श्री वराह सहस्रनाम स्तोत्रं
शंकर उवाच
यः पूजयेत्परात्मानं श्रीमुष्णेशं महाप्रभुं |
वराहस्य सहस्रेण नाम्नां पुष्पसहस्रकैः ||1||
हतकंटकसाम्राज्यं लभाते नात्र संशयः |
पार्वत्युवाच
किं तन्नामसहस्रं मे येन साम्राज्यमाप्नुयात् ||2||
ब्रूहि शंकर तत्प्रीत्या वराहस्य महात्मनः |
श्रुत्वा वराहमाहाम्यं न तृप्तिर्जायते क्वचित् ||3||
को नु तृप्येत तनुभृद्गुणसारविदां वर |
शंकर उवाच
शृणु देवि प्रवक्ष्यामि पवित्रं मंगलं परं ||4||
धन्यं यशस्यमायुष्यं गोप्याद्गोप्यतरं महत् |
इदं पुरा न कस्यापि प्रोक्तं गोप्यं तवापि च ||5||
तथाऽपि च प्रवक्ष्यामि मदंगार्धशरीरिणि |
सदाशिव ऋषिस्तस्य वराहो देवता स्मृतः ||6||
छंदोऽनुष्टुप् विश्वनेता कीलकं च शराग्रभृत् |
ह्रीं बीजमस्त्रं क्लींकारः कवचं श्रीमिहोच्यते ||7||
विश्वात्मा परमो मंत्रो मंत्रराजमुदीरयेत् |
हुंकारं हृदये न्यस्य वराहायेति मुर्धनि ||8||
भूर्भुवः स्वः शिखायां च नेत्रयोर्भूपतिं न्यसेत् |
सर्वज्ञाय नमोऽस्त्रं च श्रीं ह्रीं क्लिं हुं च भूमपि ||9||
हां हीं हूं हैं हौं ह इति स्वीयांगुष्ठद्वयादिकः |
एवं स्वांगकृतन्यासो मंत्रमेतमुदीरयेत् ||10||
नमः श्वेतवराहाय नमस्ते परमात्मने |
लक्ष्मीनाथाय नाथाय श्रीमुष्ण ब्रह्मणे नमः ||11||
ॐ श्रीवराहो भूवराहः परं ज्योतिः परात्परः |
परमः पुरुषः सिद्धो विभुर्व्योमचरो बली ||12||
अद्वितीयः परं ब्रह्म सच्चिदानंदविग्रहः |
निर्द्वंद्वो निरहंकारो निर्मायो निश्चयलोऽमलः ||13||
विशिखो विश्वरूपश्च विश्वदृग्विश्वभावनः |
विश्वात्मा विश्वनेता च विमलो वीर्यवर्धनः ||14||
विश्वकर्मा विनोदी च विश्वेशो विश्वमंगलः |
विश्वो वसुंधरानाथो वसुरेता विरोधहृत् ||15||
हिरण्यगर्भो हर्यश्वो दैत्यारिर्हरिसेवितः |
महातपा महादर्शो मनोज्ञो नैकसाधनः ||16||
सर्वात्मा सर्वविख्यातः सर्वसाक्षी सतां पतिः |
सर्वगः सर्वभूतात्मा सर्वदोषविवर्जितः ||17||
सर्वभूतहितोऽसंगः सत्यः सत्यव्यवस्थितः |
सत्यकर्मा सत्यपतिः सर्वसत्यप्रियो मतः ||18||
आधिव्याधिभियो हर्ता मृगांगो नियमप्रियः |
बलवीरस्तपः श्रेष्ठो गुणकर्ता गुणी बली ||19||
अनंतः प्रथमो मंत्रः सर्वभावविदव्ययः |
सहस्रनामा चानंतोऽनंतरूपो रमेश्वरः ||20||
अगाधनिलयोऽपारो निराकारो निरायुधः |
अमोघदृगमेयात्मा वेदवेद्यो विशां पतिः ||21||
विहृतिर्विभवो भव्यो भवहीनो भवांतकः |
भक्तप्रियः पवित्रांघ्रिः सुनासः पवनार्चितः ||22||
भजनीयगुणोऽदृश्यो भद्रो भद्रयशा हरिः |
वेदांतकृद्वेदवंद्यो वेदाध्ययनतत्परः ||23||
