द

श्री दत्त सहस्रनाम स्तोत्रं

संपादन: अद्यतन
सहस्रनाम
0 व्यूज़

श्री दत्त सहस्रनाम स्तोत्रं दकारादि

||अथ ध्यानं||

यावद्द्वैतभ्रमस्तावन्न शांतिर्न परं सुखं ||

अतस्तदर्थं वक्ष्येऽदः सर्वात्मत्वावबोधकं ||अथ श्री दकारादि श्री दत्त सहस्रनामस्तोत्रं||

ॐ दत्तात्रेयो दयापूर्णो दत्तो दत्तकधर्मकृत् |
दत्ताभयो दत्तधैर्यो दत्तारामो दरार्दनः ||1||

दवो दवघ्नो दकदो दकपो दकदाधिपः |
दकवासी दकधरो दकशायी दकप्रियः ||2||

दत्तात्मा दत्तसर्वस्वो दत्तभद्रो दयाघनः |
दर्पको दर्पकरुचिर्दर्पकातिशयाकृतिः ||3||

दर्पकी दर्पककलाभिज्ञो दर्पकपूजितः |
दर्पकोनो दर्पकोक्षवेगहृद्दर्पकार्दनः ||4||

दर्पकाक्षीड् दर्पकाक्षीपूजितो दर्पकाधिभूः |
दर्पकोपरमो दर्पमाली दर्पकदर्पकः ||5||

दर्पहा दर्पदो दर्पत्यागी दर्पातिगो दमी |
दर्भधृग्दर्भकृद्दर्भी दर्भस्थो दर्भपीठगः ||6||

दनुप्रियो दनुस्तुत्यो दनुजात्मजमोहहृत् |
दनुजघ्नो दनुजजिद्दनुजश्रीविभंजनः ||7||

दमो दमीड् दमकरो दमिवंद्यो दमिप्रियः |
दमादियोगविद्दम्यो दम्यलीलो दमात्मकः ||8||

दमार्थी दमसंपन्नलभ्यो दमनपूजितः |
दमदो दमसंभाव्यो दममूलो दमीष्टदः ||9||

दमितो दमिताक्षश्च दमितेंद्रियवल्लभः |
दमूना दमुनाभश्च दमदेवो दमालयः ||10||

दयाकरो दयामूलो दयावश्यो दयाव्रतः |
दयावान् दयनीयेशो दयितो दयितप्रियः ||11||

दयनीयानसूयाभूर्दयनीयात्रिनंदनः |
दयनीयप्रियकरो दयात्मा च दयानिधिः ||12||

दयार्द्रो दयिताश्वत्थो दयाश्लिष्टो दयाघनः |
दयाविष्यो दयाभीष्टो दयाप्तो दयनीयदृक् ||13||

दयावृतो दयापूर्णो दयायुक्तांतरस्थितः |
दयालुर्दयनीयेक्षो दयासिंधुर्दयोदयः ||14||

दरद्रावितवातश्च दरद्रावितभास्करः |
दरद्रावितवह्निश्च दरद्रावितवासवः ||15||

दरद्रावितमृत्युश्च दरद्रावितचंद्रमाः |
दरद्रावितभूतौघो दरद्रावितदैवतः ||16||

दरास्त्रधृग्दरदरो दराक्षो दरहेतुकः |
दरदूरो दरातीतो दरमूलो दरप्रियः ||17||

दरवाद्यो दरदवो दरधृग्दरवल्लभः |
दक्षिणावर्तदरपो दरोदस्नानतत्परः ||18||

दरप्रियो दस्रवंद्यो दस्रेष्टो दस्रदैवतः |
दरकंठो दराभश्च दरहंता दरानुगः ||19||

दररावद्रावितारिर्दररावार्दितासुरः |
दररावमहामंत्रो दरारार्पितभीर्दरीट् ||20||

दरधृग्दरवासी च दरशायी दरासनः |
दरकृद्दरहृच्चापि दरगर्भो दरातिगः ||21||

दरिद्रपो दरिद्री च दरिद्रजनशेवधिः |
दरीचरो दरीसंस्थो दरीक्रीडो दरीप्रियः ||22||

दरीलभ्यो दरीदेवो दरीकेतनहृत्स्थितिः |
दरार्तिहृद्दलनकृद्दलप्रीतिर्दलोदरः ||23||

दलादर्नष्यनुग्राही दलादनसुपूजितः |
दलादगीतमहिमा दलादलहरीप्रियः ||24||

दलाशनो दलचतुष्टयचक्रगतो दली |
द्वित्र्यस्रपद्मगतिविद्दशास्राब्जविभेदकः ||25||

द्विषड्दलाब्जभेत्ता च द्व्यष्टास्राब्जविभेदकः |
द्विदलस्थो दशशतपत्रपद्मगतिप्रदः ||26||

