द

दया शतकं

संपादन: अद्यतन
स्तोत्रश्री महाविष्णु
0 व्यूज़

दया शतकं

प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकंपया |
इक्षुसारस्रवंत्येव यन्मूर्त्या शर्करायितं || 1 ||

विगाहे तीर्थबहुलां शीतलां गुरुसंततिं |
श्रीनिवासदयांभोधिपरीवाहपरंपरां || 2 ||

कृतिनः कमलावासकारुण्यैकांतिनो भजे |
धत्ते यत्सूक्तिरूपेण त्रिवेदी सर्वयोग्यतां || 3 ||

पराशरमुखान्वंदे भगीरथनये स्थितान् |
कमलाकांतकारुण्यगंगाप्लावितमद्विधान् || 4 ||

अशेषविघ्नशमनमनीकेश्वरमाश्रये |
श्रीमतः करुणांभोधौ शिक्षास्रोत इवोत्थितं || 5 ||

समस्तजननीं वंदे चैतन्यस्तन्यदायिनीं |
श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीं || 6 ||

वंदे वृषगिरीशस्य महिषीं विश्वधारिणीं |
तत्कृपाप्रतिघातानां क्षमया वारणं यया || 7 ||

निशामयतु मां नीळा यद्भोगपटलैर्ध्रुवं |
भावितं श्रीनिवासस्य भक्तदोषेष्वदर्शनं || 8 ||

कमप्यनवधिं वंदे करुणावरुणालयं |
वृषशैलतटस्थानां स्वयं व्यक्तिमुपागतं || 9 ||

अकिंचननिधिं सूतिमपवर्गत्रिवर्गयोः |
अंजनाद्रीश्वरदयामभिष्टौमि निरंजनां || 10 ||

अनुचरशक्त्यादिगुणामग्रेसरबोधविरचितालोकां |
स्वाधीनवृषगिरीशां स्वयं प्रभूतां प्रमाणयामि दयां || 11 ||

अपि निखिललोकसुचरितमुष्टिंधयदुरितमूर्छनाजुष्टं |
संजीवयतु दये मामंजनगिरिनाथरंजनी भवती || 12 ||

भगवति दये भवत्यां वृषगिरिनाथे समाप्लुते तुंगे |
अप्रतिघमज्जनानां हस्तालंबो मदागसां मृग्यः || 13 ||

कृपणजनकल्पलतिकां कृतापराधस्य निष्क्रियामाद्यां |
वृषगिरिनाथदये त्वां विदंति संसारतारिणीं विबुधाः || 14 ||

वृषगिरिगृहमेधिगुणा बोधबलैश्वर्यवीर्यशक्तिमुखाः |
दोषा भवेयुरेते यदि नाम दये त्वया विनाभूताः || 15 ||

आसृष्टि संततानामपराधानां निरोधिनीं जगतः |
पद्मासहायकरुणे प्रतिसंचरकेळिमाचरसि || 16 ||

अचिदविशिष्टान्प्रलये जंतूनवलोक्य जातनिर्वेदा |
करणकलेबरयोगं वितरसि वृषशैलनाथकरुणे त्वं || 17 ||

अनुगुणदशार्पितेन श्रीधरकरुणे समाहितस्नेहा |
शमयसि तमः प्रजानां शास्त्रमयेन स्थिरप्रदीपेन || 18 ||

रुढा वृषाचलपतेः पादे मुखकांतिपत्रलच्छाया |
करुणे सुखयसि विनतांकटाक्षविटपैः करापचेयफलैः || 19 ||

नयने वृषाचलेंदोस्तारामैत्रीं दधानया करुणे |
दृष्टस्त्वयैव जनिमानपवर्गमकृष्टपच्यमनुभवति || 20 ||

समयोपनतैस्तव प्रवाहैरनुकंपे कृतसंप्लवा धरित्री |
शरणागतसस्यमालिनीयं वृषशैलेशकृषीवलं धिनोति || 21 ||

कलशोदधिसंपदो भवत्याः करुणे सन्मतिमंथसंस्कृतायाः |
अमृतांशमवैमि दिव्यदेहं मृतसंजीवनमंजनाचलेंदोः || 22 ||

जलधेरिव शीतता दये त्वं वृषशैलाधिपतेस्स्वभावभूता |
प्रलयारभटींनटीं तदीक्षां प्रसभं ग्राहयसि प्रसक्तिलास्यं || 23 ||

प्रणतप्रतिकूलमूलघाती प्रतिघः कोऽपि वृषाचलेश्वरस्य |
कलमे यवसापचायनीत्या करुणे किंकरतां तवोपयाति || 24 ||

अबहिष्कृतनिग्रहान्विदंतः कमलाकांतगुणान्स्वतंत्रतादीन् |
अविकल्पमनुग्रहं दुहानां भवतीमेव दये भजंति संतः || 25 ||

