सौ

सौंदर्यलहरी

संपादन: अद्यतन
स्तोत्र
0 व्यूज़

सौंदर्यलहरी

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पंदितुमपि |
अतस्त्वामाराध्यां हरिहरविरिंचादिभिरपि
प्रणंतुं स्तोतुं वा कथमकृतपुण्यः प्रभवति || 1 ||

तनीयांसं पांसुं तव चरणपंकेरुहभवं
विरिंचिः संचिन्वन्विरचयति लोकानविकलं |
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः संक्षुद्यैनं भजति भसितोद्धूलनविधिं || 2 ||

अविद्यानामंतस्तिमिरमिहिरद्वीपनगरी
जडानां चैतन्यस्तबकमकरंदस्रुतिझरी |
दरिद्राणां चिंतामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती || 3 ||

त्वदन्यः पाणिभ्यामभयवरदो दैवतगण-
-स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया |
भयात्त्रातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ || 4 ||

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् |
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यंतः प्रभवति हि मोहाय महतां || 5 ||

धनुः पौष्पं मौर्वी मधुकरमयी पंच विशिखा
वसंतः सामंतो मलयमरुदायोधनरथः |
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
-मपांगात्ते लब्ध्वा जगदिदमनंगो विजयते || 6 ||

क्वणत्कांचीदामा करिकलभकुंभस्तननता
परिक्षीणा मध्ये परिणतशरच्चंद्रवदना |
धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका || 7 ||

सुधासिंधोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिंतामणिगृहे |
शिवाकारे मंचे परमशिवपर्यंकनिलयां
भजंति त्वां धन्याः कतिचन चिदानंदलहरीं || 8 ||

महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि |
मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे || 9 ||

सुधाधारासारैश्चरणयुगलांतर्विगलितैः
प्रपंचं सिंचंती पुनरपि रसाम्नायमहसः |
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुंडे कुहरिणि || 10 ||

चतुर्भिः श्रीकंठैः शिवयुवतिभिः पंचभिरपि
प्रभिन्नाभिः शंभोर्नवभिरपि मूलप्रकृतिभिः |
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
-त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः || 11 ||

त्वदीयं सौंदर्यं तुहिनगिरिकन्ये तुलयितुं
कवींद्राः कल्पंते कथमपि विरिंचिप्रभृतयः |
यदालोकौत्सुक्यादमरललना यांति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीं || 12 ||

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापांगालोके पतितमनुधावंति शतशः |
गलद्वेणीबंधाः कुचकलशविस्रस्तसिचया
हठात्त्रुट्यत्कांच्यो विगलितदुकूला युवतयः || 13 ||

क्षितौ षट्पंचाशद्द्विसमधिकपंचाशदुदके
हुताशे द्वाषष्टिश्चतुरधिकपंचाशदनिले |
दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादांबुजयुगं || 14 ||

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककरां |
सकृन्न त्वा नत्वा कथमिव सतां संनिदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः || 15 ||

कवींद्राणां चेतःकमलवनबालातपरुचिं
भजंते ये संतः कतिचिदरुणामेव भवतीं |
विरिंचिप्रेयस्यास्तरुणतरशृंगारलहरी-
-गभीराभिर्वाग्भिर्विदधति सतां रंजनममी || 16 ||

सवित्रीभिर्वाचां शशिमणिशिलाभंगरुचिभि-
-र्वशिन्याद्याभिस्त्वां सह जननि संचिंतयति यः |
स कर्ता काव्यानां भवति महतां भंगिरुचिभि-
-र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः || 17 ||

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि-
-र्दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः |
भवंत्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः || 18 ||

मुखं बिंदुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलां |
स सद्यः संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवींदुस्तनयुगां || 19 ||

किरंतीमंगेभ्यः किरणनिकुरुंबामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः |
स सर्पाणां दर्पं शमयति शकुंताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया || 20 ||

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलां |
महापद्माटव्यां मृदितमलमायेन मनसा
महांतः पश्यंतो दधति परमाह्लादलहरीं || 21 ||