द्व्यक्षरावृत्तिकृद्-द्व्यक्षो दशास्यवरदर्पहा |
दवप्रियो दवचरो दवशायी दवालयः ||27||

दवीयांदवक्त्रश्च दविष्ठायनपारकृत् |
दवमाली दवदवो दवदोषनिशातनः ||28||

दवसाक्षी दवत्राणो दवारामो दवस्थगः |
दशहेतुर्दशातीतो दशाधारो दशाकृतिः ||29||

दशषड्बंधसंविद्दो दशषड्बंधभेदनः |
दशाप्रदो दशाभिज्ञो दशासाक्षी दशाहरः ||30||

दशायुधो दशमहाविद्यार्च्यो दशपंचदृक् |
दशलक्षणलक्ष्यात्मा दशषड्वाक्यलक्षितः ||31||

दर्दुरव्रातविहितध्वनिज्ञापितवृष्टिकः |
दशपालो दशबलो दशेंद्रिय विहारकृत् ||32||

दशेंद्रिय गणाध्यक्षो दशेंद्रियदृगूर्ध्वगः |
दशैकगुणगम्यश्च दशेंद्रियमलापहा ||33||

दशेंद्रियप्रेरकश्च दशेंद्रियनिबोधनः |
दशैकमानमेयश्च दशैकगुणचालकः ||34||

दशभूर्दर्शनाभिज्ञो दर्शनादर्शितात्मकः |
दशाश्वमेधतीर्थेष्टो दशास्यरथचालकः ||35||

दशास्यगर्वहर्ता च दशास्यपुरभंजनः |
दशास्यकुलविध्वंसी दशास्यानुजपूजितः ||36||

दर्शनप्रीतिदो दर्शयजनो दर्शनादुरः |
दर्शनीयो दशबलपक्षभिच्च दशार्तिहा ||37||

दशार्तिगो दशाशापो दशग्रंथविशारदः |
दशप्राणविहारी च दशप्राणगतिर्दृशिः ||38||

दशांगुलाधिकात्मा च दाशार्हो दशषट्सुभुक् |
दशप्रागाद्यंगुलीककरनम्रद्विडंतकः ||39||

दशब्राह्मणभेदज्ञो दशब्राह्मणभेदकृत् |
दशब्राह्मणसंपूज्यो दशनार्तिनिवारणः ||40||

दोषज्ञो दोषदो दोषाधिपबंधुर्द्विषद्धरः |
दोषैकदृक्पक्षघाती दष्टसर्पार्तिशामकः ||41||

दधिक्राश्च दधिक्रावगामी दध्यङ्मुनीष्टदः |
दधिप्रियो दधिस्नातो दधिपो दधिसिंधुगः ||42||

दधिभो दधिलिप्तांगो दध्यक्षतविभूषणः |
दधिद्रप्सप्रियो दभ्रवेद्यविज्ञातविग्रहः ||43||

दहनो दहनाधारो दहरो दहरालयः |
दह्रदृग्दहराकाशो दहराछादनांतकः ||44||

दग्धभ्रमो दग्धकामो दग्धार्तिर्दग्धमत्सरः |
दग्धभेदो दग्धमदो दग्धाधिर्दग्धवासनः ||45||

दग्धारिष्टो दग्धकष्टो दग्धार्तिर्दग्धदुष्क्रियः |
दग्धासुरपुरो दग्धभुवनो दग्धसत्क्रियः ||46||

दक्षो दक्षाध्वरध्वंसी दक्षपो दक्षपूजितः |
दाक्षिणात्यार्चितपदो दाक्षिणात्यसुभावगः ||47||

दक्षिणाशो दक्षिणेशो दक्षिणासादिताध्वरः |
दक्षिणार्पितसल्लोको दक्षवामादिवर्जितः ||48||

दक्षिणोत्तरमार्गज्ञो दक्षिण्यो दक्षिणार्हकः |
द्रुमाश्रयो द्रुमावासो द्रुमशायी द्रुमप्रियः ||49||

द्रुमजन्मप्रदो द्रुस्थो द्रुरूपभवशातनः |
द्रुमत्वगंबरो द्रोणो द्रोणीस्थो द्रोणपूजितः ||50||

