ध्यानं –
ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं
द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यं |
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
सायीनाथं त्रिगुणरहितं सद्गुरुं तं नमामि || [भावातीतं]
स्तोत्रं –
अखंडसच्चिदानंदश्चाऽखिलजीववत्सलः |
अखिलवस्तुविस्तारश्चाऽक्बराज्ञाभिवंदितः || 1 ||
अखिलचेतनाऽऽविष्टश्चाऽखिलवेदसंप्रदः |
अखिलांडेशरूपोऽपि पिंडे पिंडे प्रतिष्ठितः || 2 ||
अग्रणीरग्र्यभूमा च अगणितगुणस्तथा |
अघौघसन्निवर्ती च अचिंत्यमहिमाऽचलः || 3 ||
अच्युतश्च तथाजश्च अजातशत्रुरेव च |
अज्ञानतिमिरांधानां चक्षुरुन्मीलनक्षमः || 4 ||
आजन्मस्थितिनाशश्च अणिमादिविभूषितः |
अत्युन्नतधुनीज्वालामाज्ञयैवनिवर्तकः || 5 ||
अत्युल्बणमहासर्पादपिभक्तसुरक्षिता |
अतितीव्रतपस्तप्तश्चातिनम्रस्वभावकः || 6 ||
अन्नदानसदानिष्ठः अतिथिभुक्तशेषभुक् |
अदृश्यलोकसंचारी अदृष्टपूर्वदर्शिता || 7 ||
अद्वैतवस्तुतत्त्वज्ञः अद्वैतानंदवर्षकः |
अद्भुतानंतशक्तिश्च अधिष्ठानो ह्यधोक्षजः || 8 ||
अधर्मतरुच्छेता (च) अधियज्ञः स एव च |
अधिभूतोऽधिदैवश्च तथाध्यक्ष इतीरितः || 9 ||
अनघोऽनंतनामा च अनंतगुणभूषणः |
अनंतमूर्त्यनंतश्च अनंतशक्तिसंयुतः || 10 ||
अनंताश्चर्यवीर्यश्चाऽनह्लक अतिमानितः |
अनवरतसमाधिस्थः अनाथपरिरक्षकः || 11 ||
अनन्यप्रेमसंहृष्टगुरुपादविलीनहृत् |
अनाधृताष्टसिद्धिश्च अनामयपदप्रदः || 12 ||
अनादिमत्परब्रह्मा अनाहतदिवाकरः |
अनिर्देश्यवपुश्चैष अनिमेषेक्षितप्रजः || 13 ||
अनुग्रहार्थमूर्तिश्च अनुवर्तितवेंकूशः |
अनेकदिव्यमूर्तिश्च अनेकाद्भुतदर्शनः || 14 ||
अनेकजन्मजं पापं स्मृतिमात्रेण हारकः |
अनेकजन्मवृत्तांतं सविस्तारमुदीरयन् || 15 ||
अनेकजन्मसंप्राप्तकर्मबंधविदारणः |
अनेकजन्मसंसिद्धशक्तिज्ञानस्वरूपवान् || 16 ||
अंतर्बहिश्चसर्वत्रव्याप्ताखिलचराचरः |
अंतर्हृदय आकाशः अंतकालेऽपि रक्षकः || 17 ||
अंतर्याम्यंतरात्मा हि अन्नवस्त्रेप्सितप्रदः |
अपराजितशक्तिश्च अपरिग्रहभूषितः || 18 ||
अपवर्गप्रदाता च अपवर्गमयो हि सः |
अपांतरात्मरूपेण स्रष्टुरिष्टप्रवर्तकः || 19 ||
अपावृतकृपागारो अपारज्ञानशक्तिमान् |
तथाऽपार्थिवदेहस्थः अपांपुष्पनिबोधकः || 20 ||
अप्रपंचोऽप्रमत्तश्च अप्रमेयगुणाकारः |
अप्राकृतवपुश्चैव अप्राकृतपराक्रमः || 21 ||
अप्रार्थितेष्टदाता वै अब्दुल्लादि परागतिः |
अभयं सर्वभूतेभ्यो ददामीति व्रती च सः || 22 ||
अभिमानातिदूरश्च अभिषेकचमत्कृतिः |
अभीष्टवरवर्षी च अभीक्ष्णदिव्यशक्तिभृत् || 23 ||
अभेदानंदसंधाता अमर्त्योऽमृतवाक्सृतिः |
अरविंददळाक्षश्च तथाऽमितपराक्रमः || 24 ||
अरिषड्वर्गनाशी च अरिष्टघ्नोऽर्हसत्तमः |
अलभ्यलाभसंधाता अल्पदानसुतोषितः || 25 ||
अल्लानामसदावक्ता अलंबुध्या स्वलंकृतः |
अवतारितसर्वेशो अवधीरितवैभवः || 26 ||
अवलंब्यस्वपदाब्जः अवलियेतिविश्रुतः |
अवधूताखिलोपाधि अविशिष्टः स एव हि || 27 ||
अवशिष्टस्वकार्यार्थे त्यक्तदेहं प्रविष्टवान् |
अवाक्पाणिपादोरुः अवाङ्मानसगोचरः || 28 ||
अवाप्तसर्वकामोऽपि कर्मण्येव प्रतिष्टितः |
अविच्छिन्नाग्निहोत्रश्च अविच्छिन्नसुखप्रदः || 29 ||
अवेक्षितदिगंतस्थप्रजापालननिष्ठितः |
अव्याजकरुणासिंधुरव्याहतेष्टिदेशगः || 30 ||
अव्याहृतोपदेशश्च अव्याहतसुखप्रदः |
अशक्यशक्यकर्ता च अशुभाशयशुद्धिकृत् || 31 ||
अशेषभूतहृत्स्थाणुः अशोकमोहशृंखलः |
अष्टैश्वर्ययुतत्यागी अष्टसिद्धिपराङ्मुखः || 32 ||
असंयोगयुक्तात्मा असंगदृढशस्त्रभृत् |
असंख्येयावतारेषु ऋणानुबंधिरक्षितः || 33 ||
अहंब्रह्मस्थितप्रज्ञः अहंभावविवर्जितः |
अहं त्वंच त्वमेवाहमिति तत्त्वप्रबोधकः || 34 ||
अहेतुककृपासिंधुरहिंसानिरतस्तथा |
अक्षीणसौहृदोऽक्षयः तथाऽक्षयसुखप्रदः || 35 ||
अक्षरादपि कूटस्थादुत्तमपुरुषोत्तमः |
आखुवाहनमूर्तिश्च आगमाद्यंतसन्नुतः || 36 ||
आगमातीतसद्भावः आचार्यपरमस्तथा |
आत्मानुभवसंतुष्टो आत्मविद्याविशारदः || 37 ||