वेदगोप्ता धर्मगोप्ता वेदमार्गप्रवर्तकः |
वेदांतवेद्यो वेदात्मा वेदातीतो जगत्प्रियः ||24||
जनार्दनो जनाध्यक्षो जगदीशो जनेश्वरः |
सहस्रबाहुः सत्यात्मा हेमांगो हेमभूषणः ||25||
हरिद(ता)श्वप्रियो नित्यो हरिः पूर्णो हलायुधः |
अंबुजाक्षोऽम्बुजाधारो निर्जरश्च निरंकुशः ||26||
निष्ठुरो नित्यसंतोषो नित्यानंदपदप्रदः |
निर्जरेशो निरालंबो निर्गुणोऽपि गुणान्वितः ||27||
महामायो महावीर्यो महातेजा मदोद्धतः |
मनोऽभिमानी मायावी मानदो मानल(र)क्षणः ||28||
मंदो मानी मनः कल्पो महाकल्पो महेश्वरः |
मायापतिर्मानपतिर्मनसः पतिरीश्वरः ||29||
अक्षोभ्यो बाह्य आनंदी अनिर्देश्योऽपराजितः |
अजोऽनंतोऽप्रमेयश्च सदानंदो जनप्रियः ||30||
अनंतगुणगंभीर उग्रकृत्परिवेष्टनः |
जितेंद्रियो जितक्रोधो जितामित्रो जयोऽजयः ||31||
सर्वारिष्टार्तिहा सर्वहृदंतरनिवासकः |
अंतरात्मा परात्मा च सर्वात्मा सर्वकारकः ||32||
गुरुः कविः किटिः कांतः कंजाक्षः खगवाहनः |
सुशर्मा वरदः शार्ङ्गी सुदासाभीष्टदः प्रभुः ||33||
झिल्लिकातनयः प्रेषी झिल्लिकामुक्तिदायकः |
गुणजित्कथितः कालः क्रोडः कोलः श्रमापहः ||34||
किटिः कृपाकरः स्वामी सर्वदृक्सर्वगोचरः |
योगाचार्यो मतो वस्तु ब्रह्मण्यो वेदसत्तमः ||35||
महालंबोष्ठकश्चैव महादेवो मनोरमः |
ऊर्ध्वबाहुरिभस्थूलः श्येनः सेनापतिः खनिः ||36||
दीर्घायुः शंकरः केशी सुतीर्थो मेघनिःस्वनः |
अहोरात्रः सूक्तवाकः सुहृन्मान्यः सुवर्चलः ||37||
सारभृत्सर्वसारश्च सर्वग्र(ग्रा)हः सदागतिः |
सूर्यश्चंद्रः कुजो ज्ञश्च देवमंत्री भृगुः शनिः ||38||
राहुः केतुर्ग्रहपतिर्यज्ञभृद्यज्ञसाधनः |
सहस्रपात्सहस्राक्षः सोमकांतः सुधाकरः ||39||
यज्ञो यज्ञपतिर्याजी यज्ञांगो यज्ञवाहनः |
यज्ञांतकृद्यज्ञगुह्यो यज्ञकृद्यज्ञसाधकः ||40||
इडागर्भः स्रवत्कर्णो यज्ञकर्मफलप्रदः |
गोपतिः श्रीपतिर्घोणस्त्रिकालज्ञः शुचिश्रवाः ||41||
शिवः शिवतरः शूरः शिवप्रेष्ठः शिवार्चितः |
शुद्धसत्त्वः सुरार्तिघ्नः क्षेत्रज्ञोऽक्षर आदिकृत् ||42||
शंखी चक्री गदी खड्गी पद्मी चंडपराक्रमः
चंडः कोलाहलः शार्ङ्गी स्वयंभूरग्र्यभुग्विभुः ||43||
सदाचारः सदारंभो दुराचारनिवर्तकः |
ज्ञानी ज्ञानप्रियोऽवज्ञो ज्ञानदोऽज्ञानदो यमी ||44||
लयोदकविहारी च सामगानप्रियो गतिः |
यज्ञमूर्तिस्त्रिलोकेशस्त्रिधामा कौस्तुभोज्ज्वलः ||46||
श्रीवत्सलांछनः श्रीमान्श्रीधरो भूधरोऽर्भकः |
वरुणो वारुणो वृक्षो वृषभो वर्धनो वरः ||47||
युगादिकृद्युगावर्तः पक्षो मास ऋतुर्युगः |