द्रुघणी द्रुद्यणास्त्रश्च द्रुशिष्यो द्रुधर्मधृक् |
द्रविणार्थो द्रविणदो द्रावणो द्राविडप्रियः ||51||

द्रावितप्रणताघो द्राक्फलो द्राक्केंद्रमार्गवित् |
द्राघीय आयुर्दधानो द्राघीयांद्राक्प्रसादकृत् ||52||

द्रुततोषो द्रुतगतिव्यतीतो द्रुतभोजनः |
द्रुफलाशी द्रुदलभुग्दृषद्वत्याप्लवादरः ||53||

द्रुपदेड्यो द्रुतमतिर्द्रुतीकरणकोविदः |
द्रुतप्रमोदो द्रुतिधृग्द्रुतिक्रीडाविचक्षणः ||54||

दृढो दृढाकृतिर्दार्ढ्यो दृढसत्त्वो दृढव्रतः |
दृढच्युतो दृढबलो दृढार्थासक्तिवारणः ||55||

दृढधीर्दृढभक्तिदृग्दृढभक्तिवरप्रदः |
दृढदृग्दृढभक्तिज्ञो दृढभक्तो दृढाश्रयः ||56||

दृढदंडो दृढयमो दृढप्रदो दृढांगकृत् |
दृढकायो दृढध्यानो दृढाभ्यासो दृढासनः ||57||

दृग्दो दृग्दोषहरणो दृष्टि द्वंद्व विराजितः |
दृक्पूर्वो दृऽग्मनोतीतो दृक्पूतगमनो दृगीट् ||58||

दृगिष्टो दृष्ट्यविषमो दृष्टिहेतुर्दृष्टत्तनुः |
दृग्लभ्यो दृक्त्रययुतो दृग्बाहुल्यविराजितः ||59||

द्युपतिर्द्युपदृग्द्युस्थो द्युमणिर्द्युप्रवर्तकः |
द्युदेहो द्युगमो द्युस्थो द्युभूर्द्युर्द्युलयो द्युमान् ||60||

द्युनिड्गतिद्युतिद्यूनस्थानदोषहरो द्युभुक् |
द्यूतकृद्द्यूतहृद्द्यूतदोषहृद्द्यूतदूरगः ||61||

दृप्तो दृप्तार्दनो द्योस्थो द्योपालो द्योनिवासकृत् |
द्रावितारिर्द्राविताल्पमृत्युर्द्रावितकैतवः ||62||

द्यावाभूमिसंधिदर्शी द्यावाभूमिधरो द्युदृक् |
द्योकृद्द्योतहृद्द्योती द्योताक्षो द्योतदीपनः ||63||

द्योतमूलो द्योतितात्मा द्योतोद्यौर्द्योतिताखिलः |
द्वयवादिमतद्वेषी द्वयवादिमतांतकः ||64||

द्वयवादिविजयी दीक्षाद्वयवादिनिकृंतनः |
द्व्यष्टवर्षवया द्व्यष्टनृपवंद्यो द्विषट्क्रियः ||65||

द्विषत्कलानिधिर्द्वीपिचर्मधृग्द्व्यष्टजातिकृत् |
द्व्यष्टोपचारदयितो द्व्यष्टस्वरतनुर्द्विभित् ||66||

द्व्यक्षराख्यो द्व्यष्टकोटिस्वजपीष्टार्थपूरकः |
द्विपाद्द्व्यात्मा द्विगुर्द्वीशो द्व्यतीतो द्विप्रकाशकः ||67||

द्वैतीभूतात्मको द्वैधीभूतचिद्द्वैधशामकः |
द्विसप्तभुवनाधारो द्विसप्तभुवनेश्वरः ||68||

द्विसप्तभुवनांतस्थो द्विसप्तभुवनात्मकः |
द्विसप्तलोककर्ता द्विसप्तलोकाधिपो द्विपः ||69||

द्विसप्तविद्याभिज्ञो द्विसप्तविद्याप्रकाशकः |
द्विसप्तविद्याविभवो द्विसप्तेंद्रपदप्रदः ||70||

द्विसप्तमनुमान्यश्च द्विसप्तमनुपूजितः |
द्विसप्तमनुदेवो द्विसप्तमन्वंतरर्धिकृत् ||71||

द्विचत्वारिंशदुद्धर्ता द्विचत्वारिकलास्तुतः |
द्विस्तनीगोरसास्पृग्द्विहायनीपालको द्विभुक् ||72||