आत्मानंदप्रकाशश्च आत्मैव परमात्मदृक् |
आत्मैकसर्वभूतात्मा आत्मारामः स आत्मवान् || 38 ||
आदित्यमध्यवर्ती च आदिमध्यांतवर्जितः |
आनंदपरमानंदः तथाऽऽनंदप्रदो हि सः || 39 ||
आनाकमादृताज्ञश्च आनतावननिवृतिः |
आपदामपहर्ता च आपद्बांधवः एव हि || 40 ||
आफ्रिकागतवैद्याय परमानंददायकः |
आयुरारोग्यदाता च आर्तत्राणपरायणः || 41 ||
आरोपणापवादैश्च मायायोगवियोगकृत् |
आविष्कृत तिरोधत्त बहुरूपविडंबनः || 42 ||
आर्द्रचित्तेन भक्तानां सदानुग्रहवर्षकः |
आशापाशविमुक्तश्च आशापाशविमोचकः || 43 ||
इच्छाधीनजगत्सर्वः इच्छाधीनवपुस्तथा |
इष्टेप्सितार्थदाता च इच्छामोहनिवर्तकः || 44 ||
इच्छोत्थदुःखसंछेता इंद्रियारातिदर्पहा |
इंदिरारमणाह्लादिनामसाहस्रपूतहृत् || 45 ||
इंदीवरदळज्योतिर्लोचनालंकृताननः |
इंदुशीतलभाषी च इंदुवत्प्रियदर्शनः || 46 ||
इष्टापूर्तशतैर्लब्धः इष्टदैवस्वरूपधृत् |
इष्टिकादानसुप्रीतः इष्टिकालयरक्षितः || 47 ||
ईशासक्तमनोबुद्धिः ईशाराधनतत्परः |
ईशिताखिलदेवश्च ईशावास्यार्थसूचकः || 48 ||
उच्चारणाधृते भक्तहृदांत उपदेशकः |
उत्तमोत्तममार्गी च उत्तमोत्तारकर्मकृत् || 49 ||
उदासीनवदासीनः उद्धरामीत्युदीरकः |
उद्धवाय मया प्रोक्तं भागवतमिति ब्रुवन् || 50 ||
उन्मत्तश्वाभिगोप्ता च उन्मत्तवेषनामधृत् |
उपद्रवनिवारी च उपांशुजपबोधकः || 51 ||
उमेशामेशयुक्तात्मा ऊर्जितभक्तिलक्षणः |
ऊर्जितवाक्प्रदाता च ऊर्ध्वरेतस्तथैव च || 52 ||
ऊर्ध्वमूलमधःशाखामश्वत्थं भस्मसात्करः |
ऊर्ध्वगतिविधाता च ऊर्ध्वबद्धद्विकेतनः || 53 ||
ऋजुः ऋतंबरप्रज्ञः ऋणक्लिष्टधनप्रदः |
ऋणानुबद्धजंतुनां ऋणमुक्त्यै फलप्रदः || 54 ||
एकाकी चैकभक्तिश्च एकवाक्कायमानसः |
एकादश्यां स्वभक्तानां स्वतनोकृतनिष्कृतिः || 55 ||
एकाक्षरपरज्ञानी एकात्मा सर्वदेशदृक् |
एकेश्वरप्रतीतिश्च एकरीत्यादृताखिलः || 56 ||
ऐक्यानंदगतद्वंद्वः ऐक्यानंदविधायकः |
ऐक्यकृदैक्यभूतात्मा ऐहिकामुष्मिकप्रदः || 57 ||
ओंकारादर ओजस्वी औषधीकृतभस्मदः |
कथाकीर्तनपद्धत्यां नारदानुष्ठितं स्तुवन् || 58 ||
कपर्दे क्लेशनाशी च कबीर्दासावतारकः |
कपर्दे पुत्ररक्षार्थमनुभूततदामयः || 59 ||
कमलाश्लिष्टपादाब्जः कमलायतलोचनः |
कंदर्पदर्पविध्वंसी कमनीयगुणालयः || 60 ||
कर्ताऽकर्ताऽन्यथाकर्ता कर्मयुक्तोप्यकर्मकृत् |
कर्मकृत् कर्मनिर्मुक्तः कर्माऽकर्मविचक्षणः || 61 ||
कर्मबीजक्षयंकर्ता कर्मनिर्मूलनक्षमः |
कर्मव्याधिव्यपोही च कर्मबंधविनाशकः || 62 ||
कलिमलापहारी च कलौ प्रत्यक्षदैवतं |
कलियुगावतारश्च कल्युत्थभवभंजनः || 63 ||
कळ्याणानंतनामा च कळ्याणगुणभूषणः |
कविदासगणुत्राता कष्टनाशकरौषधं || 64 ||
काकादीक्षितरक्षायां धुरीणोऽहमितीरकः |
कानाभिलादपि त्राता कानने पानदानकृत् || 65 ||
कामजित् कामरूपी च कामसंकल्पवर्जितः |
कामितार्थप्रदाता च कामादिशत्रुनाशनः || 66 ||
काम्यकर्मसुसन्यस्तः कामेराशक्तिनाशकः |
कालश्च कालकालश्च कालातीतश्च कालकृत् || 67 ||
कालदर्पविनाशी च कालरातर्जनक्षमः |
कालशुनकदत्तान्नं ज्वरं हरेदिति ब्रुवन् || 68 ||
कालाग्निसदृशक्रोधः काशीरामसुरक्षकः |
कीर्तिव्याप्तदिगंतश्च कुप्नीवीतकलेबरः || 69 ||
कुंबाराग्निशिशुत्राता कुष्ठरोगनिवारकः |
कूटस्थश्च कृतज्ञश्च कृत्स्नक्षेत्रप्रकाशकः || 70 ||
कृत्स्नज्ञश्च कृपापूर्णः कृपयापालितार्भकः |
कृष्णरामशिवात्रेयमारुत्यादिस्वरूपधृत् || 71 ||
केवलात्मानुभूतिश्च कैवल्यपददायकः |
कोविदः कोमलांगश्च कोपव्याजशुभप्रदः || 72 ||
कोऽहमिति दिवानक्तं विचारमनुशासकः |
क्लिष्टरक्षाधुरीणश्च क्रोधजित् क्लेशनाशनः || 73 ||
गगनसौक्ष्म्यविस्तारः गंभीरमधुरस्वनः |
गंगातीरनिवासी च गंगोत्पत्तिपदांबुजः || 74 ||
गंगागिरिरितिख्यात यतिश्रेष्ठेन संस्तुतः |
गंधपुष्पाक्षतैः पूज्यः गतिविद्गतिसूचकः || 75 ||
गह्वरेष्ठपुराणश्च गर्वमात्सर्यवर्जितः |
गाननृत्यविनोदश्च गालवण्कर्वरप्रदः || 76 ||
गिरीशसदृशत्यागी गीताचार्यः स एव हि |