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
-मिति स्तोतुं वांछन्कथयति भवानि त्वमिति यः |
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुंदब्रह्मेंद्रस्फुटमकुटनीराजितपदां || 22 ||

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शंभोरपरमपि शंके हृतमभूत् |
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटं || 23 ||

जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति |
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
-स्तवाज्ञामालंब्य क्षणचलितयोर्भ्रूलतिकयोः || 24 ||

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत्पूजा पूजा तव चरणयोर्या विरचिता |
तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः || 25 ||

विरिंचिः पंचत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनं |
वितंद्री माहेंद्री विततिरपि संमीलितदृशा
महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ || 26 ||

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः |
प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितं || 27 ||

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यंते विश्वे विधिशतमखाद्या दिविषदः |
करालं यत्क्ष्वेलं कबलितवतः कालकलना
न शंभोस्तन्मूलं तव जननि ताटंकमहिमा || 28 ||

किरीटं वैरिंचं परिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जंभारिमकुटं |
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते || 29 ||

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः |
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति नीराजनविधिं || 30 ||

चतुःषष्ट्या तंत्रैः सकलमतिसंधाय भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतंत्रैः पशुपतिः |
पुनस्त्वन्निर्बंधादखिलपुरुषार्थैकघटना-
-स्वतंत्रं ते तंत्रं क्षितितलमवातीतरदिदं || 31 ||

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः |
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजंते वर्णास्ते तव जननि नामावयवतां || 32 ||

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
-र्निधायैके नित्ये निरवधिमहाभोगरसिकाः |
भजंति त्वां चिंतामणिगुणनिबद्धाक्षवलयाः
शिवाग्नौ जुह्वंतः सुरभिघृतधाराहुतिशतैः || 33 ||

शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघं |
अतः शेषः शेषीत्ययमुभयसाधारणतया
स्थितः संबंधो वां समरसपरानंदपरयोः || 34 ||

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परं |
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानंदाकारं शिवयुवति भावेन बिभृषे || 35 ||

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शंभुं वंदे परिमिलितपार्श्वं परचिता |
यमाराध्यन्भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने || 36 ||

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसितां |
ययोः कांत्या यांत्याः शशिकिरणसारूप्यसरणे-
-र्विधूतांतर्ध्वांता विलसति चकोरीव जगती || 37 ||

समुन्मीलत्संवित्कमलमकरंदैकरसिकं
भजे हंसद्वंद्वं किमपि महतां मानसचरं |
यदालापादष्टादशगुणितविद्यापरिणति-
-र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव || 38 ||

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयां |
यदालोके लोकांदहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति || 39 ||

तटित्त्वंतं शक्त्या तिमिरपरिपंथिस्फुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेंद्रधनुषं |
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षंतं हरमिहिरतप्तं त्रिभुवनं || 40 ||

तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहातांडवनटं |
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदं || 41 ||

गतैर्माणिक्यत्वं गगनमणिभिः सांद्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः |
स नीडेयच्छायाच्छुरणशबलं चंद्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणां || 42 ||

धुनोतु ध्वांतं नस्तुलितदलितेंदीवरवनं
घनस्निग्धश्लक्ष्णं चिकुरनिकुरुंबं तव शिवे |
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसंत्यस्मिन्मन्ये वलमथनवाटीविटपिनां || 43 ||

तनोतु क्षेमं नस्तव वदनसौंदर्यलहरी-
-परीवाहः स्रोतःसरणिरिव सीमंतसरणिः |
वहंती सिंदूरं प्रबलकबरीभारतिमिर-
-द्विषां बृंदैर्बंदीकृतमिव नवीनार्ककिरणं || 44 ||

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पंकेरुहरुचिं |
दरस्मेरे यस्मिंदशनरुचिकिंजल्करुचिरे
सुगंधौ माद्यंति स्मरदहनचक्षुर्मधुलिहः || 45 ||