द्विसृष्टिर्द्विविधो द्वीड्यो द्विपथो द्विजधर्मकृत् |
द्विजो द्विजातिमान्यश्च द्विजदेवो द्विजातिकृत् ||73||

द्विजप्रेष्ठो द्विजश्रेष्ठो द्विजराजसुभूषणः |
द्विजराजाग्रजो द्विड्द्वीड् द्विजाननसुभोजनः ||74||

द्विजास्यो द्विजभक्तो द्विजातिभृद्द्विजसत्कृतः |
द्विविधो द्व्यावृतिर्द्वंद्ववारणो द्विमुखादनः ||75||

द्विजपालो द्विजगुरुर्द्विजराजासनो द्विपात् |
द्विजिह्वसूत्रो द्विजिह्वफणछत्रो द्विजिह्वभत् ||76||

द्वादशात्मा द्वापरदृग् द्वादशादित्यरूपकः |
द्वादशीशो द्वादशारचक्रधृग् द्वादशाक्षरः ||77||

द्वादशीपारणो द्वार्दश्यच्यो द्वादश षड्बलः |
द्वासप्तति सहस्रांग नाडीगति विचक्षणः ||78||

द्वंद्वदो द्वंद्वदो द्वंद्वबीभत्सो द्वंद्वतापनः |
द्वंद्वार्तिहृद् द्वंद्वसहो द्वया द्वंद्वातिगो द्विगः ||79||

द्वारदो द्वारविद्द्वास्थो द्वारधृग् द्वारिकाप्रियः |
द्वारकृद् द्वारगो द्वारनिर्गम क्रम मुक्तिगः ||80||

द्वारभृद् द्वारनवकगतिसंसृतिदर्शकः |
द्वैमातुरो द्वैतहीनो द्वैतारण्यविनोदनः ||81||

द्वैतास्पृग् द्वैतगो द्वैताद्वैतमार्गविशारदः |
दाता दातृप्रियो दावो दारुणो दारदाशनः ||82||

दानदो दारुवसतिर्दास्यज्ञो दाससेवितः |
दानप्रियो दानतोषो दानज्ञो दानविग्रहः ||83||

दास्यप्रियो दासपालो दास्यदो दासतोषणः |
दावोष्णहृद् दांतसेव्यो दांतज्ञो दांत वल्लभः ||84||

दातदोषो दातकेशो दावचारी च दावपः |
दायकृद्दायभुग् दारस्वीकारविधिदर्शकः ||85||

दारमान्यो दारहीनो दारमेधिसुपूजितः |
दानवान् दानवारातिर्दानवाभिजनांतकः ||86||

दामोदरो दामकरो दारस्नेहोतचेतनः |
दार्वीलेपो दारमोहो दारिकाकौतुकान्वितः ||87||

दारिकादोद्धारकश्च दातदारुकसारथिः |
दाहकृद्दाहशांतिज्ञो दाक्षायण्यधिदैवतः ||88||

द्रांबीजो द्रांमनुर्दांतशांतोपरतवीक्षितः |
दिव्यकृद्दिव्यविद्दिव्यो दिविस्पृग् दिविजार्थदः ||89||

दिक्पो दिक्पतिपो दिग्विद्दिगंतरलुठद्यशः |
दिग्दर्शनकरो दिष्टो दिष्टात्मा दिष्टभावनः ||90||

दृष्टो दृष्टांतदो दृष्टातिगो दृष्टांतवर्जितः |
दिष्टं दिष्टपरिच्छेदहीनो दिष्टनियामकः ||91||

दिष्टास्पृष्टगतिर्दिष्टेड्दिष्टकृद्दिष्टचालकः |
दिष्टदाता दिष्टहंता दुर्दिष्टफलशामकः ||92||

दिष्टव्याप्तजगद्दिष्टशंसको दिष्टयत्नवान् |
दितिप्रियो दितिस्तुत्यो दितिपूज्यो दितीष्टदः ||93||

दितिपाखंडदावो दिग्दिनचर्यापरायणः |
दिगंबरो दिव्यकांतिर्दिव्यगंधोऽपि दिव्यभुक् ||94||

दिव्यभावो दीदिविकृद्दोषहृद्दीप्तलोचनः |
दीर्घजीवी दीर्घदृष्टिर्दीर्घांगो दीर्घबाहुकः ||95||

दीर्घश्रवा दीर्घगतिर्दीर्घवक्षाश्च दीर्घपात् |
दीनसेव्यो दीनबंधुर्दीनपो दीपितांतरः ||96||