कमलानिलयस्त्वया दयालुः करुणे निष्करुणा निरूपणे त्वं |
अत एव हि तावकाश्रितानां दुरितानां भवति त्वदेव भीतिः || 26 ||

अतिलंघितशासनेष्वभीक्ष्णं वृषशैलाधिपतिर्विजृंभितोष्मा |
पुनरेव दये क्षमानिदानैर्भवतीमाद्रियते भवत्यधीनैः || 27 ||

करुणे दुरितेषु मामकेषु प्रतिकारांतरदुर्जयेषु खिन्नः |
कवचायितया त्वयैव शार्ंगी विजयस्थानमुपाश्रितो वृषाद्रिं || 28 ||

मयि तिष्ठति दुष्कृतां प्रधाने मितदोषानितरान्विचिन्वती त्वं |
अपराधगणैरपूर्णकुक्षिः कमलाकांतदये कथं भवित्री || 29 ||

अहमस्म्यपराधचक्रवर्ती करुणे त्वं च गुणेषु सार्वभौमी |
विदुषी स्थितिमीदृशीं स्वयं मां वृषशैलेश्वरपादसात्कुरु त्वं || 30 ||

अशिथिलकरणेऽस्मिन्नक्षतश्वासवृत्तौ
वपुषि गमनयोग्ये वासमासादयेयं |
वृषगिरिकटकेषु व्यंजयत्सु प्रतीतै-
र्मधुमथनदये त्वां वारिधाराविशेषैः || 31 ||

अविदितनिजयोगक्षेममात्मानभिज्ञं
गुणलवरहितं मां गोप्तुकामा दये त्वं |
परवति चतुरैस्ते विभ्रमैः श्रीनिवासे
बहुमतिमनपायां विंदसि श्रीधरण्योः || 32 ||

फलवितरणदक्षं पक्षपातानभिज्ञं
प्रगुणमनुविधेयं प्राप्य पद्मासहायं |
महति गुणसमाजे मानपूर्वं दये त्वं
प्रतिवदसि यथार्हं पाप्मनां मामकानां || 33 ||

अनुभवितुमघौघं नालमागामिकालः
प्रशमयितुमशेषं निष्क्रियाभिर्न शक्यं |
स्वयमिति हि दये त्वं स्वीकृतश्रीनिवासा
शिथिलितभवभीतिश्श्रेयसे जायसे नः || 34 ||

अवतरणविशेषैरात्मलीलापदेशै-
रवमतिमनुकंपे मंदचित्तेषु विंदन् |
वृषभशिखरिनाथस्त्वन्निदेशेन नूनं
भजति चरणभाजां भाविनो जन्मभेदान् || 35 ||

परहितमनुकंपे भावयंत्यां भवत्यां
स्थिरमनुपधि हार्दं श्रीनिवासो दधानः |
ललितरुचिषु लक्ष्मीभूमिनीलासु नूनं
प्रथयति बहुमानं त्वत्प्रतिच्छंदबुद्ध्या || 36 ||

वृषगिरिसविधेषु व्याजतो वासभाजां
दुरितकलुषितानां दूयमाना दये त्वं |
करणविलयकाले कांदिशीकस्मृतीनां
स्मरयसि बहुलीलं माधवं सावधाना || 37 ||

दिशि दिशि गतिविद्भिर्देशिकैर्नीयमाना
स्थिरतरमनुकंपे स्त्यानलग्ना गुणैस्त्वं |
परिगतवृषशैलं पारमारोपयंती
भवजलधिगतानां पोतपात्री भवित्री || 38 ||

परिमितफलसंगात्प्राणिनः किंपचाना
निगमविपणिमध्ये नित्यमुक्तानुषक्तं |
प्रसदनमनुकंपे प्राप्तवत्यां भवत्यां
वृषगिरिहरिनीलं व्यंजितं निर्विशंति || 39 ||

त्वयि बहुमतिहीनः श्रीनिवासानुकंपे
जगति गतिमिहान्यां देवि सम्मन्यते यः |
स खलु विबुधसिंधौ सन्निकर्षे वहंत्यां
शमयति मृगतृष्णावीचिकाभिः पिपासां || 40 ||

आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा
काले दृष्ट्वा कमलवसतेरप्यकिंचित्कराणि |
पद्माकांतं प्रणिहितवतीं पालनेऽनन्यसाध्ये
साराभिज्ञा जगति कृतिनस्संश्रयंते दये त्वां || 41 ||

प्राजापत्यप्रभृतिविभवं प्रेक्ष्य पर्यायदुःखं
जन्माकांक्षन् वृषगिरिवने जग्मुषां तस्थुषां वा |
आशासानाः कतिचन विभोः त्वत्परिष्वंगधन्यैः
अंगीकारं क्षणमपि दये हार्दतुंगैरपांगैः || 42 ||