वत्सरो वत्सलो वेदः शिपिविष्टः सनातनः ||48||
इंद्रत्राता भयत्राता क्षुद्रकृत्क्षुद्रनाशनः |
महाहनुर्महाघोरो महादीप्तिर्महाव्रतः ||49||
महापादो महाकालो महाकायो महाबलः |
गंभीरघोषो गंभीरो गभीरो घुर्घुरस्वनः ||50||
ओंकारगर्भो न्यग्रोधो वषट्कारो हुताशनः |
भूयान्बहुमतो भूमा विश्वकर्मा विशांपतिः ||51||
व्यवसायोऽघमर्षश्च विदितोऽभ्युत्थितो महः |
बलबिद्बलवांदंडी वक्रदंष्ट्रो वशो वशी ||52||
सिद्धः सिद्धिप्रदः साध्यः सिद्धसंकल्प ऊर्जवान् |
धृतारिरसहायश्च सुमुखो बडवामुखः ||53||
वसुर्वसुमनाः सामशरीरो वसुधाप्रदः |
पीतांबरी वासुदेवो वामनो ज्ञानपंजरः ||54||
नित्यतृप्तो निराधारो निःसंगो निर्जितामरः |
नित्यमुक्तो नित्यवंद्यो मुक्तवंद्यो मुरांतकः ||55||
बंधको मोचको रुद्रो युद्धसेनाविमर्दनः |
प्रसारणो निषेधात्मा भिक्षुर्भिक्षुप्रियो ऋजुः ||56||
महाहंसो भिक्षुरूपी महाकंदो महाशनः |
मनोजवः कालकालः कालमृत्युः सभाजितः ||57||
प्रसन्नो निर्विभावश्च भूविदारी दुरासदः |
वसनो वासवो विश्ववासवो वासवप्रियः ||58||
सिद्धयोगी सिद्धकामः सिद्धिकामः शुभार्थवित् |
अजेयो विजयींद्रश्च विशेषज्ञो विभावसुः ||59||
ईक्षामात्रजगत्स्रष्टा भ्रूभंगनियताखिलः |
महाध्वगो दिगीशेशो मुनिमान्यो मुनीश्वरः ||60||
महाकायो वज्रकायो वरदो वायुवाहनः |
वदान्यो वज्रभेदी च मधुहृत्कलिदोषहा ||61||
वागीश्वरो वाजसनो वानस्पत्यो मनोरमः |
सुब्रह्मण्यो ब्रह्मधनो ब्रह्मण्यो ब्रह्मवर्धनः ||62||
विष्टंभी विश्वहस्तश्च विश्वाहो विश्वतोमुखः |
अतुलो वसुवेगोऽर्कः सम्राट् साम्राज्यदायकः ||63||
शक्तिप्रियः शक्तिरूपो मारशक्तिविभंजनः |
स्वतंत्रः सर्वतंत्रज्ञो मीमांसितगुणाकरः ||64||
अनिर्देश्यवपुः श्रीशो नित्यश्रीर्नित्यमंगलः |
नित्योत्सवो निजानंदो नित्यभेदी निराश्रयः ||65||
अंतश्चरो भवाधीशो ब्रह्मयोगी कलाप्रियः |
गोब्राह्मणहिताचारो जगद्धितमहाव्रतः ||66||
दुर्ध्येयश्च सदाध्येयो दुर्वासादिविबोधनः |
दुरापो दुर्धियां गोप्यो दूराद्दूरः समीपगः ||67||
वृषाकपिः कपिः कार्यः कारणः कारणक्रमः |
ज्योतिषां मथनज्योतिः ज्योतिश्चक्रप्रवर्तकः ||68||
प्रथमो मध्यमस्तारः सुतीक्ष्णोदर्ककार्यवान् |
सुरूपश्च सदावेत्ता सुमुखः सुजनप्रियः ||69||
महाव्याकरणाचार्यः शिक्षाकल्पप्रवर्तकः |
स्वच्छश्छंदोमयः स्वेच्छास्वाहितार्थविनाशनः ||70||
साहसी सर्वहंता च सम्मतोऽनिंदितोऽसकृत् |
कामरूपः कामपालः सुतीर्थ्योऽथ क्षपाकरः ||71||
ज्वाली विशालश्च परो वेदकृज्जनवर्धनः |