दीनोद्धर्ता दीप्तकांतिर्दीप्रक्षुरसमायनः |
दीव्यन् दीक्षितसंपूज्यो दीक्षादो दीक्षितोत्तमः ||97||

दीक्षणीयेष्टिकृद्दीक्षादीक्षाद्वयविचक्षणः |
दीक्षाशी दीक्षितान्नाशी दीक्षाकृद्दीक्षितादरः ||98||

दीक्षितार्थ्यो दीक्षिताशो दीक्षिताभीष्टपूरकः |
दीक्षापटुर्दीक्षितात्मा दीद्यद्दीक्षितगर्वहृत् ||99||

दुष्कर्महा दुष्कृतज्ञो दुष्कृद्दुष्कृतिपावनः |
दुष्कृत्साक्षी दुष्कृतहृत् दुष्कृद्धा दुष्कृदार्तिदः ||100||

दुष्क्रियांतो दुष्करकृद् दुष्क्रियाघनिवारकः |
दुष्कुलत्याजको दुष्कृत्पावनो दुष्कुलांतकः ||101||

दुष्कुलाघहरो दुष्कृद्गतिदो दुष्करक्रियः |
दुष्कलंकविनाशी दुष्कोपो दुष्कंटकार्दनः ||102||

दुष्कारी दुष्करतपा दुःखदो दुःखहेतुकः |
दुःखत्रयहरो दुःखत्रयदो दुःखदुःखदः ||103||

दुःखत्रयार्तिविद् दुःखिपूजितो दुःखशामकः |
दुःखहीनो दुःखहीनभक्तो दुःखविशोधनः ||104||

दुःखकृद् दुःखदमनो दुःखितारिश्च दुःखनुत् |
दुःखातिगो दुःखलहा दुःखेटार्तिनिवारणः ||105||

दुःखेटदृष्टिदोषघ्नो दुःखगारिष्टनाशकः |
दुःखेचरदशार्तिघ्नो दुष्टखेटानुकूल्यकृत् ||106||

दुःखोदर्काच्छादको दुःखोदर्कगतिसूचकः |
दुःखोदर्कार्थसंत्यागी दुःखोदर्कार्थदोषदृक् ||107||

दुर्गा दुर्गार्तिहृद् दुर्गी दुर्गेशो दुर्गसंस्थितः |
दुर्गमो दुर्गमगतिर्दुर्गारामश्च दुर्गभूः ||108||

दुर्गानवकसंपूज्यो दुर्गानवकसंस्तुतः |
दुर्गभिद् दुर्गतिर्दुर्गमार्गगो दुर्गमार्थदः ||109||

दुर्गतिघ्नो दुर्गतिदो दुर्ग्रहो दुर्ग्रहार्तिहृत् |
दुर्ग्रहावेशहृद् दुष्टग्रहनिग्रहकारकः ||110||

दुर्ग्रहोच्चाटको दुष्टग्रहजिद् दुर्गमादरः |
दुर्दृष्टिबाधाशमनो दुर्दृष्टिभयहापकः ||111||

दुर्गुणो दुर्गुणातीतो दुर्गुणातीतवल्लभः |
दुर्गंधनाशो दुर्घातो दुर्घटो दुर्घटक्रियः ||112||

दुश्चर्यो दुश्चरित्रारिर्दुश्चिकित्स्यगदांतकः |
दुश्चित्ताह्लादको दुश्चिच्छास्ता दुश्चेष्टशिक्षकः ||113||

दुश्चिंताशमनो दुश्चिद्दुश्छंदविनिवर्तकः |
दुर्जयो दुर्जरो दुर्जिज्जयी दुर्जेयचित्तजित् ||114||

दुर्जाप्यहर्ता दुर्वार्ताशांतिर्दुर्जातिदोषहृत् |
दुर्जनारिर्दुश्चवनो दुर्जनप्रांतहापकः ||115||

दुर्जनार्तो दुर्जनार्तिहरो दुर्जलदोषहृत् |
दुर्जीवहा दुष्टहंता दुष्टार्तपरिपालकः ||116||

दुष्टविद्रावणो दुष्टमार्गभिद् दुष्टसंगहृत् |
दुर्जीवहत्यासंतोषो दुर्जनाननकीलनः ||117||

दुर्जीववैरहृद् दुष्टोच्चाटको दुस्तरोद्धरः |
दुष्टदंडो दुष्टखंडो दुष्टध्रुग् दुष्टमुंडनः ||118||

दुष्टभावोपशमनो दुष्टविद् दुष्टशोधनः |
दुस्तर्कहृद् दुस्तर्कारिर्दुस्तापपरिशांतिकृत् ||119||