नाभीपद्मस्फुरणसुभगा नव्यनीलोत्पलाभा
क्रीडाशैलं कमपि करुणे वृण्वती वेंकटाख्यं |
शीता नित्यं प्रसदनवती श्रद्धधानावगाह्या
दिव्या काचिज्जयति महती दीर्घिका तावकीना || 43 ||

यस्मिंदृष्टे तदितरसुखैर्गम्यते गोष्पदत्वं
सत्यं ज्ञानं त्रिभिरवधिभिर्मुक्तमानंदसिंधुं |
त्वत्स्वीकारात्तमिह कृतिनस्सूरिबृंदानुभाव्यं
नित्यापूर्वं निधिमिव दये निर्विशंत्यंजनाद्रौ || 44 ||

सारं लब्ध्वा कमपि महतः श्रीनिवासांबुराशेः
काले काले घनरसवती कालिकेवानुकंपे |
व्यक्तोन्मेषा मृगपतिगिरौ विश्वमाप्याययंती
शीलोपज्ञं क्षरति भवती शीतलं सद्गुणौघं || 45 ||

भीमे नित्यं भवजलनिधौ मज्जतां मानवाना-
मालंबार्थं वृषगिरिपतिस्त्वन्निदेशात्प्रयुंक्ते |
प्रज्ञासारं प्रकृतिमहता मूलभागेन जुष्टं
शाखाभेदैस्सुभगमनघं शाश्वतं शास्त्रपाणिं || 46 ||

विद्वत्सेवाकतकनिकषैर्वीतपंकाशयानां
पद्माकांतः प्रणयति दये दर्पणं ते स्वशास्त्रं |
लीलादक्षां त्वदनवसरे लालयन्विप्रलिप्सां
मायाशास्त्राण्यपि शमयितुं त्वत्प्रपन्नप्रतीपान् || 47 || [दमयितुं]

दैवात्प्राप्ते वृषगिरितटं देहिनि त्वन्निदाना-
त्स्वामिन्पाहीत्यवशवचने विंदति स्वापमंत्यं |
देवः श्रीमान् दिशति करुणे दृष्टिमिच्छंस्त्वदीया-
मुद्घातेन श्रुतिपरिषदामुत्तरेणाभिमुख्यं || 48 ||

श्रेयस्सूतिं सकृदपि दये सम्मतां यस्सखीं ते
शीतोदारामलभत जनः श्रीनिवासस्य दृष्टिं |
देवादीनामयमनृणतां देहवत्त्वेऽपि विंद-
न्बंधान्मुक्तो बलिभिरनघैः पूर्यते तत्प्रयुक्तैः || 49 ||

दिव्यापांगं दिशसि करुणे येषु सद्देशिकात्मा
क्षिप्रं प्राप्ता वृषगिरिपतिं क्षत्रबंध्वादयस्ते |
विश्वाचार्या विधिशिवमुखास्स्वाधिकारोपरुद्धा
मन्ये माता जड इव सुते वत्सला मादृशे त्वं || 50 ||

अतिकृपणोऽपि जंतुरधिगम्य दये भवती-
मशिथिलधर्मसेतुपदवीं रुचिरामचिरात् |
अमितमहोर्मिजालमतिलंघ्य भवांबुनिधिं
भवति वृषाचलेशपदपत्तननित्यधनी || 51 ||

अभिमुखभावसंपदभिसंभविनां भविनां
क्वचिदुपलक्षिता क्वचिदभंगुरगूढगतिः |
विमलरसावहा वृषगिरीशदये भवती
सपदि सरस्वतीव शमयत्यघमप्रतिघं || 52 ||

अपि करुणे जनस्य तरुणेंदुविभूषणता-
मपि कमलासनत्वमपि धाम वृषाद्रिपतेः |
तरतमतावशेन तनुते ननु ते विततिः
परहितवर्ष्मणा परिपचेलिमकेलिमती || 53 ||

धृतभुवना दये त्रिविधगत्यनुकूलतरा
वृषगिरिनाथपादपरिरंभवती भवती |
अविदितवैभवाऽपि सुरसिंधुरिवातनुते
सकृदवगाहमानमपतापमपापमपि || 54 ||

निगमसमाश्रिता निखिललोकसमृद्धिकरी
भजदघकूलमुद्वहगतिः परितप्तहिता |
प्रकटितहंसमत्स्यकमठाद्यवतारशता
विबुधसरिच्छ्रियं वृषगिरीशदये वहसि || 55 ||

जगति मितंपचा त्वदितरा तु दये तरला
फलनियमोज्झिता भवति संतपनाय पुनः |
त्वमिह निरंकुशप्रशकनादिविभूतिमती
वितरसि देहिनां निरवधिं वृषशैलनिधिं || 56 ||