ललाटं लावण्यद्युतिविमलमाभाति तव य-
-द्द्वितीयं तन्मन्ये मकुटघटितं चंद्रशकलं |
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः || 46 ||

भ्रुवौ भुग्ने किंचिद्भुवनभयभंगव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणं |
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढांतरमुमे || 47 ||

अहः सूते सव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया |
तृतीया ते दृष्टिर्दरदलितहेमांबुजरुचिः
समाधत्ते संध्यां दिवसनिशयोरंतरचरीं || 48 ||

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुराभोगवतिका |
अवंती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते || 49 ||

कवीनां संदर्भस्तबकमकरंदैकरसिकं
कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलं |
अमुंचंतौ दृष्ट्वा तव नवरसास्वादतरला-
-वसूयासंसर्गादलिकनयनं किंचिदरुणं || 50 ||

शिवे शृंगारार्द्रा तदितरजने कुत्सनपरा
सरोषा गंगायां गिरिशचरिते विस्मयवती |
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा || 51 ||

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले |
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशरविलासं कलयतः || 52 ||

विभक्तत्रैवर्ण्यं व्यतिकरितलीलांजनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते |
पुनः स्रष्टुं देवांद्रुहिणहरिरुद्रानुपरता-
-न्रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव || 53 ||

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः |
नदः शोणो गंगा तपनतनयेति ध्रुवममुं
त्रयाणां तीर्थानामुपनयसि संभेदमनघं || 54 ||

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः संतो धरणिधरराजन्यतनये |
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शंके परिहृतनिमेषास्तव दृशः || 55 ||

तवापर्णे कर्णेजपनयनपैशुन्यचकिता
निलीयंते तोये नियतमनिमेषाः शफरिकाः |
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति || 56 ||

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे |
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः || 57 ||

अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदंडकुतुकं |
तिरश्चीनो यत्र श्रवणपथमुल्लंघ्य विलस-
-न्नपांगव्यासंगो दिशति शरसंधानधिषणां || 58 ||

स्फुरद्गंडाभोगप्रतिफलितताटंकयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथं | [सुख]
यमारुह्य द्रुह्यत्यवनिरथमर्केंदुचरणं
महावीरो मारः प्रमथपतये सज्जितवते || 59 ||

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबंत्याः शर्वाणि श्रवणचुलुकाभ्यामविरलं |
चमत्कारश्लाघाचलितशिरसः कुंडलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते || 60 ||

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितं |
वहत्यंतर्मुक्ताः शिशिरकरनिश्वासगलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः || 61 ||

प्रकृत्या रक्तायास्तव सुदति दंतच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता |
न बिंबं तद्बिंबप्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया || 62 ||

स्मितज्योत्स्नाजालं तव वदनचंद्रस्य पिबतां
चकोराणामासीदतिरसतया चंचुजडिमा |
अतस्ते शीतांशोरमृतलहरीमम्लरुचयः
पिबंति स्वच्छंदं निशि निशि भृशं कांजिकधिया || 63 ||

अविश्रांतं पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा |
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा || 64 ||

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि-
-र्निवृत्तैश्चंडांशत्रिपुरहरनिर्माल्यविमुखैः |
विशाखेंद्रोपेंद्रैः शशिविशदकर्पूरशकला
विलीयंते मातस्तव वदनतांबूलकबलाः || 65 ||

विपंच्या गायंती विविधमपदानं पशुपते-
-स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने |
तदीयैर्माधुर्यैरपलपिततंत्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतं || 66 ||

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया |
करग्राह्यं शंभोर्मुखमुकुरवृंतं गिरिसुते
कथंकारं ब्रूमस्तव चिबुकमौपम्यरहितं || 67 ||

भुजाश्लेषान्नित्यं पुरदमयितुः कंटकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियं |
स्वतः श्वेता कालागुरुबहुलजंबालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका || 68 ||

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः |
विराजंते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते || 69 ||

मृणालीमृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौंदर्यं सरसिजभवः स्तौति वदनैः |
नखेभ्यः संत्रस्यन्प्रथममथनादंधकरिपो-
-श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया || 70 ||