दुर्दैवहृद् दुंदुभिघ्नो दुंदुभ्याघातहर्षकृत् |
दुर्धीहरो दुर्नयहृद्दुःपक्षिध्वनिदोषहृत् ||120||

दुष्प्रयोगोपशमनो दुष्प्रतिग्रहदोषहृत् |
दुर्बलाप्तो दुर्बोधात्मा दुर्बंधच्छिद्दुरत्ययः ||121||

दुर्बाधाहृद् दुर्भयहृद् दुर्भ्रमोपशमात्मकः |
दुर्भिक्षहृद्दुर्यशोहृद् दुरुत्पातोपशामकः ||122||

दुर्मंत्रयंत्रतंत्रच्छिद् दुर्मित्रपरितापनः |
दुर्योगहृद् दुराधर्पो दुराराध्यो दुरासदः ||123||

दुरत्ययस्वमायाब्धि तारको दुरवग्रहः |
दुर्लभो दुर्लभतमो दुरालापाघशामकः ||124||

दुर्नामहृद् दुराचारपावनो दुरपोहनः |
दुराश्रमाघहृद्दुर्गपथलभ्यचिदात्मकः ||125||

दुरध्वपारदो दुर्भुक्पावनो दुरितार्तिहा |
दुराश्लेषाघहर्ता दुर्मैथुनैनोनिबर्हणः ||126||

दुरामयांतो दुर्वैरहर्ता दुर्व्यसनांतकृत् |
दुःसहो दुःशकुनहृद् दुःशीलपरिवर्तनः ||127||

दुःशोकहृद् दुःशऽग्काहृद्दुःसंगभयवारणः |
दुःसहाभो दुःसहदृग्दुःस्वप्नभयनाशनः ||128||

दुःसंगदोषसऽज्जातदुर्मनीषाविशोधनः |
दुःसंगिपापदहनो दुःक्षणाघनिवर्तनः ||129||

दुःक्षेत्रपावनो दुःक्षुद् भयहृद्दुःक्षयार्तिहृत् |
दुःक्षत्रहृच्च दुर्ज्ञेयो दुर्ज्ञानपरिशोधनः ||130||

दूतो दूतेरको दूतप्रियो दूरश्च दूरदृक् |
दूनचित्ताह्लादकश्च दूर्वाभो दूष्यपावनः ||131||

देदीप्यमाननयनो देवो देदीप्यमानभः |
देदीप्यमानरदनो देश्यो देदीप्यमानधीः ||132||

देवेष्टो देवगो देवी देवता देवतार्चितः |
देवमातृप्रियो देवपालको देववर्धकः ||133||

देवमान्यो देववंद्यो देवलोकप्रियंवदः |
देवारिष्टहरो देवाभीष्टदो देवतात्मकः ||134||

देवभक्तप्रियो देवहोता देवकुलादृतः |
देवतंतुर्देवसंपद्देवद्रोहिसुशिक्षकः ||135||

देवात्मको देवमयो देवपूर्वश्च देवभूः |
देवमार्गप्रदो देवशिक्षको देवगर्वहृत् ||136||

देवमार्गांतरायघ्नो देवयज्ञादिधर्मधृक् |
देवपक्षी देवसाक्षी देवदेवेशभास्करः ||137||

देवारातिहरो देवदूतो दैवतदैवतः |
देवभीतिहरो देवगेयो देवहविर्भुजः ||138||

देवश्राव्यो देवदृश्यो देवर्णी देवभोग्यभुक् |
देवीशो देव्यभीष्टार्थो देवीड्यो देव्यभीष्टकृत् ||139||

देवीप्रियो देवकीजो देशिको देशिकार्चितः |
देशिकेड्यो देशिकात्मा देवमातृकदेशपः ||140||

देहकृद्देहधृग्देही देहगो देहभावनः |
देहपो देहदो देहचतुष्टयविहारकृत् ||141||

देहीतिप्रार्थनीयश्च देहबीजनिकृंतनः |
देवनास्पृग्देवनकृद्देहास्पृग्देहभावनः ||142||

देवदत्तो देवदेवो देहातीतोऽपि देहभृत् |
देहदेवालयो देहासंगो देहरथेष्टगः ||143||

देहधर्मा देहकर्मा देहसंबंधपालकः |
देयात्मा देयविद्देशापरिच्छिन्नश्च देशकृत् ||144||