गीताद्भुतार्थवक्ता च गीतारहस्यसंप्रदः || 77 ||
गीताज्ञानमयश्चासौ गीतापूर्णोपदेशकः |
गुणातीतो गुणात्मा च गुणदोषविवर्जितः || 78 ||
गुणागुणेषु वर्तंत इत्यनासक्तिसुस्थिरः |
गुप्तो गुहाहितो गूढो गुप्तसर्वनिबोधकः || 79 ||
गुर्वंघ्रितीव्रभक्तिश्चेत्तदेवालमितीरयन् |
गुरुर्गुरुतमो गुह्यो गुरुपादपरायणः || 80 ||
गुर्वीशांघ्रिसदाध्याता गुरुसंतोषवर्धनः |
गुरुप्रेमसमालब्धपरिपूर्णस्वरूपवान् || 81 ||
गुरूपासनसंसिद्धः गुरुमार्गप्रवर्तकः |
गुर्वात्मदेवताबुद्ध्या ब्रह्मानंदमयस्तथा || 82 ||
गुरोस्समाधिपार्श्वस्थनिंबच्छायानिवासकृत् |
गुरुवेंकुशसंप्राप्तवस्त्रेष्टिका सदाधृतः || 83 ||
गुरुपरंपरादिष्टसर्वत्यागपरायणः |
गुरुपरंपराप्राप्तसच्चिदानंदमूर्तिमान् || 84 ||
गृहहीनमहाराजो गृहमेधिपराश्रयः |
गोपींस्त्राता यथा कृष्णस्तथा नाच्ने कुलावनः || 85 ||
गोपालगुंडूरायादि पुत्रपौत्रादिवर्धनः |
गोष्पदीकृतकष्टाब्धिर्गोदावरीतटागतः || 86 ||
चतुर्भुजश्चतुर्बाहुनिवारितनृसंकटः |
चमत्कारैः संक्लिष्टौर्भक्तिज्ञानविवर्धनः || 87 ||
चंदनालेपरुष्टानां दुष्टानां धर्षणक्षमः |
चंदोर्करादि भक्तानां सदापालननिष्ठितः || 88 ||
चराचरपरिव्याप्तश्चर्मदाहेप्यविक्रियः |
चांद्भायाख्य पाटेलार्थं चमत्कार सहायकृत् || 89 ||
चिंतामग्नपरित्राणे तस्य सर्वभारं वहः |
चित्रातिचित्रचारित्रश्चिन्मयानंद एव हि || 90 ||
चिरवासकृतैर्बंधैः शिर्डीग्रामं पुनर्गतः |
चोराद्याहृतवस्तूनिदत्तान्येवेतिहर्षितः || 91 ||
छिन्नसंशय एवासौ छिन्नसंसारबंधनः |
जगत्पिता जगन्माता जगत्त्राता जगद्धितः || 92 ||
जगत्स्रष्टा जगत्साक्षी जगद्व्यापी जगद्गुरुः |
जगत्प्रभुर्जगन्नाथो जगदेकदिवाकरः || 93 ||
जगन्मोहचमत्कारः जगन्नाटकसूत्रधृत् |
जगन्मंगळकर्ता च जगन्मायेतिबोधकः || 94 ||
जडोन्मत्तपिशाचाभोप्यंतःसच्चित्सुखस्थितः |
जन्मबंधविनिर्मुक्तः जन्मसाफल्यमंत्रदः || 95 ||
जन्मजन्मांतरज्ञश्च जन्मनाशरहस्यवित् |
जनजल्पमनाद्यत्य जपसिद्धिमहाद्युतिः || 96 ||
जप्तनामसुसंतुष्टहरिप्रत्यक्षभावितः |
जपप्रेरितभक्तश्च जप्यनामा जनेश्वरः || 97 ||
जलहीनस्थले खिन्नभक्तार्थं जलसृष्टिकृत् |
जवारालीति मौलानासेवनेऽक्लिष्टमानसः || 98 ||
जातग्रामाद्गुरोर्ग्रामं तस्मात्पूर्वस्थलं व्रजन् |
जातिर्भेदमतैर्भेद इति भेदतिरस्कृतः || 99 ||
जातिविद्याधनैश्चापि हीनानार्द्रहृदावनः |
जांबूनदपरित्यागी जागरूकावितप्रजः || 100 ||
जायापत्यगृहक्षेत्रस्वजनस्वार्थवर्जितः |
जितद्वैतमहामोहो जितक्रोधो जितेंद्रियः || 101 ||
जितकंदर्पदर्पश्च जितात्मा जितषड्रिपुः |
जीर्णहूणालयस्थाने पूर्वजन्मकृतं स्मरन् || 102 ||
जीर्णहूणालयं चाद्य सर्वमर्त्यालयंकरः |
जीर्णवस्त्रसमं मत्वा देहं त्यक्त्वा सुखं स्थितः || 103 ||
जीर्णवस्त्रसमं पश्यन् त्यक्त्वा देहं प्रविष्टवान् |
जीवन्मुक्तश्च जीवानां मुक्तिसद्गतिदायकः || 104 ||
ज्योतिश्शास्त्ररहस्यज्ञः ज्योतिर्ज्ञानप्रदस्तथा |
ज्योक्चसूर्यं दृशा पश्यन् ज्ञानभास्करमूर्तिमान् || 105 ||
ज्ञातसर्वरहस्यश्च ज्ञातब्रह्मपरात्परः |
ज्ञानभक्तिप्रदश्चासौ ज्ञानविज्ञाननिश्चयः || 106 ||
ज्ञानशक्तिसमारूढः ज्ञानयोगव्यवस्थितः |
ज्ञानाग्निदग्धकर्मा च ज्ञाननिर्धूतकल्मषः || 107 ||
ज्ञानवैराग्यसंधाता ज्ञानसंछिन्नसंशयः |
ज्ञानापास्तमहामोहः ज्ञानीत्यात्मैव निश्चयः || 108 ||
ज्ञानेश्वरीपठद्दैवप्रतिबंधनिवारकः |
ज्ञानं ज्ञेयं ज्ञानगम्यं ज्ञातसर्व परं मतः || 109 ||
ज्योतिषां प्रथमज्योतिर्ज्योतिर्हीनद्युतिप्रदः |
तपस्संदीप्ततेजस्वी तप्तकांचनसन्निभः || 110 ||
तत्त्वज्ञानार्थदर्शी च तत्त्वमस्यादिलक्षितः |
तत्त्ववित् तत्त्वमूर्तिश्च तंद्राऽऽलस्यविवर्जितः || 111 ||
तत्त्वमालाधरश्चैव तत्त्वसारविशारदः |
तर्जितांतकदूतश्च तमसः परः उच्यते || 112 ||
तात्यागणपतिप्रेष्ठस्तात्यानूल्कर्गतिप्रदः |
तारकब्रह्मनामा च तमोरजोविवर्जितः || 113 ||
तामरसदळाक्षश्च ताराबाय्यासुरक्षः |