नखानामुद्योतैर्नवनलिनरागं विहसतां
कराणां ते कांतिं कथय कथयामः कथमुमे |
कयाचिद्वा साम्यं भजतु कलया हंत कमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणं || 71 ||

समं देवि स्कंदद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुखं |
यदालोक्याशंकाकुलितहृदयो हासजनकः
स्वकुंभौ हेरंबः परिमृशति हस्तेन झडिति || 72 ||

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न संदेहस्पंदो नगपतिपताके मनसि नः |
पिबंतौ तौ यस्मादविदितवधूसंगरसिकौ
कुमारावद्यापि द्विरदवदनक्रौंचदलनौ || 73 ||

वहत्यंब स्तंबेरमदनुजकुंभप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकां |
कुचाभोगो बिंबाधररुचिभिरंतः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते || 74 ||

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव |
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य-
-त्कवीनां प्रौढानामजनि कमनीयः कवयिता || 75 ||

हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसंगो मनसिजः |
समुत्तस्थौ तस्मादचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति || 76 ||

यदेतत्कालिंदीतनुतरतरंगाकृति शिवे
कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियां |
विमर्दादन्योन्यं कुचकलशयोरंतरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीं || 77 ||

स्थिरो गंगावर्तः स्तनमुकुलरोमावलिलता-
-कलावालं कुंडं कुसुमशरतेजोहुतभुजः |
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते || 78 ||

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव |
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये || 79 ||

कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ
कषंतौ दोर्मूले कनककलशाभौ कलयता |
तव त्रातुं भंगादलमिति वलग्नं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव || 80 ||

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-
-न्नितंबादाच्छिद्य त्वयि हरणरूपेण निदधे |
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितंबप्राग्भारः स्थगयति लघुत्वं नयति च || 81 ||

करींद्राणां शुंडान्कनककदलीकांडपटली-
-मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती |
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञ्ये जानुभ्यां विबुधकरिकुंभद्वयमसि || 82 ||

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषंगौ जंघे ते विषमविशिखो बाढमकृत |
यदग्रे दृश्यंते दशशरफलाः पादयुगली-
-नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः || 83 ||

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ |
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः || 84 ||

नमोवाकं ब्रूमो नयनरमणीयाय पदयो-
-स्तवास्मै द्वंद्वाय स्फुटरुचिरसालक्तकवते |
असूयत्यत्यंतं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकंकेलितरवे || 85 ||

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते |
चिरादंतःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा || 86 ||

हिमानीहंतव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ |
वरं लक्ष्मीपात्रं श्रियमतिसृजंतौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किं || 87 ||

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलां |
कथं वा बाहुभ्यामुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा || 88 ||

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-
-स्तरूणां दिव्यानां हसत इव ते चंडि चरणौ |
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ || 89 ||

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-
-ममंदं सौंदर्यप्रकरमकरंदं विकिरति |
तवास्मिन्मंदारस्तबकसुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणः षट्चरणतां || 90 ||

पदन्यासक्रीडापरिचयमिवारब्धुमनसः
स्खलंतस्ते खेलं भवनकलहंसा न जहति |
अतस्तेषां शिक्षां सुभगमणिमंजीररणित-
-च्छलादाचक्षाणं चरणकमलं चारुचरिते || 91 ||

गतास्ते मंचत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः |
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी शृंगारो रस इव दृशां दोग्धि कुतुकं || 92 ||

अराला केशेषु प्रकृतिसरला मंदहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे |
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्त्रातुं शंभोर्जयति करुणा काचिदरुणा || 93 ||

कलंकः कस्तूरी रजनिकरबिंबं जलमयं
कलाभिः कर्पूरैर्मरकतकरंडं निबिडितं |
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते || 94 ||

पुरारातेरंतःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा |
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपांतस्थितिभिरणिमाद्याभिरमराः || 95 ||

कलत्रं वैधात्रं कतिकति भजंते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः |
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासंगः कुरवकतरोरप्यसुलभः || 96 ||

