने में यह स्तोत्र सहायक है। मध्य भाग देवी के दीपस्थान, चक्रावास स्थान, कामेश्वर के वामांक सहचरत्व, पक्षियों के गायन और पुष्पबाणों जैसे प्रतीकों के साथ मानसपूजा के विभिन्न चरणों का वर्णन करते हैं। इसमें पाठ, संकीर्तन, संध्याकालीन पूर्ण आराधना, नित्यार्चन विधि, पाद्य-आचमन, पुष्प-निवेदन, अभ्यंग और स्नान जैसी प्रक्रियाओं को मानसिक रूप से कैसे करना है, इसका स्थूल संकेत दिया गया है। यह स्तोत्र मंत्रयोग, चक्रसेवा और षोडशी सेवाओं के गुणों और उनसे प्राप्त होने वाले फलों को भी स्पष्ट करता है।
यह स्तोत्र केवल मानसिक पूजा का मार्गदर्शन ही नहीं करता, बल्कि भक्त को प्राप्त होने वाले असंख्य लाभों को भी स्पष्ट करता है। इस स्तोत्र का नियमित पाठ और मानसिक रूप से देवी की आराधना करने से भक्त अज्ञान का नाश करता है और ज्ञान प्राप्त करता है। वाक् सिद्धि, रोग निवारण, धन-समृद्धि और आध्यात्मिक शांति प्राप्त होती है। श्रीचक्र सेवा और श्रीविद्या साधना के फल प्राप्त होते हैं। यह मानसपूजा भक्त को देवी के सानिध्य के करीब लाती है और परम शांति व मोक्ष का मार्ग प्रशस्त करती है।
लाभ (Benefits):
- अज्ञान का नाश और ज्ञानोदय: इस स्तोत्र के निरंतर पाठ और मानसिक पूजा से अज्ञान दूर होता है और विवेक तथा ज्ञान की वृद्धि होती है।
- वाक्पटुता और काव्य शक्ति: देवी की कृपा से भक्त की वाणी स्पष्ट, प्रभावशाली और काव्यमय हो जाती है।
- रोग निवारण और दीर्घायु: मानसिक पूजा शरीर और मन को शुद्ध करती है, रोगों को दूर रखती है और दीर्घायु प्रदान करती है।
- ऐश्वर्य और शांति: भौतिक धन और समृद्धि के साथ-साथ, आंतरिक शांति और संतोष की प्राप्ति होती है।
- आध्यात्मिक उन्नति और श्रीचक्र सिद्धि: श्रीचक्र और श्रीविद्या साधना के फल प्राप्त होते हैं, जिससे आध्यात्मिक पूर्णता की ओर अग्रसर हुआ जा सकता है।
अक्सर पूछे जाने वाले प्रश्न
श्री त्रिपुरसुंदरी मानसपूजा स्तोत्रं क्या है?
इस स्तोत्र का पाठ कब करना चाहिए?
इस स्तोत्र के पाठ से क्या लाभ होते हैं?
कौन इस स्तोत्र का पाठ कर सकता है?
इस स्तोत्र का पाठ कितनी बार करना चाहिए?
इस स्तोत्र का स्रोत क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