सकरुणलौकिकप्रभुपरिग्रहनिग्रहयो-
र्नियतिमुपाधिचक्रपरिवृत्तिपरंपरया |
वृषभमहीधरेशकरुणे वितरंगयतां
श्रुतिमितसंपदि त्वयि कथं भविता विशयः || 57 ||

वृषगिरिकृष्णमेघजनितां जनितापहरां
त्वदभिमतिं सुवृष्टिमुपजीव्य निवृत्ततृषः |
बहुषु जलाशयेषु बहुमानमपोह्य दये
न जहति सत्पथं जगति चातकवत्कृतिनः || 58 ||

त्वदुदयतूलिकाभिरमुना वृषशैलजुषा
स्थिरतरशिल्पिनैव परिकल्पितचित्रधियः |
यतिपतियामुनप्रभृतयः प्रथयंति दये
जगति हितं न नस्त्वयि भरन्यसनादधिकं || 59 ||

मृदुहृदये दये मृदितकामहिते महिते
धृतविबुधे बुधेषु विततात्मधुरे मधुरे |
वृषगिरिसार्वभौमदयिते मयि ते महतीं
भवुकनिधे निधेहि भवमूलहरां लहरीं || 60 ||

अकूपारैरेकोदकसमयवैतंडिकजवै-
रनिर्वाप्यां क्षिप्रं क्षपयितुमविद्याख्यबडबां |
कृपे त्वं तत्तादृक्प्रथिमवृषपृथ्वीधरपति-
स्वरूपद्वैगुण्यद्विगुणनिजबिंदुः प्रभवसि || 61 ||

विवित्सावेतालीविगमपरिशुद्धेऽपि हृदये
पटुप्रत्याहारप्रभृतिपुटपाकप्रचकिताः |
नमंतस्त्वां नारायणशिखरिकूटस्थकरुणे
निरुद्धत्वद्द्रोहा नृपतिसुतनीतिं न जहति || 62 ||

अनन्याधीनस्सन्भवति परतंत्रः प्रणमतां
कृपे सर्वद्रष्टा न गणयति तेषामपकृतिं |
पतिस्त्वत्पारार्थ्यं प्रथयति वृषक्ष्माधरपति-
र्व्यवस्थां वैयात्यादिति विघटयंती विहरसि || 63 ||

अपां पत्युश्शत्रूनसहनमुनेर्धर्मनिगलं
कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनं |
विलीनस्वातंत्र्यो वृषगिरिपतिस्त्वद्विहृतिभि-
र्दिशत्येवं देवो जनितसुगतिं दंडनगतिं || 64 ||

निषादानां नेता कपिकुलपतिः कापि शबरी
कुचेलः कुब्जा सा व्रजयुवतयो माल्यकृदिति |
अमीषां निम्नत्वं वृषगिरिपतेरुन्नतिमपि
प्रभूतैस्स्रोतोभिः प्रसभमनुकंपे शमयसि || 65 ||

त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निजपदे
वहन्मूर्तीरष्टौ विहरति मृडानीपरिबृढः |
बिभर्ति स्वाराज्यं वृषशिखरिशृंगारिकरुणे
शुनासीरो देवासुरसमरनासीरसुभटः || 66 ||

दये दुग्धोदन्वद्व्यतियुतसुधासिंधुनयत-
स्त्वदाश्लेषान्नित्यं जनितमृतसंजीवनदशाः |
स्वदंते दांतेभ्यश्श्रुतिवदनकर्पूरगुलिका
विवृण्वंतश्चित्तं वृषशिखरिविश्वंभरगुणाः || 67 ||

जगज्जन्मस्थेमप्रलयरचनाकेलिरसिको
विमुक्त्यैकद्वारं विघटितकवाटं प्रणयिनां |
इति त्वय्यायत्तं द्वितयमुपधीकृत्य करुणे
विशुद्धानां वाचां वृषशिखरिनाथस्स्तुतिपदं || 68 ||

कलिक्षोभोन्मीलत्क्षितिकलुषकूलंकषजवै-
रनुच्छेदै रेतैरवटतटवैषम्यरहितैः |
प्रवाहैस्ते पद्मासहचरपरिष्कारिणि कृपे
विकल्पंतेऽनल्पा वृषशिखरिणो निर्झरगुणाः || 69 ||

खिलं चेतोवृत्तेः किमिदमिति विस्मेरभुवनं
कृपे सिंहक्ष्माभृत्कृतमुखचमत्कारकरणं |
भरन्यासच्छन्नप्रबलवृजिनप्राभृतभृतां
प्रतिप्रस्थानं ते श्रुतिनगरशृंगाटकजुषः || 70 ||