देशपो देशवान् देशी देशज्ञो देशिकागमः |
देशभाषापरिज्ञानी देशभूर्देशपावनः ||145||

देश्यपूज्यो देवकृतोपसर्गनिवर्तकः |
दिविषद्विहितावर्षातिवृष्ट्यादीतिशामकः ||146||

दैवीगायत्रिकाजापी दैवसंपत्तिपालकः |
दैवीसंपत्तिसंपन्नमुक्तिकृद्दैवभावगः ||147||

दैवसंपत्त्यसंपन्नछायास्पृग्दैत्यभावहृत् |
दैवदो दैवफलदो दैवादित्रिक्रियेश्वरः ||148||

दैवानुमोदनो दैन्यहरो दैवज्ञदेवतः |
दैवज्ञो दैववित्पूज्यो दैविको दैन्यकारणः ||149||

दैन्यांजनहृतस्तंभो दोषत्रयशमप्रदः |
दोषहर्ता दैवभिषग्दोषदो दोर्द्वयान्वितः ||150||

दोषज्ञो दोहदाशंसी दोग्धा दोष्यंतितोषितः |
दौरात्म्यदूरो दौरात्म्यहृद्दौरात्म्यार्तिशांतिकृत् ||151||

दौरात्म्यदोषसंहर्ता दौरात्म्यपरिशोधनः |
दौर्मनस्यहरो दौत्यकृद्दौत्योपास्तशक्तिकः ||152||

दौर्भाग्यदोऽपि दौर्भाग्यहृद्दौर्भाग्यार्तिशांतिकृत् |
दौष्ट्यत्रो दौष्कुल्यदोषहृद्दौष्कुल्याधिशामकः ||153||

दंदशूकपरिष्कारो दंदशूककृतायुधः |
दंतिचर्मपरिधानो दंतुरो दंतुरारिहृत् ||154||

दंतुरघ्नो दंडधारी दंडनीतिप्रकाशकः |
दांपत्यार्थप्रदो दंर्पत्यच्यो दंपत्यभीष्टदः ||155||

दंपतिद्वेषशमनो दंपतिप्रीतिवर्धनः |
दंतोलूखलको दंष्ट्री दंत्यास्यो दंतिपूर्वगः ||156||

दंभोलिभृद्दंभहर्ता दंड्यविद्दंशवारणः |
दंद्रम्यमाणशरणो दंत्यश्वरथपत्तिदः ||157||

दंद्रम्यमाणलोकार्तिकरो दंड त्रयाश्रितः |
दंडपाण्यर्चपद्दंडि वासुदेवस्तुतोऽवतु ||158||

इति श्रीमद्दकारादि दत्तनाम सहस्रकं |
पठतां शृण्वतां वापि परानंदपदप्रदं ||159||

||इति श्री परम पूज्य परमहंस परिव्राजकाचार्य
श्री श्री श्री मद्वासुदेवानंद सरस्वती यति वरेण्य
विरचित दकारादि दत्त सहस्रनामस्तोत्रं ||

अर्थ

श्री दत्त सहस्रनाम स्तोत्रं (दकारादि) भगवान श्री दत्तात्रेय को समर्पित एक अत्यंत पवित्र और शक्तिशाली स्तोत्र है। यह 'द' अक्षर से शुरू होने वाले हजारों दिव्य नामों का एक संग्रह है, जिसमें प्रत्येक नाम श्री दत्तात्रेय के अनंत गुणों, महिमा, ज्ञान, योग शक्ति और परब्रह्म स्वरूप का वर्णन करता है। दत्तात्रेय भगवान ब्रह्मा, विष्णु और महेश के संयुक्त अवतार हैं, इसलिए इस स्तोत्र का पाठ करना त्रिदेवों की कृपा एक साथ प्राप्त करने जैसा है।

इस दिव्य स्तोत्र का प्रत्येक नाम दत्तात्रेय की करुणा, ज्ञान और योग क्षमताओं का विस्तार से वर्णन करता है। 'दत्तात्रेयो दयापूर्णो दत्तो दत्तकधर्मकृत्' जैसे नाम उनकी अपार दया और धर्म की स्थापना में उनकी भूमिका को उजागर करते हैं। 'दत्ताभयो दत्तधैर्ये' नाम भक्तों को अभय प्रदान करने और उनमें धैर्य भरने वाले उनके गुण को दर्शाता है। यह स्तोत्र केवल नामों का पाठ नहीं है, बल्कि भगवान के दिव्य गुणों का ध्यान करके, उनके साथ मानसिक और आध्यात्मिक रूप से एकाकार होने का एक मार्ग है।