तिलकपूजितांघ्रिश्च तिर्यग्जंतुगतिप्रदः || 114 ||
तीर्थकृतनिवासश्च तीर्थपाद इतीरितः |
तीव्रभक्तिनृसिंहादिभक्तालीभूर्यनुग्रहः || 115 ||
तीव्रप्रेमविरागाप्तवेंकटेशकृपानिधिः |
तुल्यप्रियाऽप्रियश्चैव तुल्यनिंदाऽऽत्मसंस्तुतिः || 116 ||
तुल्याधिकविहीनश्च तुष्टसज्जनसंवृतः |
तृप्तात्मा च तृषाहीनस्तृणीकृतजगद्वसुः || 117 ||
तैलीकृतजलापूर्णदीपसंज्वलितालयः |
त्रिकालज्ञस्त्रिमूर्तिश्च त्रिगुणातीत उच्यते || 118 ||
त्रियामायोगनिष्ठात्मा दशदिग्भक्तपालकः |
त्रिवर्गमोक्षसंधाता त्रिपुटीरहितस्थितिः || 119 ||
त्रिलोकस्वेच्छसंचारी त्रैलोक्यतिमिरापहः |
त्यक्तकर्मफलासंगस्त्यक्तभोगसदासुखी || 120 ||
त्यक्तदेहात्मबुद्धिश्च त्यक्तसर्वपरिग्रहः |
त्यक्त्वा मायामयं सर्वं स्वे महिम्नि सदास्थितः || 121 ||
दंडधृद्दंडनार्हाणां दुष्टवृत्तेर्निवर्तकः |
दंभदर्पातिदूरश्च दक्षिणामूर्तिरेव च || 122 ||
दक्षिणादानकर्तृभ्यो दशधाप्रतिदायकः |
दक्षिणाप्रार्थनाद्वारा शुभकृत्तत्त्वबोधकः || 123 ||
दयापरो दयासिंधुर्दत्तात्रेयः स एव हि |
दरिद्रोऽयं धनीवेति भेदाचारविवर्जितः || 124 ||
दहराकाशभानुश्च दग्धहस्तार्भकावनः |
दारिद्र्यदुःखभीतिघ्नो दामोदरवरप्रदः || 125 ||
दानशौंडस्तथा दांतर्दानैश्चान्यान् वशं नयन् |
दानमार्गस्खलत्पादनानाचांदोर्करावनः || 126 ||
दिव्यज्ञानप्रदश्चासौ दिव्यमंगळविग्रहः |
दीनदयापरश्चासौ दीर्घदृग्दीनवत्सलः || 127 ||
दुष्टानां दमने शक्तः दुराधर्षतपोबलः |
दुर्भिक्षोऽप्यन्नदाता च दुरादृष्टविनाशकृत् || 128 ||
दुःखशोकभयद्वेषमोहाद्यशुभनाशकः |
दुष्टनिग्रहशिष्टानुग्रहरूपमहाव्रतः || 129 ||
दुष्टमूर्खजडादीनामप्रकाशस्वरूपवते |
दुष्टजंतुपरित्राता दूरवर्तिसमस्तदृक् || 130 ||
दृश्यं नश्यं न विश्वास्यमिति बुद्धिप्रबोधकः |
दृश्यं सर्वं हि चैतन्यमित्यानंदप्रतिष्ठः || 131 ||
देहे विगलिताशश्च देहयात्रार्थमन्नभुक् |
देहो गेहस्ततो मांतु निन्ये गुरुरितीरकः || 132 ||
देहात्मबुद्धिहीनश्च देहमोहप्रभंजनः |
देहो देवालयस्तस्मिन् देवं पश्येत्युदीरयन् || 133 ||
दैवीसंपत्प्रपूर्णश्च देशोद्धारसहायकृत् |
द्वंद्वमोहविनिर्मुक्तः द्वंद्वातीतविमत्सरः || 134 ||
द्वारकामायिवासी च द्वेषद्रोहविवर्जितः |
द्वैताद्वैतविशिष्ठादीन् काले स्थाने विबोधकः || 135 ||
धनहीनान् धनाढ्यां च समदृष्ट्यैव रक्षकः |
धनदेनसमत्यागी धरणीधरसन्निभः || 136 ||
धर्मज्ञो धर्मसेतुश्च धर्मस्थापनसंभवः |
धुमालेउपासनीपत्न्यो निर्वाणे सद्गतिप्रदः || 137 ||
धूपखेडा पटेल् चांद्भाय् नष्टाश्वस्थानसूचकः |
धूमयानात् पतत्पाथेवारपत्नी सुरक्षकः || 138 ||
ध्यानावस्थितचेताश्च धृत्युत्साहसमन्वितः |
नतजनावनश्चासौ नरलोकमनोरमः || 139 ||
नष्टदृष्टिप्रदाता च नरलोकविडंबनः |
नागसर्पे मयूरे च समारूढ षडाननः || 140 ||
नानाचांदोर्कमाहूया तत्सद्गत्यै कृतोद्यमः |
नाना निम्होण्करस्यांते स्वांघ्रि ध्यानलयप्रदः || 141 ||
नानादेशाभिधाकारो नानाविधिसमर्चितः |
नारायणमहाराजसंश्लाघितपदांबुजः || 142 ||
नारायणपरश्चैष तथासौ नामवर्जितः |
निगृहितेंद्रियग्रामः निगमागमगोचरः || 143 ||
नित्यसर्वगतस्थाणुर्नित्यतृप्तो निराश्रयः |
नित्यान्नदानधर्मिष्ठो नित्यानंदप्रवाहकः || 144 ||
नित्यमंगळधामा च नित्याग्निहोत्रवर्धनः |
नित्यकर्मनियोक्ता च नित्यसत्त्वस्थितस्तथा || 145 ||
निंबपादपमूलस्थः निरंतराग्निरक्षिता |
निस्पृहो निर्विकल्पश्च निरंकुशगतागतिः || 146 ||
निर्जितकामनादोषः निराशश्च निरंजनः |
निर्विकल्पसमाधिस्थो निरपेक्षश्च निर्गुणः || 147 ||
निर्द्वंद्वो नित्यसत्त्वस्थो निर्विकारश्च निश्चलः |
निरालंबो निराकारो निवृत्तगुणदोषकः || 148 ||
नूल्कर विजयानंद माहिषां गतिदायकः | [दत्त सद्गतिः]
नरसिंह गणूदास दत्त प्रचारसाधनः || 149 ||
नैष्ठिकब्रह्मचर्यश्च नैष्कर्म्यपरिनिष्ठितः |
पंडरीपांडुरंगाख्यः पाटिल् तात्याजी मातुलः || 150 ||
पतितपावनश्चासौ पत्रिग्रामसमुद्भवः |