त्रिविधचिदचित्सत्तास्थेमप्रवृत्तिनियामिका
वृषगिरिविभोरिच्छा सा त्वं परैरपराहता |
कृपणभरभृत्किंकुर्वाणप्रभूतगुणांतरा
वहसि करुणे वैचक्षण्यं मदीक्षणसाहसे || 71 ||

वृषगिरिपतेर्हृद्या विश्वावतारसहायिनी
क्षपितनिखिलावद्या देवि क्षमादिनिषेविता |
भुवनजननी पुंसां भोगापवर्गविधायिनी
वितमसि पदे व्यक्तिं नित्यां बिभर्षि दये स्वयं || 72 ||

स्वयमुदयिनस्सिद्धाद्याविष्कृताश्च शुभालया
विविधविभवव्यूहावासाः परं च पदं विभोः |
वृषगिरिमुखेष्वेतेष्विच्छावधि प्रतिलब्धये
दृढविनिहिता निश्रेणिस्त्वं दये निजपर्वभिः || 73 ||

हितमिति जगद्दृष्ट्या क्लुप्तैरक्लुप्तफलांतरै-
रमतिविहितैरन्यैर्धर्मायितैश्च यदृच्छया |
परिणतबहुच्छद्मा पद्मासहायदये स्वयं
प्रदिशसि निजाभिप्रेतं नः प्रशाम्यदपत्रपा || 74 ||

अतिविधिशिवैरैश्वर्यात्मानुभूतिरसैर्जना-
नहृदयमिहोपच्छंद्यैषामसंगदशार्थिनी |
तृषितजनतातीर्थस्नानक्रमक्षपितैनसां
वितरसि दये वीतातंका वृषाद्रिपतेः पदं || 75 ||

वृषगिरिसुधासिंधौ जंतुर्दये निहितस्त्वया
भवभयपरीतापच्छित्त्यै भजन्नघमर्षणं |
मुषितकलुषो मुक्तेरग्रेसरैरभिपूर्यते
स्वयमुपनतैस्स्वात्मानंदप्रभृत्यनुबंधिभिः || 76 ||

अनितरजुषामंतर्मूलेऽप्यपायपरिप्लवे
कृतविदनघा विच्छिद्यैषां कृपे यमवश्यतां |
प्रपदनफलप्रत्यादेशप्रसंगविवर्जितं
प्रतिविधिमुपाधत्से सार्धं वृषाद्रिहितैषिणा || 77 ||

क्षणविलयिनां शास्त्रार्थानां फलाय निवेशिते
पितृसुरगणे निर्वेशात्प्रागपि प्रलयं गते |
अधिगतवृषक्ष्माभृन्नाथामकालवशंवदां
प्रतिभुवमिह व्याचख्युस्त्वां कृपे निरुपप्लवां || 78 ||

त्वदुपसदनादद्य श्वो वा महाप्रलयेऽपि वा
वितरति निजं पादांभोजं वृषाचलशेखरः |
तदिह करुणे तत्तत्क्रीडातरंगपरंपरा-
तरतमतया जुष्टायास्ते दुरत्ययतां विदुः || 79 ||

प्रणिहितधियां त्वत्संपृक्ते वृषाद्रिशिखामणौ
प्रसृमरसुधाधाराकारा प्रसीदति भावना |
दृढमिति दये दत्तास्वादं विमुक्तिवलाहकं
निभृतगरुतो निध्यायंति स्थिराशयचातकाः || 80 ||

कृपे विगतवेलया कृतसमग्रपोषैस्त्वया
कलिज्वलनदुर्गते जगति कालमेघायितं |
वृषक्षितिधरादिषु स्थितिपदेषु सानुप्लवै-
र्वृषाद्रिपतिविग्रहैर्व्यपगताखिलावग्रहैः || 81 ||

प्रसूय विविधं जगत्तदभिवृद्धये त्वं दये
समीक्षणविचिंतनप्रभृतिभिस्स्वयं तादृशैः |
विचित्रगुणचित्रितां विविधदोषवैदेशिकीं
वृषाचलपतेस्तनुं विशसि मत्स्यकूर्मादिकां || 82 ||

युगांतसमयोचितं भजति योगनिद्रारसं
वृषक्षितिभृदीश्वरे विहरणक्रमाज्जाग्रति |
उदीर्णचतुरर्णवीकदनवेदिनीं मेदिनीं
समुद्धृतवती दये त्वदभिजुष्टया दंष्ट्रया || 83 ||

सटापटलभीषणे सरभसाट्टहासोद्भटे
स्फुरत्क्रुधि परिस्फुटभ्रुकुटिकेऽपि वक्त्रे कृते |
दये वृषगिरीशितुर्दनुजडिंभदत्तस्तना
सरोजसदृशा दृशा समुदिताकृतिर्दृश्यसे || 84 ||