इस सहस्रनाम स्तोत्र के नियमित पाठ से भक्तों को लौकिक और आध्यात्मिक दोनों स्तरों पर असीम लाभ प्राप्त होते हैं। यह मन को शुद्ध करता है, अज्ञान को दूर करके ज्ञान का प्रकाश प्रदान करता है, और जीवन की चुनौतियों का सामना करने के लिए आंतरिक शक्ति देता है। दत्तात्रेय के दिव्य नामों का पाठ करने से भक्त गुरु कृपा के पात्र बनते हैं और मानसिक शांति तथा भक्ति में स्थिरता प्राप्त करते हैं। यह भक्तों को दुःख, पाप और भय से मुक्त करके मोक्ष के मार्ग पर ले जाता है।

दत्त जयंती, प्रत्येक गुरुवार या किसी भी शुभ दिन पर, और दैनिक प्रार्थना के दौरान इस स्तोत्र का पाठ करना अत्यंत शुभ माना जाता है। भक्तिपूर्वक इन नामों का पाठ करने से, दत्तात्रेय की कृपा से सभी मनोकामनाएं पूरी होती हैं और जीवन में सर्वांगीण विकास संभव होता है। यह आध्यात्मिक उन्नति और परम शांति प्राप्त करने का एक श्रेष्ठ साधन है।

लाभ (Benefits):

  • दुःख और पापों से मुक्ति: इस स्तोत्र का पाठ पिछले कर्मों और पापों से मुक्ति दिलाकर मानसिक दुःख और भय को दूर करता है।
  • आध्यात्मिक ज्ञान और शांति: दत्तात्रेय के नाम स्मरण से आध्यात्मिक चेतना बढ़ती है, आंतरिक शांति और दिव्य ज्ञान प्राप्त होता है।
  • स्वास्थ्य, धन और समृद्धि: दत्तात्रेय की कृपा से परिवार में सुख, उत्तम स्वास्थ्य, धन लाभ और समृद्धि प्राप्त होती है।
  • गुरु दत्त कृपा की प्राप्ति: भक्त गुरु दत्तात्रेय की विशेष कृपा के पात्र बनते हैं, जीवन में सही मार्गदर्शन और सुरक्षा प्राप्त करते हैं।
  • मोक्ष मार्ग का मार्गदर्शन: इस स्तोत्र का निरंतर पाठ भक्तों को लौकिक बंधनों से मुक्त करके, अंतिम मोक्ष की ओर मार्गदर्शन करता है।

अक्सर पूछे जाने वाले प्रश्न

श्री दत्त सहस्रनाम स्तोत्रं क्या है?
यह भगवान श्री दत्तात्रेय को समर्पित हजार दिव्य नामों का स्तोत्र है, जिसमें प्रत्येक नाम 'द' अक्षर से शुरू होता है। यह दत्तात्रेय के अपार गुणों, शक्ति और दया का वर्णन करता है।
इस स्तोत्र का पाठ कब करना चाहिए?
दत्त जयंती, प्रत्येक गुरुवार, या किसी भी शुभ दिन पर तथा दैनिक प्रार्थना में इस स्तोत्र का पाठ करना अत्यंत शुभ होता है।
श्री दत्त सहस्रनाम स्तोत्र के पाठ से क्या लाभ होते हैं?
इस स्तोत्र का पाठ करने से दुःख, पाप, भय और ग्रह दोषों से मुक्ति, आंतरिक शांति, ज्ञान, स्वास्थ्य, धन और गुरु दत्तात्रेय की कृपा प्राप्त होती है।
इस स्तोत्र का पाठ कौन कर सकता है?
भगवान दत्तात्रेय के भक्त, आध्यात्मिक मार्गदर्शन चाहने वाले, या जीवन में शांति और समृद्धि की तलाश करने वाला कोई भी व्यक्ति इसका पाठ कर सकता है।
इस स्तोत्र का पाठ कितनी बार करना चाहिए?
आमतौर पर दिन में एक बार पाठ करना उत्तम होता है। हालांकि, भक्ति की गहराई और समय की उपलब्धता के अनुसार अधिक बार पाठ किया जा सकता है।
श्री दत्त सहस्रनाम स्तोत्र का उद्गम क्या है?
यह स्तोत्र पुराणों और आगम ग्रंथों में उल्लिखित श्री दत्तात्रेय की महिमा का बखान करने वाला एक पवित्र स्तोत्र है।

टिप्पणियाँ

टिप्पणी लिखने के लिए लॉगिन करें

टिप्पणियाँ लोड हो रही हैं...