पदविसृष्टगंगांभः पदांबुजनतावनः || 151 ||
परब्रह्मस्वरूपी च परमकरुणालयः |
परतत्त्वप्रदीपश्च परमार्थनिवेदकः || 152 ||
परमानंदनिस्यंदः परंज्योतिः परात्परः |
परमेष्ठी परंधामा परमेश्वरः ह्येव सः || 153 ||
परमसद्गुरुश्चासौ परमाचार्य उच्यते |
परधर्मभयाद्भक्तान् स्वे स्वे धर्मे नियोजकः || 154 ||
परार्थैकांतसंभूतिः परमात्मा परागतिः |
पापतापौघसंहारी पामरव्याजपंडितः || 155 ||
पापाद्दासं समाकृष्य पुण्यमार्ग प्रवर्तकः |
पिपीलिकासुखान्नदः पिशाचेश्व व्यवस्थितः || 156 ||
पुत्रकामेष्ठि यागादेः ऋते संतानवर्धनः |
पुनरुज्जीवितप्रेतः पुनरावृत्तिनाशकः || 157 ||
पुनः पुनरिहागम्य भक्तेभ्यः सद्गतिप्रदः |
पुंडरीकायताक्षश्च पुण्यश्रवणकीर्तनः || 158 ||
पुरंदरादिभक्ताग्र्यपरित्राणधुरंधरः |
पुराणपुरुषश्चासौ पुरीशः पुरुषोत्तमः || 159 ||
पूजापराङ्मुखः पूर्णः पूर्णवैराग्यशोभितः |
पूर्णानंदस्वरूपी च तथा पूर्णकृपानिधिः || 160 ||
पूर्णचंद्रसमाह्लादी पूर्णकामश्च पूर्वजः |
प्रणतपालनोद्युक्तः प्रणतार्तिहरस्तथा || 161 ||
प्रत्यक्षदेवतामूर्तिः प्रत्यगात्मनिदर्शकः |
प्रपन्नपारिजातश्च प्रपन्नानां परागतिः || 162 ||
प्रमाणातीतचिन्मूर्तिः प्रमादाभिधमृत्युजित् |
प्रसन्नवदनश्चासौ प्रसादाभिमुखद्युतिः || 163 ||
प्रशस्तवाक् प्रशांतात्मा प्रियसत्यमुदाहरन् |
प्रेमदः प्रेमवश्यश्च प्रेममार्गैकसाधनः || 164 ||
बहुरूपनिगूढात्मा बलदृप्तदमक्षमः |
बलातिदर्पभय्याजिमहागर्वविभंजनः || 165 ||
बुधसंतोषदश्चैव बुद्धः बुधजनावनः |
बृहद्बंधविमोक्ता च बृहद्भारवहक्षमः || 166 ||
ब्रह्मकुलसमुद्भूतः ब्रह्मचारिव्रतस्थितः |
ब्रह्मानंदामृतेमग्नः ब्रह्मानंदः स एव च || 167 ||
ब्रह्मानंदलसद्दृष्टिः ब्रह्मवादी बृहच्छ्रवः |
ब्राह्मणस्त्रीविसृष्टोल्कातर्जितश्वाकृतिस्तथा || 168 ||
ब्राह्मणानां मशीदिस्थः ब्रह्मण्यो ब्रह्मवित्तमः |
भक्तदासगणूप्राणमानवृत्त्यादिरक्षकः || 169 ||
भक्तात्यंतहितैषी च भक्ताश्रितदयापरः |
भक्तार्थे धृतदेहश्च भक्तार्थे दग्धहस्तकः || 170 ||
भक्तपरागतिश्चासौ भक्तवत्सल एव च |
भक्तमानसवासी च भक्तातिसुलभस्तथा || 171 ||
भक्तभवाब्धिपोतश्च भगवान् भजतां सुहृत् |
भक्तसर्वस्वहारी च भक्तानुग्रहकातरः || 172 ||
भक्तरास्न्यादि सर्वेषां अमोघाभयसंप्रदः |
भक्तावनसमर्थश्च भक्तावनधुरंधरः || 173 ||
भक्तभावपराधीनः भक्तात्यंतहितौषधं |
भक्तावनप्रतिज्ञश्च भजतामिष्टकामधुक् || 174 ||
भक्तहृत्पद्मवासी च भक्तिमार्गप्रदर्शकः |
भक्ताशयविहारी च भक्तसर्वमलापहः || 175 ||
भक्तबोधैकनिष्ठश्च भक्तानां सद्गतिप्रदः |
भद्रमार्गप्रदर्शी च भद्रं भद्रमिति ब्रुवन् || 176 ||
भद्रश्रवश्च भन्नूमायि साध्वीमहितशासनः |
भयसंत्रस्तकापर्देऽमोघाभयवरप्रदः || 177 ||
भयहीनो भयत्राता भयकृद्भयनाशनः |
भववारिधिपोतश्च भवलुंठनकोविदः || 178 ||
भस्मदाननिरस्ताधिव्याधिदुःखाऽशुभाऽखिलः |
भस्मसात्कृतभक्तारी भस्मसात्कृतमन्मथः || 179 ||
भस्मपूतमशीदिस्थः भस्मदग्धाखिलामयः |
भागोजि कुष्ठरोगघ्नः भाषाखिलसुवेदितः || 180 ||
भाष्यकृद्भावगम्यश्च भारसर्वपरिग्रहः |
भागवतसहायश्च भावनाशून्यतः सुखी || 181 ||
भागवतप्रधानश्च तथा भागवतोत्तमः |
भाटेद्वेषं समाकृष्य भक्तिं तस्मै प्रदत्तवान् || 182 ||
भिल्लरूपेण दत्तांभः भिक्षान्नदानशेषभुक् |
भिक्षाधर्ममहाराजो भिक्षौघदत्तभोजनः || 183 ||
भीमाजि क्षयपापघ्नस्तथा भीमबलान्वितः |
भीतानां भीतिनाशी च तथा भीषणभीषणः || 184 ||
भीषाचालितसुर्याग्निमघवन्मृत्युमारुतः |
भुक्तिमुक्तिप्रदाता च भुजगाद्रक्षितप्रजः || 185 ||
भुजंगरूपमाविश्य सहस्रजनपूजितः |
भुक्त्वा भोजनदातॄणां दग्धप्रागुत्तराशुभः || 186 ||
भूटिद्वारा गृहं बद्ध्वा कृतसर्वमतालयः |
भूभृत्समोपकारी च भूमाऽसौ भूशयस्तथा || 187 ||
भूतशरण्यभूतश्च भूतात्मा भूतभावनः |
भूतप्रेतपिशाचादीन् धर्ममार्गे नियोजयन् || 188 ||
भृत्यस्यभृत्यसेवाकृत् भृत्यभारवहस्तथा |