वेद्यो वैद्यो महावेदी वीरहा विषमो महः ||72||
ईतिभानुर्ग्रहश्चैव प्रग्रहो निग्रहोऽग्निहा |
उत्सर्गः सन्निषेधश्च सुप्रतापः प्रतापधृत् ||73||
सर्वायुधधरः शालः सुरूपः सप्रमोदनः |
चतुष्किष्कुः सप्तपादः सिंहस्कंधस्त्रिमेखलः ||74||
सुधापानरतोऽरिघ्नः सुरमेड्यः सुलोचनः |
तत्त्ववित्तत्त्वगोप्ता च परतत्त्वं प्रजागरः ||75||
ईशान ईश्वरोऽध्यक्षे महामेरुरमोघदृक् |
भेदप्रभेदवादी च स्वाद्वैतपरिनिष्ठितः ||76||
भागहारी वंशकरो निमित्तस्थो निमित्तकृत् |
नियंता नियमो यंता नंदको नंदिवर्धनः ||77||
षड्विंशको महाविष्णुर्ब्रह्मज्ञो ब्रह्मतत्परः |
वेदकृन्नाम चानंतनामा शब्दातिगः कृपः ||78||
दंभो दंभकरो दंभवंशो वंशकरो वरः |
अजनिर्जनिकर्ता च सुराध्यक्षे युगांतकः ||79||
दर्भरोमा बुधाध्यक्षे मानुकूलो मदोद्धतः |
शंतनुः शंकरः सूक्ष्मः प्रत्ययश्चंडशासनः ||80||
वृत्तनासो महाग्रीवः कुंबुग्रीवो महानृणः |
वेदव्यासो देवभूतिरंतरात्मा हृदालयः ||81||
महाभागो महास्पर्शो महामात्रो महामनाः |
महोदरो महोष्ठश्च महाजिह्वो महामुखः ||82||
पुष्करस्तुंबुरुः खेटी स्थावरः स्थितिमत्तरः |
श्वासायुधः समर्थश्च वेदार्थः सुसमाहितः ||83||
वेदशीर्षः प्रकाशात्मा प्रमोदः सामगायनः |
अंतर्भाव्यो भावितात्मा महीदासो दिवस्पतिः ||84||
महासुदर्शनो विद्वानुपहारप्रियोऽच्युतः |
अनलो द्विशफो गुप्तः शोभनो निरवग्रहः ||85||
भाषाकरो महाभर्गः सर्वदेशविभागकृत् |
कालकंठो महाकेशो लोमशः कालपूजितः ||86||
आसेवनोऽवसानात्मा बुद्ध्यात्मा रक्तलोचनः |
नारंगो नरकोद्धर्ता क्षेत्रपालो दुरिष्टहा ||87||
हुंकारगर्भो दिग्वासाः ब्रह्मेंद्राधिपतिर्बलः |
वर्चस्वी ब्रह्मवदनः क्षत्रबाहुर्विदूरगः ||88||
चतुर्थपाच्चतुष्पाच्च चतुर्वेदप्रवर्तकः |
चातुर्होत्रकृदव्यक्तः सर्ववर्णविभागकृत् ||89||
महापतिर्गृहपतिर्विद्याधीशो विशांपतिः |
अक्षरोऽधोक्षजोऽधूर्तो रक्षिता राक्षसांतकृत् ||90||
रजःसत्त्वतमोहांता कूटस्थः प्रकृतेः परः |
तीर्थकृत्तीर्थवासी च तीर्थरूपो ह्यपां पतिः ||91||
पुण्यबीजः पुराणर्षिः पवित्रः परमोत्सवः |
शुद्धिकृच्छुद्धिदः शुद्धः शुद्धसत्त्वनिरूपकः ||92||
सुप्रसन्नः शुभार्होऽथ शुभदित्सुः शुभप्रियः |
यज्ञभागभुजां मुख्यो यक्षगानप्रियो बली ||93||
समोऽथ मोदो मोदात्मा मोददो मोक्षदस्मृतिः |
परायणः प्रसादश्च लोकबंधुर्बृहस्पतिः ||94||
लीलावतारो जननविहीनो जन्मनाशनः |
महाभीमो महागर्तो महेष्वासो महोदयः ||95||
अर्जुनो भासुरः प्रख्यो विदोषो विष्टरश्रवाः |