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयां |
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि || 97 ||

कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलं |
प्रकृत्या मूकानामपि च कविताकारणतया
कदा धत्ते वाणीमुखकमलतांबूलरसतां || 98 ||

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा |
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
परानंदाभिख्यं रसयति रसं त्वद्भजनवान् || 99 ||

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः
सुधासूतेश्चंद्रोपलजललवैरर्घ्यरचना |
स्वकीयैरंभोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियं || 100 ||

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ सौंदर्यलहरी |

अर्थ

सौंदर्यलहरी आदिशंकराचार्य द्वारा रचित देवी की महिमा का गुणगान करने वाला एक अत्यंत श्रेष्ठ स्तोत्र है। इसमें सौ श्लोक हैं जो देवी के दिव्य सौंदर्य, शक्ति और करुणा का वर्णन करते हैं। यह स्तोत्र इस मूलभूत सत्य से आरंभ होता है कि शिव और शक्ति के मिलन के बिना सृष्टि संभव नहीं है। देवी सभी प्राणियों का मूल, पोषणकर्ता और अंतिम आश्रय हैं। इस स्तोत्र का पाठ भक्तों को आध्यात्मिक उत्थान, समृद्धि और मन की शांति प्रदान करता है।

सौंदर्यलहरी केवल देवी के बाहरी सौंदर्य का ही वर्णन नहीं करती, बल्कि उनकी आंतरिक शक्ति और ब्रह्मांड की सृष्टि, स्थिति और संहार में उनकी भूमिका को भी गहराई से समझाती है। यह शिव-शक्ति के एकत्व पर जोर देती है, यह बताते हुए कि शिव शक्ति के बिना कार्य करने में असमर्थ हैं। देवी का प्रत्येक अंग, प्रत्येक अभिव्यक्ति दिव्य शक्ति का प्रतीक है। उनके अस्तित्व से ही लोक उत्पन्न होते हैं, पोषित होते हैं और अंततः उनमें विलीन हो जाते हैं।

यह स्तोत्र वर्णन करता है कि देवी के चरण-रज से ब्रह्मा लोकों का निर्माण करते हैं, विष्णु उनका पालन करते हैं और शिव उनका संहार करते हैं (श्लोक 2)। उनकी करुणा अज्ञानता, दरिद्रता और दुखों में डूबे लोगों के लिए एक बचाव धारा के समान है (श्लोक 3)। भक्तों को वरदान देने की क्षमता केवल उनके चरणों में है; जबकि अन्य देवता अभय देने के लिए दोनों हाथों का उपयोग करते हैं, देवी केवल अपने चरणों से ही सब कुछ प्रदान करती हैं (श्लोक 4)। उनका सौंदर्य भक्तों के मन को आकर्षित करता है और उन्हें मृदु बनाता है (श्लोक 5)। वे समृद्धि, कला और ज्ञान का स्रोत हैं, उनकी आभा अनंत रत्नों से भरे एक द्वीप के समान है (श्लोक 6)। कवि और संगीतकारों की रचनात्मक शक्ति में वे ही निवास करती हैं, उनकी वाणी पूरे जगत को मोहित करती है (श्लोक 7)।

देवी का आंतरिक सौंदर्य शिक्षार्थियों के हृदय को शुद्ध करता है और उन्हें सहज वाक्शक्ति और अंतर्दृष्टि प्रदान करता है (श्लोक 9)। उनके हाथों में अमृत कलश और जपमाला भक्ति, ज्ञान और संरक्षण के प्रतीक हैं, जो साधक को सही मार्ग पर मार्गदर्शन करते हैं (श्लोक 10)। उनकी रचनात्मक गर्भ शक्ति संतान, स्वरूप और शुभता प्रदान करती है (श्लोक 11)। संक्षेप में, सौंदर्यलहरी न केवल देवी के असाधारण सौंदर्य का वर्णन करती है, बल्कि उस सौंदर्य के माध्यम से प्रकट होने वाली आध्यात्मिक महिमा को भी मनोहर ढंग से चित्रित करती है। यह भौतिक और आध्यात्मिक एकता का एक पवित्र ग्रंथ है।