भेकं दत्तवरं स्मृत्वा सर्पस्यादपि रक्षकः || 189 ||
भोगैश्वर्येष्वसक्तात्मा भैषज्येभिषजांवरः |
मर्करूपेण भक्तस्य रक्षणे तेन ताडितः || 190 ||
मंत्रघोषमशीदिस्थः मदाभिमानवर्जितः |
मधुपानभृशासक्तिं दिव्यशक्त्या व्यपोहकः || 191 ||
मशीध्यां तुलसीपूजां अग्निहोत्रं च शासकः |
महावाक्यसुधामग्नः महाभागवतस्तथा || 192 ||
महानुभावतेजस्वी महायोगेश्वरश्च सः |
महाभयपरित्राता महात्मा च महाबलः || 193 ||
माधवरायदेश्पांडे सख्युः साहाय्यकृत्तथा |
मानापमानयोस्तुल्यः मार्गबंधुश्च मारुतिः || 194 ||
मायामानुष रूपेण गूढैश्वर्यपरात्परः |
मार्गस्थदेवसत्कारः कार्य इत्यनुशासिता || 195 ||
मारीग्रस्थ बूटीत्राता मार्जालोच्छिष्ठभोजनः |
मिरीकरं सर्पगंडात् दैवाज्ञाप्ताद्विमोचयन् || 196 ||
मितवाक् मितभुक् चैव मित्रेशत्रौसदासमः |
मीनातायी प्रसूत्यर्थं प्रेषिताय रथं ददत् || 197 ||
मुक्तसंग आनंवादी मुक्तसंसृतिबंधनः |
मुहुर्देवावतारादि नामोच्चारणनिवृतः || 198 ||
मूर्तिपूजानुशास्ता च मूर्तिमानप्यमूर्तिमान् |
मूलेशास्त्री गुरोर्घोलप महाराजस्य रूपधृत् || 199 ||
मृतसूनुं समाकृष्य पूर्वमातरि योजयन् |
मृदालयनिवासी च मृत्युभीतिव्यपोहकः || 200 ||
मेघश्यामायपूजार्थं शिवलिंगमुपाहरन् |
मोहकलिलतीर्णश्च मोहसंशयनाशकः || 201 ||
मोहिनीराजपूजायां कुल्कर्ण्यप्पा नियोजकः |
मोक्षमार्गसहायश्च मौनव्याख्याप्रबोधकः || 202 ||
यज्ञदानतपोनिष्ठः यज्ञशिष्ठान्नभोजनः |
यतींद्रियमनोबुद्धिः यतिधर्मसुपालकः || 203 ||
यतो वाचो निवर्तंते तदानंदसुनिष्ठितः |
यत्नातिशयसेवाप्त गुरुपूर्णकृपाबलः || 204 ||
यथेच्छसूक्ष्मसंचारी यथेष्टदानधर्मकृत् |
यंत्रारूढं जगत्सर्वं मायया भ्रामयत्प्रभुः || 205 ||
यमकिंकरसंत्रस्त सामंतस्य सहायकृत् |
यमदूतपरिक्लिष्टपुरंदरसुरक्षकः || 206 ||
यमभीतिविनाशी च यवनालयभूषणः |
यशसापिमहाराजः यशःपूरितभारतः || 207 ||
यक्षरक्षःपिशाचानां सान्निध्यादेवनाशकः |
युक्तभोजननिद्रश्च युगांतरचरित्रवित् || 208 ||
योगशक्तिजितस्वप्नः योगमायासमावृतः |
योगवीक्षणसंदत्तपरमानंदमूर्तिमान् || 209 ||
योगिभिर्ध्यानगम्यश्च योगक्षेमवहस्तथा |
रथस्य रजताश्वेषु हृतेष्वम्लानमानसः || 210 ||
रसश्च रससारज्ञः रसनारसजिच्च सः |
रसोऽप्यस्य परं दृष्ट्वा निवर्तितमहायशः || 211 ||
रक्षणात्पोषणात्सर्वपितृमातृगुरुप्रभुः |
रागद्वेषवियुक्तात्मा राकाचंद्रसमाननः || 212 ||
राजीवलोचनश्चैषः राजभिश्चाभिवंदितः |
रामभक्तिप्रपूर्णश्च रामरूपप्रदर्शकः || 213 ||
रामसारूप्यलब्धश्च रामसायीति विश्रुतः |
रामदूतमयश्चासौ राममंत्रोपदेशकः || 214 ||
राममूर्त्यादिशंकर्ता रासनेकुलवर्धनः |
रुद्रतुल्यप्रकोपश्च रुद्रकोपदमक्षमः || 215 ||
रुद्रविष्णुकृताभेदः रूपिणीरूप्यमोहजित् |
रूपे रूपे चिदात्मानं पश्यध्वमिति बोधकः || 216 ||
रूपाद्रूपांतरं यातोऽमृत इत्यभयप्रदः |
रेगे शिशोः तथांधस्य सतांगति विधायकः || 217 ||
रोगदारिद्र्यदुःखादीन् भस्मदानेन वारयन् |
रोदनातार्द्रचित्तश्च रोमहर्षादवाकृतिः || 218 ||
लघ्वाशी लघुनिद्रश्च लब्धाश्वग्रामणिस्तुतः |
लगुडोद्धृतरोहिल्लास्तंभनाद्दर्पनाशकः || 219 ||
ललिताद्भुतचारित्रः लक्ष्मीनारायणस्तथा |
लीलामानुषदेहस्थो लीलामानुषकर्मकृत् || 220 ||
लेलेशास्त्रि श्रुतिप्रीत्या मशीदि वेदघोषणः |
लोकाभिरामो लोकेशो लोलुपत्वविवर्जितः || 221 ||
लोकेषु विहरंश्चापि सच्चिदानंदसंस्थितः |
लोणिवार्ण्यगणूदासं महापायाद्विमोचकः || 222 ||
वस्त्रवद्वपुरुद्वीक्ष्य स्वेच्छत्यक्तकलेबरः |
वस्त्रवद्देहमुत्सृज्य पुनर्देहं प्रविष्टवान् || 223 ||
वंध्यादोषविमुक्त्यर्थं तद्वस्त्रे नारिकेलदः |
वासुदेवैकसंतुष्टिः वादद्वेषमदाऽप्रियः || 224 ||
विद्याविनयसंपन्नो विधेयात्मा च वीर्यवान् |
विविक्तदेशसेवी च विश्वभावनभावितः || 225 ||
विश्वमंगळमांगळ्यो विषयात् संहृतेंद्रियः |
वीतरागभयक्रोधः वृद्धांधेक्षणसंप्रदः || 226 ||
वेदांतांबुजसूर्यश्च वेदिस्थाग्निविवर्धनः |