प्रसक्तमधुना विधिप्रणिहितैस्सपर्योदकै-
स्समस्तदुरितच्छिदा निगमगंधिना त्वं दये |
अशेषमविशेषतस्त्रिजगदंजनाद्रीशितु-
श्चराचरमचीकरश्चरणपंकजेनांकितं || 85 ||

परश्वथतपोधनप्रथनसत्कृतूपाकृत-
क्षितीश्वरपशुक्षरत्क्षतजकुंकुमस्थासकैः |
वृषाचलदयालुना ननु विहर्तुमालिप्यथाः
निधाय हृदये दये निहतरक्षितानां हितं || 86 ||

कृपे कृतजगद्धिते कृपणजंतुचिंतामणे
रमासहचरं तदा रघुधुरीणयंत्या त्वया |
व्यभज्यत सरित्पतिस्सकृदवेक्षणात्तत्क्षणा-
त्प्रकृष्टबहुपातकप्रशमहेतुना सेतुना || 87 ||

कृपे परवतस्त्वया वृषगिरीशितुः क्रीडितं
जगद्धितमशेषतस्तदिदमित्थमर्थाप्यते |
मदच्छलपरिच्युतप्रणतदुष्कृतप्रेक्षितै-
र्हतप्रबलदानवैर्हलधरस्य हेलाशतैः || 88 ||

प्रभूतविबुधद्विषद्भरणखिन्नविश्वंभरा-
भरापनयनच्छलात्त्वमवतार्य लक्ष्मीधरं |
निराकृतवती दये निगमसौधदीपश्रिया
विपश्चिदविगीतया जगति गीतयाऽंधं तमः || 89 ||

वृषाद्रिहयसादिनः प्रबलदोर्मरुत्प्रेंखित-
स्त्विषा स्फुटतटिद्गुणस्त्वदवसेकसंस्कारवान् |
करिष्यति दये कलिप्रबलघर्मनिर्मूलनं
पुनः कृतयुगांकुरं भुवि कृपाणधाराधरः || 90 ||

विश्वोपकारमिति नाम सदा दुहाना-
मद्यापि देवि भवतीमवधीरयंतं |
नाथे निवेशय वृषाद्रिपतौ दये त्वं
न्यस्तस्वरक्षणभरं त्वयि मां त्वयैव || 91 ||

नैसर्गिकेण तरसा करुणे नियुक्ता
निम्नेतरेऽपि मयि ते विततिर्यदि स्यात् |
विस्मापयेद्वृषगिरीश्वरमप्यवार्या
वेलातिलंघनदशेव महांबुराशेः || 92 ||

विज्ञातशासनगतिर्विपरीतवृत्त्या
वृत्रादिभिः परिचितां पदवीं भजामि |
एवं विधे वृषगिरीशदये मयि त्वं
दीने विभोश्शमय दंडधरत्वलीलां || 93 ||

मासाहसोक्तिघनकंचुकवंचितान्यः
पश्यत्सु तेषु विदधाम्यतिसाहसानि |
पद्मासहायकरुणे न रुणत्सि किं त्वं
घोरं कुलिंगशकुनेरिव चेष्टितं मे || 94 ||

विक्षेपमर्हसि दये विपलायितेऽपि
व्याजं विभाव्य वृषशैलपतेर्विहारं |
स्वाधीनसत्वसरणिस्स्वयमत्र जंतौ
द्राघीयसी दृढतरा गुणवागुरा त्वं || 95 ||

संतन्यमानमपराधगणं विचिंत्य
त्रस्यामि हंत भवतीं च विभावयामि |
अह्नाय मे वृषगिरीशदये जहीमा-
माशीविषग्रहणकेलिनिभामवस्थां || 96 ||

औत्सुक्यपूर्वमुपहृत्य महापराधा-
न्मातः प्रसादयितुमिच्छति मे मनस्त्वां |
आलिह्य तान्निरवशेषमलब्धतृप्ति-
स्ताम्यस्यहो वृषगिरीशधृता दये त्वं || 97 ||

जह्याद्वृषाचलपतिः प्रतिघेऽपि न त्वां
घर्मोपतप्त इव शीतलतामुदन्वान् |
सा मामरुंतुदभरन्यसनानुवृत्ति-
स्तद्वीक्षणैः स्पृश दये तव केलिपद्मैः || 98 ||

दृष्टेऽपि दुर्बलधियं दमनेऽपि दृप्तं
स्नात्वाऽपि धूलिरसिकं भजनेऽपि भीमं |
बद्ध्वा गृहाण वृषशैलपतेर्दये मां
त्वद्वारणं स्वयमनुग्रहशृंखलाभिः || 99 ||