लाभ (Benefits):

  • आध्यात्मिक जागृति: यह स्तोत्र शिव-शक्ति सिद्धांत की गहरी समझ प्रदान करता है और देवी के प्रति भक्ति को बढ़ाता है, जिससे आध्यात्मिक प्रगति संभव होती है।
  • समृद्धि और ऐश्वर्य: देवी धन और समृद्धि की अधिष्ठात्री हैं, और इस स्तोत्र के पाठ से आर्थिक स्थिति में सुधार होता है तथा ऐश्वर्य की प्राप्ति होती है।
  • सुरक्षा और निर्भयता: देवी भक्तों की रक्षक हैं; स्तोत्र पाठ सभी प्रकार के भय, अज्ञानता और दुखों से मुक्ति दिलाता है तथा सुरक्षा प्रदान करता है।
  • ज्ञान और वाक्पटुता: देवी ज्ञान और कला की देवी हैं; यह स्तोत्र छात्रों और कवियों के लिए बुद्धि, स्पष्ट वाक्शक्ति और रचनात्मकता को बढ़ाता है।
  • मानसिक शांति और आंतरिक सौंदर्य: देवी के सौंदर्य का ध्यान करने से मन को शांति मिलती है और आंतरिक सौंदर्य तथा सद्गुणों का विकास होता है।

अक्सर पूछे जाने वाले प्रश्न

सौंदर्यलहरी स्तोत्र क्या है?
सौंदर्यलहरी आदिशंकराचार्य द्वारा रचित 100 श्लोकों का देवी स्तोत्र है। यह देवी के दिव्य सौंदर्य, उनकी शक्ति, करुणा और शिव-शक्ति तत्वों के एकत्व का वर्णन करता है।
सौंदर्यलहरी स्तोत्र का पाठ कब करना चाहिए?
इस स्तोत्र का पाठ प्रतिदिन सुबह स्नान के बाद शुद्ध मन से किया जा सकता है। विशेष रूप से शुक्रवार, पूर्णिमा और नवरात्रि जैसे देवी को समर्पित त्योहारों पर पाठ करना अधिक फलदायी होता है।
सौंदर्यलहरी स्तोत्र पाठ से क्या लाभ मिलते हैं?
इस स्तोत्र के पाठ से आध्यात्मिक जागृति, धन और समृद्धि की प्राप्ति, सुरक्षा, भय से मुक्ति, ज्ञान और वाक्शक्ति में वृद्धि, तथा मानसिक शांति प्राप्त होती है।
कौन सौंदर्यलहरी स्तोत्र का पाठ कर सकता है?
देवी पर श्रद्धा रखने वाला कोई भी व्यक्ति, लिंग या आयु के भेद के बिना इस स्तोत्र का पाठ कर सकता है। विशेष रूप से आध्यात्मिक उन्नति, ज्ञान, धन और मानसिक शांति की इच्छा रखने वालों के लिए यह उत्तम है।
सौंदर्यलहरी स्तोत्र का पाठ कितनी बार करना चाहिए?
प्रतिदिन कम से कम एक बार पूरे स्तोत्र का पाठ करना उत्तम है। विशिष्ट परिणामों के लिए, गुरु के मार्गदर्शन में 11, 21, 108 बार या एक मंडल अवधि (41 दिन) के लिए पाठ किया जा सकता है।
सौंदर्यलहरी स्तोत्र का मूल क्या है?
सौंदर्यलहरी स्तोत्र की रचना 8वीं शताब्दी के महान दार्शनिक और संत आदिशंकराचार्य ने की थी। इसमें अद्वैत वेदांत के सिद्धांतों का समावेश है, जो देवी को परब्रह्म स्वरूपिणी के रूप में महिमामंडित करता है।

टिप्पणियाँ

टिप्पणी लिखने के लिए लॉगिन करें

टिप्पणियाँ लोड हो रही हैं...