वैराग्यपूर्णचारित्रः वैकुंठप्रियकर्मकृत् || 227 ||
वैहायसगतिश्चासौ व्यामोहप्रशमौषधं |
शत्रुच्छेदैकमंत्रं स शरणागतवत्सलः || 228 ||
शरणागतभीमाजीश्वांधभेकादिरक्षकः |
शरीरस्थाऽशरीरस्थः शरीरानेकसंभृतः || 229 ||
शश्वत्परार्थसर्वेहः शरीरकर्मकेवलः |
शाश्वतधर्मगोप्ता च शांतिदांतिविभूषितः || 230 ||
शिरस्तंभितगंगांभः शांताकारः स एव च |
शिष्टधर्ममनुप्राप्य मौलाना पादसेवितः || 231 ||
शिवदः शिवरूपश्च शिवशक्तियुतस्तथा |
शिरीयानसुतोद्वाहं यथोक्तं परिपूरयन् || 232 ||
शीतोष्णसुखदुःखेषु समः शीतलवाक्सुधः |
शिर्डिन्यस्तगुरोर्देहः शिर्डित्यक्तकलेबरः || 233 ||
शुक्लांबरधरश्चैव शुद्धसत्त्वगुणस्थितः |
शुद्धज्ञानस्वरूपश्च शुभाऽशुभविवर्जितः || 234 ||
शुभ्रमार्गेण नेता नॄन् तद्विष्णोः परमं पदं |
शेलुगुरुकुलेवासी शेषशायी तथैव च || 235 ||
श्रीकंठः श्रीकरः श्रीमान् श्रेष्ठः श्रेयोविधायकः |
श्रुतिस्मृतिशिरोरत्नविभूषितपदांबुजः || 236 ||
श्रेयान् स्वधर्म इत्युक्त्वा स्वेस्वेधर्मनियोजकः |
सखारामसशिष्यश्च सकलाश्रयकामदुक् || 237 ||
सगुणोनिर्गुणश्चैव सच्चिदानंदमूर्तिमान् |
सज्जनमानसव्योमराजमानसुधाकरः || 238 ||
सत्कर्मनिरतश्चासौ सत्संतानवरप्रदः |
सत्यव्रतश्च सत्यं च सत्सुलभोऽन्यदुर्लभः || 239 ||
सत्यवाक् सत्यसंकल्पः सत्यधर्मपरायणः |
सत्यपराक्रमश्चासौ सत्यद्रष्टा सनातनः || 240 ||
सत्यनारायणश्चासौ सत्यतत्त्वप्रबोधकः |
सत्पुरुषः सदाचारः सदापरहितेरतः || 241 ||
सदाक्षिप्तनिजानंदः सदानंदश्च सद्गुरुः |
सदाजनहितोद्युक्तः सदात्मा च सदाशिवः || 242 ||
सदार्द्रचित्तः सद्रूपी सदाश्रयः सदाजितः |
सन्यासयोगयुक्तात्मा सन्मार्गस्थापनव्रतः || 243 ||
सबीजं फलमादाय निर्बीजं परिणामकः |
समदुःखसुखस्वस्थः समलोष्टाश्मकांचनः || 244 ||
समर्थसद्गुरुश्रेष्ठः समानरहितश्च सः |
समाश्रितजनत्राणव्रतपालनतत्परः || 245 ||
समुद्रसमगांभीर्यः संकल्परहितश्च सः |
संसारतापहार्यंघ्रिः तथा संसारवर्जितः || 246 ||
संसारोत्तारनामा च सरोजदळकोमलः |
सर्पादिभयहारी च सर्परूपेऽप्यवस्थितः || 247 ||
सर्वकर्मफलत्यागी सर्वत्रसमवस्थितः |
सर्वतःपाणिपादश्च सर्वतोऽक्षिशिरोमुखः || 248 ||
सर्वतःश्रुतिमन्मूर्तिः सर्वमावृत्यसंस्थितः |
सर्वधर्मसमत्राता सर्वधर्मसुपूजितः || 249 ||
सर्वधर्मान् परित्यज्य गुर्वीशं शरणं गतः |
सर्वधीसाक्षिभूतश्च सर्वनामाभिसूचितः || 250 ||
सर्वभूतांतरात्मा च सर्वभूताशयस्थितः |
सर्वभूतादिवासश्च सर्वभूतहितेरतः || 251 ||
सर्वभूतात्मभूतात्मा सर्वभूतसुहृच्च सः |
सर्वभूतनिशोन्निद्रः सर्वभूतसमादृतः || 252 ||
सर्वज्ञः सर्ववित् सर्वः सर्वमतसुसम्मतः |
सर्वब्रह्ममयं द्रष्टा सर्वशक्त्युपबृंहितः || 253 ||
सर्वसंकल्पसन्यासी तथा सर्वसंगविवर्जितः |
सर्वलोकशरण्यश्च सर्वलोकमहेश्वरः || 254 ||
सर्वेशः सर्वरूपी च सर्वशत्रुनिबर्हणः |
सर्वैश्वर्यैकमंत्रं च सर्वेप्सितफलप्रदः || 255 ||
सर्वोपकारकारी च सर्वोपास्यपदांबुजः |
सहस्रशिर्षमूर्तिश्च सहस्राक्षः सहस्रपात् || 256 ||
सहस्रनामसुश्लाघी सहस्रनामलक्षितः |
साकारोऽपि निराकारः साकारार्चासुमानितः || 257 ||
(*- साधुजनपरित्राता साधुपोषकस्तथैव च | -*)
सायीति सज्जानैः प्रोक्तः सायीदेवः स एव हि |
सायीरां सायिनाथश्च सायीशः सायिसत्तमः || 258 ||
सालोक्यसार्ष्टिसामीप्यसायुज्यपददायकः |
साक्षात्कृतहरिप्रीत्या सर्वशक्तियुतश्च सः || 259 ||
साक्षात्कारप्रदाता च साक्षान्मन्मथमर्दनः |
सिद्धेशः सिद्धसंकल्पः सिद्धिदः सिद्धवाङ्मुखः || 260 ||
सुकृतदुष्कृतातीतः सुखेषुविगतस्पृहः |
सुखदुःखसमश्चैव सुधास्यंदिमुखोज्वलः || 261 ||
स्वेच्छामात्रजडद्देहः स्वेच्छोपात्ततनुस्तथा |
स्वीकृतभक्तरोगश्च स्वेमहिम्निप्रतिष्ठितः || 262 ||
हरिसाठे तथा नानां कामादेः परिरक्षकः |
हर्षामर्षभयोद्वेगैर्निर्मुक्तविमलाशयः || 263 ||
हिंदुमुस्लिंसमूहानां मैत्रीकरणतत्परः |
हूंकारेणैव सुक्षिप्रं स्तब्धप्रचंडमारुतः || 264 ||