नातः परं किमपि मे त्वयि नाथनीयं
मातर्दये मयि कुरुष्व तथा प्रसादं |
बद्धादरो वृषगिरिप्रणयी यथाऽसौ
मुक्तानुभूतिमिह दास्यति मे मुकुंदः || 100 ||

निस्सीमवैभवजुषां मिषतां गुणानां
स्तोतुर्दये वृषगिरीशगुणेश्वरीं त्वां |
तैरेव नूनमवशैरभिनंदितं मे
सत्यापितं तव बलादकुतोभयत्वं || 101 ||

अद्यापि तद्वृषगिरीशदये भवत्या-
मारंभमात्रमनिदं प्रथमस्तुतीनां |
संदर्शितस्वपरनिर्वहणा सहेथाः
मंदस्य साहसमिदं त्वयि वंदिनो मे || 102 ||

प्रायो दये त्वदनुभावमहांबुराशौ
प्राचेतसप्रभृतयोऽपि परं तटस्थाः |
तत्रावतीर्णमतलस्पृशमाप्लुतं मां
पद्मापतेः प्रहसनोचितमाद्रियेथाः || 103 ||

वेदांतदेशिकपदे विनिवेश्य बालं
देवो दयाशतकमेतदवादयन्मां |
वैहारिकेण विधिना समये गृहीतं
वीणाविशेषमिव वेंकटशैलनाथः || 104 ||

अनवधिमधिकृत्य श्रीनिवासानुकंपा-
मवितथविषयत्वाद्विश्वमव्रीळयंती |
विविधकुशलनीवी वेंकटेशप्रसूता
स्तुतिरियमनवद्या शोभते सत्वभाजां || 105 ||

शतकमिदमुदारं सम्यगभ्यस्यमानान्
वृषगिरिमधिरुह्य व्यक्तमालोकयंती |
अनितरशरणानामाधिराज्येऽभिषिंचे-
च्छमितविमतपक्षा शार्ंगधन्वानुकंपा || 106 ||

विश्वानुग्रहमातरं व्यतिषजत्स्वर्गापवर्गां सुधा-
सध्रीचीमिव वेंकटेश्वरकविर्भक्त्या दयामस्तुत |
पद्मानामिह यद्विधेयभगवत्संकल्पकल्पद्रुमा-
ज्जंझामारुतधूतचूतनयतस्सांपातिकोऽयं क्रमः || 107 ||

कामं संतु मिथः करंबितगुणावद्यानि पद्यानि नः
कस्यास्मिन् शतके सदंबुकतके दोषश्रुतिं क्षाम्यति |
निष्प्रत्यूहवृषाद्रिनिर्झरझरत्कारच्छलेनोच्चल-
द्दीनालंबनदिव्यदंपतिदयाकल्लोलकोलाहलः || 108 ||

इति श्रीकवितार्किकसिंहस्य सर्वतंत्रस्वतंत्रस्य श्रीमद्वेंकटनाथस्य वेदांताचार्यस्य कृतिषु दयाशतकं |

अर्थ

कवितार्किक सिंह (वेदांताचार्यकृति) श्री वेंकटनाथ द्वारा रचित 'दया शतकं' भगवान वेंकटेश्वर (वृषशैलानाथ) की असीम करुणा का एक भव्य स्तोत्र है। यह स्तोत्र भगवान की boundless compassion को मानवता के लिए प्राथमिक आश्रय के रूप में महिमामंडित करता है। यह 100 श्लोकों का एक संग्रह है, जो श्रीनिवास की दया को एक शाश्वत नदी के रूप में प्रस्तुत करता है - जो भक्तों का उत्थान करती है, कमजोरों की रक्षा करती है, पापों और afflictions को दूर करती है, और लौकिक व आध्यात्मिक कल्याण प्रदान करती है।

श्लोक के प्रारंभ में ही, कवि भगवान की निरंतर अनुकंपा को गिरि नाम के अर्थ के साथ जोड़ते हुए, गंगा की स्थिति के समान दिव्य दया के प्रवाह के रूप में दिखाते हैं। यह स्तोत्र भगवान वेंकटेश्वर को कमल-नाभि वाले, अनंत पर शयन करने वाले, और पर्वत के संप्रभु के रूप में चित्रित करता है, जिनकी कृपा दुख को मुक्ति में बदल देती है। वृषशैल, पताकपालकेश्वर, और कमलानाथ जैसे विशिष्ट लक्षणों के साथ, उनकी करुणावधाराल स्वभाव और भक्तों के प्रति प्रेम को विस्तृत रूप से वर्णित किया गया है।