सहस्रपात्सभाग्यश्च पुण्यपाको दुरव्ययः ||96||
कृत्यहीनो महावाग्मी महापापविनिग्रहः |
तेजोऽपहारी बलवान् सर्वदाऽरिविदूषकः ||97||
कविः कंठगतिः कोष्ठो मणिमुक्ताजलाप्लुतः |
अप्रमेयगतिः कृष्णो हंसश्चैव शुचिप्रियः ||98||
विजयींद्रः सुरेंद्रश्च वागिंद्रो वाक्पतिः प्रभुः |
तिरश्चीनगतिः शुक्लः सारग्रीवो धराधरः ||99||
प्रभातः सर्वतोभद्रो महाजंतुर्महौषधिः |
प्राणेशो वर्धकस्तीव्रप्रवेशः पर्वतोपमः ||100||
सुधासिक्तः सदस्यस्थो राजराट् दंडकांतकः |
ऊर्ध्वकेशोऽजमीढश्च पिप्पलादो बहुश्रवाः ||101||
गंधर्वोऽभ्युदितः केशी वीरपेशो विशारदः |
हिरण्यवासाः स्तब्धाक्षो ब्रह्मलालितशैशवः ||102||
पद्मगर्भो जंबुमाली सूर्यमंडलमध्यगः |
चंद्रमंडलमध्यस्थः करभागग्निसंश्रयः ||103||
अजीगर्तः शाकलाग्र्यः संधानः सिंहविक्रमः |
प्रभावात्मा जगत्कालः कालकालो बृहद्रथः ||104||
सारांगो यतमान्यश्च सत्कृतिः शुचिमंडलः |
कुमारजिद्वनेचारी सप्तकन्यामनोरमः ||105||
धूमकेतुर्महाकेतुः पक्षिकेतुः प्रजापतिः |
ऊर्ध्वरेता बलोपायो भूतावर्तः सजंगमः ||106||
रविर्वायुर्विधाता च सिद्धांतो निश्चलोऽचलः |
आस्थानकृदमेयात्माऽनुकूलश्चाधिको भुवः ||107||
ह्रस्वः पितामहोऽनर्थः कालवीर्यो वृकोदरः |
सहिष्णुः सहदेवश्च सर्वजिच्छात्रुतापनः ||108||
पांचरात्रपरो हंसी पंचभूतप्रवर्तकः |
भूरिश्रवाः शिखंडी च सुयज्ञः सत्यघोषणः ||109||
प्रगाढः प्रवणो हारी प्रमाणं प्रणवो निधिः |
महोपनिषदो वाक् च वेदनीडः किरीटधृत् ||110||
भवरोगभिषग्भावो भावसाढ्यो भवातिगः |
षड् धर्मवर्जितः केशी कार्यवित्कर्मगोचरः ||111||
यमविध्वंसनः पाशी यमिवर्गनिषेवितः |
मतंगो मेचको मेध्यो मेधावी सर्वमेलकः ||112||
मनोज्ञदृष्टिर्मारारिनिग्रहः कमलाकरः |
नमद्गणेशो गोपीडः संतानः संततिप्रदः ||113||
बहुप्रदो बलाध्यक्षे भिन्नमर्यादभेदनः |
अनिर्मुक्तश्चारुदेष्णः सत्याषाढः सुराधिपः ||114||
आवेदनीयोऽवेद्यश्च तारणस्तरुणोऽरुणः |
सर्वलक्षणलक्षण्यः सर्वलोकविलक्षणः ||115||
सर्वदक्षः सुधाधीशः शरण्यः शांतविग्रहः |
रोहिणीशो वराहश्च व्यक्ताव्यक्तस्वरूपधृत् ||116||
स्वर्गद्वारः सुखद्वारो मोक्षद्वारस्त्रिविष्टपः |
अद्वितीयः केवलश्च कैवल्यपतिरर्हणः ||117||
तालपक्षस्तालकरो यंत्री तंत्रविभेदनः |
षड्रसः कुसुमास्त्रश्च सत्यमूलफलोदयः ||118||
कला काष्ठा मुहूर्तश्च मणिबिंबो जगद्धृणिः |
अभयो रुद्रगीतश्च गुणजिद्गुणभेदनः ||119||
देवासुरविनिर्माता देवासुरनियामकः |