हृदयग्रंथिभेदी च हृदयग्रंथिवर्जितः |
क्षांतानंतदौर्जन्यः क्षितिपालादिसेवितः |
क्षिप्रप्रसाददाता च क्षेत्रीकृतस्वशिर्डिकः || 265 ||
इति श्री सायि सहस्रनाम स्तोत्रं ||
अर्थ
श्री सायि सहस्रनाम स्तोत्रं शिरडी साईंबाबा के दिव्य गुणों, उनकी करुणा और उनके विश्वव्यापी स्वरूप की स्तुति करने वाला एक पवित्र स्तोत्र है। इस स्तोत्र में साईंबाबा के एक हजार नाम हैं, जो भक्तों के जीवन से भय, दुःख और मोह को दूर कर सत्य, शांति और प्रेम भर देते हैं। प्रत्येक नाम साईंबाबा के वचनों 'श्रद्धा' और 'सबूरी' (विश्वास और धैर्य) नामक आध्यात्मिक सिद्धांतों के सार को दर्शाता है। ये 1000 नाम बाबा के अनंत गुणों, उनकी लीलाओं और भक्तों के प्रति उनके अपार प्रेम को प्रकट करते हैं।
साईं सहस्रनाम का पाठ केवल नामों का उच्चारण नहीं है, बल्कि बाबा की दिव्य चेतना से जुड़ने का एक शक्तिशाली माध्यम है। ये नाम भक्तों के आंतरिक मन को शुद्ध करते हैं और आध्यात्मिक जागरूकता जगाते हैं। प्रत्येक नाम बाबा की एक लीला, गुण या उपदेश की याद दिलाता है, जिससे भक्तों के मन में भक्ति और समर्पण की भावनाएँ गहरी होती हैं। यह बाबा की सर्वव्यापकता, सर्वज्ञता और सर्वशक्तिमानता को उद्घोषित करता है, भक्तों को आंतरिक शक्ति और मार्गदर्शन प्रदान करता है।
स्तोत्र की शुरुआत में 'ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं द्वंद्वातीतं गगनसदृशं' जैसे ध्यान श्लोक साईंबाबा के परब्रह्म स्वरूप का वर्णन करते हैं। वे सच्चिदानंद स्वरूप हैं, सभी जीवों पर प्रेम करने वाले हैं और समस्त सृष्टि में व्याप्त हैं, ऐसा स्तोत्र बताता है। 'अखिलचेतनाऽऽविष्टः, अखिलवेदसंप्रदः, अखिलांडेशरूपोऽपि पिंडे पिंडे प्रतिष्ठितः' जैसे नाम बताते हैं कि बाबा सभी चेतन प्राणियों में निवास करते हैं, वेदों के सार को जानते हैं और ब्रह्मांड के स्वामी होते हुए भी हर कण में प्रतिष्ठित हैं।
'अघौघसन्निवर्ती च अचिन्त्यमहिमाऽचलः' नाम बताते हैं कि साईंबाबा पापों का नाश करने वाले हैं, उनकी महिमा अकल्पनीय और अटल है। 'अज्ञानतिमिरांधानां चक्षुरुन्मीलनक्षमः' का अर्थ है कि बाबा अज्ञान के अंधकार में डूबे हुए लोगों को ज्ञान की आँखें खोलने में सक्षम हैं। 'अत्युन्नतधुनीज्वालामाज्ञयैवनीवर्तकः' नाम बाबा की उस चमत्कारी शक्ति को दर्शाता है जिससे वे अग्नि को अपनी इच्छा से नियंत्रित करते थे। ये नाम बाबा की अद्भुत शक्ति, परम दया और ज्ञान के मूर्त रूप को उजागर करते हैं, भक्तों में आशा और साहस भरते हैं।
लाभ (Benefits):
- सर्वदुःख नाश और शांति प्राप्ति: इस स्तोत्र के नियमित पाठ से जीवन के सभी दुःख और कष्ट दूर होते हैं, तथा मन को अपार शांति और संतोष मिलता है।
- रोग निवारण और दीर्घायु: साईंबाबा के नाम स्मरण से रोगों का नाश होता है, स्वास्थ्य में सुधार होता है और स्वस्थ, दीर्घायु जीवन प्राप्त होता है।
- सद्बुद्धि और आत्म-विश्वास वृद्धि: बाबा की कृपा से सद्बुद्धि में वृद्धि होती है, सही निर्णय लेने की क्षमता बढ़ती है और मन में स्थिरता तथा आत्मविश्वास बढ़ता है।
- पारिवारिक सुख और कार्यसिद्धि: स्तोत्र का पाठ करने से पारिवारिक सौहार्द बढ़ता है, घर में सुख-शांति का वास होता है और सभी कार्यों में सफलता प्राप्त होती है।
- साई कृपा और दैवीय संरक्षण: साई सहस्रनाम का पाठ करने वाले को साईंबाबा का प्रत्यक्ष आशीर्वाद और दैवीय सुरक्षा सदैव प्राप्त होती है, जिससे भक्त बाधाओं से मुक्त होकर जीवन व्यतीत कर सकते हैं।
अक्सर पूछे जाने वाले प्रश्न
श्री सायि सहस्रनाम स्तोत्रं क्या है?
श्री सायि सहस्रनाम स्तोत्रं का पाठ कब और कैसे करना चाहिए?
इस स्तोत्र के पाठ से क्या लाभ होते हैं?
श्री सायि सहस्रनाम स्तोत्रं का पाठ किसे करना चाहिए?
इस स्तोत्र का पाठ कितनी बार करना चाहिए?
इस स्तोत्र का मूल क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