पूरे शतक में, कवि अनेक छवियों और घटनाओं का वर्णन करते हैं - बच्चों की रक्षा, बीमारियों और ग्रहों के afflictions से राहत, मृत्यु के समय बचाव, संतान और समृद्धि का दान, और भक्तों का आध्यात्मिक ज्ञान। यह स्तोत्र स्पष्ट करता है कि कैसे भगवान वेंकटेश्वर की दया के माध्यम से जनार्दन, पुण्यकलशप्रकार जीवन सौभाग्य, रक्षा, पाप-निवृत्ति और संकटों में सहायता प्रदान की जाती है। श्लोकों में वृषशैलेश के पाद-रक्ष, शरणागति की विजय, और भक्तों के जीवन में आने वाले मृत्यु-भय, व्याधि, जीवन-यात्रा की बाधाओं, जन्म-जरा-भय जैसी समस्याओं के लिए दयामृत कैसे राहत देता है, इसका वर्णन है।

कवितार्किक सिंह विशेष रूप से जोर देते हैं कि वृषशैल की दया का प्रवाह बहुजन विपत्तियों को दूर कर सकता है, और जो लोग इस दया का आश्रय लेते हैं, उन्हें भौतिक, आध्यात्मिक और सामाजिक अनुकूलताएँ प्राप्त होती हैं। स्तोत्र यह भी बताता है कि भक्ति, सेवा और शरणागति के माध्यम से यह दया कैसे प्रवाहित होती है, और इसे अनेक उदाहरणों (धारित्री, तुंग, पद्मासहायम, मृत्युशांति आदि) से स्पष्ट किया गया है। यह स्तोत्र भगवान की प्रशंसा के साथ-साथ वेंकटाचल की दया में शरण लेने के लिए एक व्यावहारिक प्रोत्साहन भी है।

लाभ (Benefits):

  • नित्य रक्षा और भय निवारण: संकट के समय त्वरित आश्रय और सभी प्रकार के भय तथा आपदाओं से मुक्ति मिलती है।
  • स्वास्थ्य और दीर्घायु: गंभीर बीमारियों से राहत, आयु में वृद्धि और उत्तम स्वास्थ्य की प्राप्ति होती है।
  • परिवार कल्याण और संतान सुख: परिवार की सुरक्षा, संतान प्राप्ति और घर में शांति व समृद्धि बनी रहती है।
  • पाप क्षय: जाने-अनजाने में किए गए सभी पापों का नाश होता है।
  • आध्यात्मिक प्रगति और मोक्ष: भक्ति में गहराई आती है, मानसिक शांति मिलती है और अंततः मोक्ष की ओर प्रगति होती है।

अक्सर पूछे जाने वाले प्रश्न

दया शतकं क्या है?
दया शतकं श्री वेदांत देशिक द्वारा रचित सौ श्लोकों का एक स्तोत्र है, जो तिरुपति के भगवान वेंकटेश्वर (वृषशैलानाथ) की असीम करुणा और दया का गुणगान करता है। यह भगवान की दया के आश्रय लेने वाले भक्तों को मिलने वाले लाभों का वर्णन करता है।
दया शतकं का पाठ कब करना चाहिए?
इस स्तोत्र का पाठ किसी भी समय किया जा सकता है, विशेष रूप से संकट के समय, चिंता में होने पर या मानसिक शांति के लिए इसका पाठ करना अत्यंत लाभकारी होता है। प्रतिदिन सुबह स्नान के बाद पाठ करना उत्तम माना जाता है।
दया शतकं के पाठ से क्या लाभ होते हैं?
दया शतकं के पाठ से नित्य रक्षा, भय निवारण, उत्तम स्वास्थ्य, दीर्घायु, परिवार कल्याण, संतान सुख, पापों का क्षय और आध्यात्मिक प्रगति प्राप्त होती है। यह मानसिक शांति और स्थिरता भी प्रदान करता है।
दया शतकं का पाठ कौन कर सकता है?
भगवान वेंकटेश्वर में श्रद्धा और भक्ति रखने वाला कोई भी व्यक्ति दया शतकं का पाठ कर सकता है। इसके लिए कोई विशेष लिंग, आयु या जाति का प्रतिबंध नहीं है।
दया शतकं का पाठ कितनी बार करना चाहिए?
प्रतिदिन एक बार या अपनी इच्छा और समय के अनुसार कई बार पाठ कर सकते हैं। विशेष फल प्राप्त करने के लिए 11, 21, 51 या 101 बार पाठ करने की भी परंपरा है।
दया शतकं की उत्पत्ति कहाँ से हुई है?
दया शतकं की रचना 13वीं शताब्दी के महान दार्शनिक और कवि, जिन्हें कवितार्किक सिंह की उपाधि से सम्मानित किया गया था, श्री वेदांत देशिक ने की थी। यह वैष्णव परंपरा के महत्वपूर्ण स्तोत्रों में से एक है।

टिप्पणियाँ

टिप्पणी लिखने के लिए लॉगिन करें

टिप्पणियाँ लोड हो रही हैं...