प्रारंभश्च विरामश्च साम्राज्याधिपतिः प्रभुः ||120||
पंडितो गहनारंभः जीवनो जीवनप्रदः |
रक्तदेवो देवमूलः वेदमूलो मनःप्रियः ||121||
विराचनः सुधाजातः स्वर्गाध्यक्षो महाकपिः |
विराड्रूपः प्रजारूपः सर्वदेवशिखामणिः ||122||
भगवान् सुमुखः स्वर्गः मंजुकेशः सुतुंदिलः |
वनमाली गंधमाली मुक्तामाल्यचलोपमः ||123||
मुक्तोऽसृप्यः सुहृद्भ्राता पिता माता परा गतिः |
सत्वध्वनिः सदाबंधुर्ब्रह्मरुद्राधिदैवतं ||124||
समात्मा सर्वदः सांख्यः सन्मार्गध्येयसत्पदः |
ससंकल्पो विकल्पश्च कर्ता स्वादी तपोधनः ||125||
विरजा विरजानाथः स्वच्छशृंगो दुरिष्टहा |
घोणो बंधुर्महाचेष्टः पुराणः पुष्करेक्षणः ||126||
अहिर्बुध्न्यो मुनिर्विष्णुर्धर्मयूपस्तमोहरः |
अग्राह्यश्शाश्वतः कृष्णः प्रवरः पक्षिवाहनः ||127||
कपिलः खपथिस्थश्च प्रद्युम्नोऽमितभोजनः |
संकर्षणो महावायुस्त्रिकालज्ञस्त्रिविक्रमः ||128||
पूर्णप्रज्ञः सुधीर्हृष्टः प्रबुद्धः शमनः सदः |
ब्रह्मांडकोटिनिर्माता माधवो मधुसूदनः ||129||
शश्वदेकप्रकारश्च कोटिब्रह्मांडनायकः |
शश्वद्भक्तपराधीनः शश्वदानंददायकः ||130||
सदानंदः सदाभासः सदा सर्वफलप्रदः |
ऋतुमानृतुपर्णश्च विश्वनेता विभूत्तमः ||131||
रुक्मांगदप्रियोऽव्यंगो महालिंगो महाकपिः |
संस्थानस्थानदः स्रष्टा जाह्नवीवाहधृक्प्रभुः ||132||
मांडुकेष्टप्रदाता च महाधन्वंतरिः क्षितिः |
सभापतिसेसिद्धमूलश्चरकादिर्महापथः ||133||
आसन्नमृत्युहंता च विश्वास्यः प्राणनायकः |
बुधो बुधेज्यो धर्मेज्यो वैकुंठपतिरिष्टदः ||134||
फलश्रुतिः -
इति श्वेतवराहस्य प्रोक्तं हे गिरिकन्यके |
समस्तभाग्यदं पुण्यं भूपतित्वप्रदायकं ||135||
महापातककोटिघ्नं राजसूयफलप्रदं |
य इदं प्रातरुत्थाय दिव्यं नामसहस्रकं ||136||
पठते नियतो भूत्वा महापापैः प्रमुच्यते |
सहस्रनामभिर्दिव्यैः प्रत्यहं तुलसीदलैः ||137||
पूजयेद्यो वराहं तु श्रद्धया निष्ठयान्वितः |
एवं सहस्रनामभिः पुष्पैर्वाथसुगंधिभिः ||138||
अभिजातकुले जातो राजा भवति निश्चितं |
एवं नामसहस्रेण वराहस्य महात्मनः ||139||
न दारिद्र्यमवाप्नोति न याति नरकं ध्रुवं |
त्रिकालमेककालं वा पठन् नामसहस्रकं ||140||
मासमेकं जपेन्मर्त्यो भविष्यति जितेंद्रियः |
महतीं श्रियमायुष्यं विद्यां चैवाधिगच्छति ||141||
यो वा श्वेतवराहस्य दिव्यैर्नामसहस्रकैः |
प्रवर्तयेन्नित्यपूजां दत्वा निर्वाहमुत्तमं ||142||
भवेज्जन्मसहस्रैस्तु साम्राज्याधिपतिर्ध्रुवं |
रात्रौ श्वेतवराहस्य सन्निधौ य इदं पठेत् ||143||
क्षयापस्मारकुष्ठाद्यैर्महारोगैस्तथाऽपरैः |
मासादेव विनिर्मुक्तः स जीवेच्छरदां शतं ||144||
सर्वेषु पुण्यकालेषु पठन्नामसहस्रकं |
सर्वपापविनिर्मुक्तो लभते शाश्वतं पदं ||145||
सहस्रनामपठनाद्वराहस्य महात्मनः |
न ग्रहोपद्रवं याति याति शत्रुक्षयं तथा ||146||
राजा च दासतां याति सर्वे यांति च मित्रतां |
श्रियश्च स्थिरतां यांति यांति सर्वेऽपि सौहृदं ||147||
राजदस्युग्रहादिभ्यो व्याध्याधिभ्यश्च किंचन |
न भयं जायते क्वापि वृद्धिस्तस्य दिने दिने ||148||
विप्रस्तु विद्यामाप्नोति क्षत्रियो विजयी भवेत् |
वार्धुष्यविभवं याति वैश्यः शूद्रः सुखं व्रजेत् ||149||
सकामः काममाप्नोति निष्कामो मोक्षमाप्नुयात् |
महाराक्षसवेतालभूतप्रेतपिशाचकाः ||150||
रोगाः सर्पविषाद्याश्च नश्यंत्यस्य प्रभावतः |
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् |
नामंगलमवाप्नोति सोऽमुत्रेह च मानवः ||151||
नमः श्वेतवराहाय नमस्ते परमात्मने |
लक्ष्मीनाथाय नाथाय श्रीमुष्णब्रह्मणे नमः ||152||
यः पठेच्छृणुयान्नित्यं इमं मंत्रं नगात्मजे |
स पापपाशनिर्मुक्तः प्रयाति परमां गतिं ||153||
इति श्रीवराहसहस्रनामस्तोत्रं संपूर्णं |
अर्थ
श्री वराह सहस्रनाम स्तोत्रम शिव और पार्वती के दिव्य संवाद के रूप में आरंभ होता है। देवी पार्वती भगवान शंकर से पूछती हैं, “हे शंकर, श्रीमुष्णेश्वर महावराह के वे सहस्रनाम कौन से हैं, जिनके जप से साम्राज्य, आयु और विजय प्राप्त होती है?” भगवान शंकर उत्तर देते हैं, “ये नाम अत्यंत पवित्र, मंगलमय और गुप्त हैं। ये मानव के पापों को भस्म करने की शक्ति रखते हैं। ये दिव्य और वेदमूलक हैं, जिनका उपदेश सर्वप्रथम स्वयं नारायण ने ब्रह्मा को दिया था। हे मेरे अंग के अर्धभाग स्वरूपा, मैं तुम्हें यह रहस्य बता रहा हूँ।” इस स्तोत्र के ऋषि सदाशिव, देवता वराह, छंद अनुष्टुप, कीलक विश्वनेता और शराग्रभृत्, बीज ह्रीं, अस्त्र क्लींकार और कवच श्रीमिहोच्यते हैं।
भगवान वराह श्वेतवर्ण हैं, सच्चिदानंद स्वरूप हैं और सभी लोकों को पावन करने वाले हैं। वे यज्ञमूर्ति हैं – वेदों का सार, सृष्टि-स्थिति-लय के अधिपति। वे दया के सागर हैं जिन्होंने भूमाता की रक्षा कर सभी जीवों को स्थिरता प्रदान की। उनके सहस्रनामों का पाठ – पुष्पार्पण, ध्यान और भक्तिपूर्ण जप के माध्यम से – भक्तों को दरिद्रता, रोग, भय, शत्रु बाधा और ग्रह दोषों से बचाता है। ये सहस्रनाम विश्वात्मा का परम मंत्र हैं, जिन्हें मंत्रराज भी कहा जाता है। इसमें हुंकार को हृदय में, वराहाय को मस्तक पर और भूर्भुवः स्वः को शिखा पर न्यास करने का विधान बताया गया है।
इस श्री वराह सहस्रनाम स्तोत्र के पाठ से प्राप्त होने वाले फल असीम हैं। राजा अहंकार रहित साम्राज्य प्राप्त करते हैं, विद्वान ज्ञान अर्जित करते हैं, क्षत्रिय विजय प्राप्त करते हैं, वैश्य वैभव प्राप्त करते हैं, और शूद्र सुख-संपन्न जीवन का अनुभव करते हैं। सकाम भक्त अपनी सभी इच्छाएँ पूरी करते हैं; निष्काम भक्त मोक्ष प्राप्त करते हैं। जो बिना किसी इच्छा के परमात्मा की प्रार्थना करते हैं, उन्हें परम गति प्राप्त होती है।
अंत में, इस स्तोत्र की फलश्रुति अत्यंत महत्वपूर्ण है। केवल पाठ करने मात्र से मनुष्य पापों के बंधन से मुक्त हो जाता है। भूत, प्रेत, पिशाच और राक्षसी प्रभावों का नाश होता है। सभी व्याधियाँ, सर्प विष जैसे भय दूर हो जाते हैं। जीवन में वृद्धि, शांति, धन-धान्य की समृद्धि, सौहार्द और दीर्घायु प्राप्त होती है। अंततः, भक्त परम गति – श्रीमुष्ण वराह लोक को प्राप्त करता है। अंतिम श्लोक “नमः श्वेतवराहाय, नमस्ते परमात्मने, लक्ष्मीनाथाय नाथाय, श्रीमुष्णब्रह्मणे नमः” भगवान श्वेत वराह को, परमात्मा को, लक्ष्मीनाथ को, सभी लोकों के नाथ को और श्रीमुष्ण के परब्रह्म को भक्तिपूर्ण नमस्कार अर्पित करता है।
लाभ (Benefits):
- पाप मुक्ति: इस सहस्रनाम के पाठ से मनुष्य सभी पापों से मुक्त होकर आध्यात्मिक शुद्धि प्राप्त करता है।
- समृद्धि और दीर्घायु: यह भक्तों को धन-धान्य की समृद्धि, सभी कष्टों से मुक्ति, शांतिपूर्ण जीवन और दीर्घायु प्रदान करता है।
- शत्रु एवं रोग निवारण: शत्रु भय, रोगों, ग्रह दोषों, भूत-प्रेत बाधाओं और सर्प विष जैसे खतरों से सुरक्षा प्रदान करता है।
- मनोकामना पूर्ति और मोक्ष: सकाम भक्त अपनी सभी इच्छाएँ पूरी करते हैं, और निष्काम भक्त परम गति यानी मोक्ष प्राप्त कर श्रीमुष्ण वराह लोक को प्राप्त करते हैं।
- सर्वांगीण विजय: राजाओं को अहंकार रहित साम्राज्य, क्षत्रियों को युद्ध में विजय, विद्वानों को ज्ञान वृद्धि और व्यापारियों को वैभव की प्राप्ति होती है।
अक्सर पूछे जाने वाले प्रश्न
श्री वराह सहस्रनाम स्तोत्रं क्या है?
इस स्तोत्र का पाठ कब और कैसे करना चाहिए?
श्री वराह सहस्रनाम स्तोत्र पाठ के प्रमुख लाभ क्या हैं?
कौन इस स्तोत्र का पाठ कर सकता है?
इस स्तोत्र का पाठ कितनी बार करना चाहिए?
इस स्तोत्र का उद्गम या स्रोत क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
