अ

अपामार्जन स्तोत्रं

संपादन: अद्यतन
स्तोत्रश्री महाविष्णु
0 व्यूज़

अपामार्जन स्तोत्रं

श्रीदाल्भ्य उवाच |
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः |
दुष्टग्रहाभिघातैश्च सर्वकालमुपद्रुताः || 1 ||

आभिचारिककृत्याभिः स्पर्शरोगैश्च दारुणैः |
सदा संपीड्यमानास्तु तिष्ठंति मुनिसत्तम || 2 ||

केन कर्मविपाकेन विषरोगाद्युपद्रवाः |
न भवंति नृणां तन्मे यथावद्वक्तुमर्हसि || 3 ||

श्री पुलस्त्य उवाच |
व्रतोपवासैर्यैर्विष्णुः नान्यजन्मनि तोषितः,
ते नरा मुनिशार्दूल विषरोगादिभागिनः। || 4 || [*ग्रह*]

यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतं |
विषग्रहज्वराणां ते मनुष्या दाल्भ्य भागिनः || 5 ||

आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति |
तत्तदाप्नोत्यसंदिग्धं परत्राच्युततोषकृत् || 6 ||

नाधीन् प्राप्नोति न व्याधीन्न विषग्रहबंधनं |
कृत्या स्पर्शभयं वाऽपि तोषिते मधुसूदने || 7 ||

सर्वदुःखशमस्तस्य सौम्यास्तस्य सदा ग्रहाः |
देवानामप्रधृष्योऽसौ तुष्टो यस्य जनार्दनः || 8 ||

यः समः सर्वभूतेषु यथाऽऽत्मनि तथा परे |
उपवासादि दानेन तोषिते मधुसूदने || 9 ||

तोषितास्तत्र जायंते नराः पूर्णमनोरथाः |
अरोगाः सुखिनो भोगान्भोक्तारो मुनिसत्तम || 10 ||

न तेषां शत्रवो नैव स्पर्शरोगाभिचारिकाः |
ग्रहरोगादिकं वाऽपि पापकार्यं न जायते || 11 ||

अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि च |
रक्षंति सकलापद्भ्यो येन विष्णुरुपासितः || 12 ||

श्री दाल्भ्य उवाच |
अनाराधितगोविंदा ये नरा दुःखभागिनः |
तेषां दुःखाभितप्तानां यत्कर्तव्यं दयाळुभिः || 13 ||

पश्यद्भिः सर्वभूतस्थं वासुदेवं महामुने |
समदृष्टिभिरीशेशं तन्मह्यं ब्रूह्यशेषतः || 14 ||

श्रीपुलस्त्य उवाच |
श्रोतु कामोसि वै दाल्भ्य शृणुष्व सुसमाहितः |
अपामार्जनकं वक्ष्ये न्यासपूर्वमिदं परं || 15 ||

[* प्रयोग विधि –
गृहीत्वा तु समूलाग्रान्कुशान् शुद्धानुपस्कृतान् |
मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्भ्य शांतिकृत् || 16 ||
शरीरे यस्य तिष्ठंति कुशाग्रजलबिंदवः |
नश्यंति सर्वपापानि गरुडेनेव पन्नगाः || 17 ||
कुशमूले स्थितो ब्रह्मा कुश मध्ये जनार्दनः |
कुशाग्रे शंकरं विद्यात्त्रयोदेवा व्यवस्थिताः || 18 ||
विष्णुभक्तो विशेषेण शुचिस्तद्गतमानसः |
रोगग्रहविषार्तानां कुर्याच्छांतिमिमां शुभां || 19 ||
शुभेहनि शुचिर्भूत्वा साधकस्यानुकूलतः |
नक्षत्रे च विपज्जन्मवधप्रत्यग्विवर्जिते || 20 ||
वारेऽर्कभौमयोर्मंत्री शुचौदेशे द्विजोत्तमः |
गोचर्ममात्रं भूदेशं गोमयेनोपलिप्य च || 21 ||
तत्र भारद्वयव्रीहींस्तदर्धं वा तदर्धकं |
निक्षिप्यस्तंडिलं कृत्वा लिखेत्पद्मं चतुर्दळं || 22 ||
सौवर्णं राजतं ताम्रं मृन्मयं वा नवं दृढं |
अव्रणं कलशं शुद्धं स्थापयेत्तंडुलोपरि || 23 ||
तत्रोदकं समानीय शुद्धं निर्मलमेव च |
एकं शतं कुशान् साग्रान् स्थापयेत्कलशोपरि || 24 ||
कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः |
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः || 25 ||
कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुंधराः |
शेषास्तु देवतास्सर्वाः कलशं तु समाश्रिताः || 26 ||
घटं पुमां संजानीयात्तोयपूर्णं तु विन्यसेत् |
रत्नं च विन्यसेद्धीमान् सूत्रं तु गळ उच्यते || 27 ||
वस्त्रं तु त्वक्समाख्यातं नारिकेळं शिरस्तथा |
कूर्चं वै केश इत्याहुरित्येकं कुंभलक्षणं || 28 ||
दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुंकृतौ
वागीशं श्वसितेऽनिलं रविविधू बाह्वोस्तु दक्षान्ययोः |
कुक्षावष्टवसून् दिशश्श्रवणयोर्दस्रौ दृशोः पादयोः
पद्मोत्थं हृदये हरिं पृथगभिध्यायेन्मुखे शंकरं || 29 ||
नारसिंहं समभ्यर्च्य वामनं च प्रयत्नतः |
पूजयेत्तत्र कलशमुपचारैः समंत्रकैः || 30 ||
वाराहं नारसिंहं च वामनं विष्णुमेव च |
आवाह्य तेषु प्रत्येकं कुंभेष्वेतान् समर्चयेत् || 31 ||
अथवैकघटं वापि स्थापयेत्साधकोत्तमः |
पिधाय कुंभद्वाराणि विधिना चूतपल्लवैः || 32 ||
नारिकेळ फलैश्चापि मंत्रैरेतैर्यथाविधि |
मंत्रैरेतैर्यथालिंगं कुर्याद्दिग्बंधनं ततः || 33 ||
वाराहं नारसिंहं च वामनं विष्णुमेव च |
ध्यात्वा समाहितो भूत्वा दिक्षु नामानि विन्यसेत् || 34 ||अथ अपामार्जन न्यासविधिः (कवचं)||

पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे |
प्रद्युम्नः पश्चिमे पातु वासुदेवस्तथोत्तरे || 35 ||

ऐशान्यां रक्षताद्विष्णुः आग्नेय्यां च जनार्दनः |
नैरृत्यां पद्मनाभस्तु वायव्यां मधुसूदनः || 36 ||

ऊर्ध्वे गोवर्धनोद्धर्ता ह्यधरायां त्रिविक्रमः |
एताभ्यो दशदिग्भ्यश्च सर्वतः पातु केशवः || 37 ||

एवं कृत्वा तु दिग्बंधं विष्णुं सर्वत्र संस्मरन् |
अव्यग्रचित्तः कुर्वीत न्यासकर्म यथा विधि || 38 ||

अंगुष्ठाग्रे तु गोविंदं तर्जन्यां तु महीधरं |
मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमं || 39 ||

कनिष्ठायां न्यसेद्विष्णुं करपृष्ठे तु वामनं |
एवमेवांगुळिन्यासः पश्चादंगेषु विन्यसेत् || 40 ||

शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् |
माधवं च ललाटे तु गोविंदं तु भ्रुवोर्न्यसेत् || 41 ||

चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनं |
त्रिविक्रमं कंठमूले वामनं तु कपोलयोः || 42 ||

नासारंध्रद्वये चापि श्रीधरं कल्पयेद्भुधः |
उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाऽधरे || 43 ||

दामोदरं दंतपंक्तौ वाराहं चुबुके तथा |
जिह्वायां वासुदेवं च ताल्वोश्चैव गदाधरं || 44 ||

वैकुंठं कंठमध्ये तु अनंतं नासिकोपरि |
दक्षिणे तु भुजे विप्रो विन्यसेत् पुरुषोत्तमं || 45 ||

वामे भुजे महायोगं राघवं हृदि विन्यसेत् |
कुक्षौ पृथ्वीधरं चैव पार्श्वयोः केशवं न्यसेत् || 46 ||

वक्षःस्थले माधवं च कक्षयोर्योगशायिनं |
पीतांबरं स्तनतटे हरिं नाभ्यां तु विन्यसेत् || 47 ||

दक्षिणे तु करे देवं ततः संकर्षणं न्यसेत् |
वामे रिपुहरं विद्यात्कटिमध्ये जनार्दनं || 48 ||

पृष्ठे क्षितिधरं विद्यादच्युतं स्कंधयोरपि |
वामकुक्षौ वारिजाक्षं दक्षिणे जलशायिनं || 49 ||

स्वयंभुवं मेढ्रमध्ये ऊर्वोश्चैव गदाधरं |
जानुमध्ये चक्रधरं जंघयोरमृतं न्यसेत् || 50 ||

गुल्फयोर्नारसिंहं च पादयोरमितत्विषं |
अंगुळीषु श्रीधरं च पद्माक्षं सर्वसंधिषु || 51 ||

नखेषु माधवं चैव न्यसेत्पादतलेऽच्युतं |
रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु || 52 ||

मनोबुद्ध्योरहंकारे चित्ते न्यस्य जनार्दनं |
अच्युतानंत गोविंदान् वातपित्तकफेषु च || 53 ||

एवं न्यासविधिं कृत्वा यत्कार्यं द्विजतच्छृणु |
पादमूले तु देवस्य शंखं चैव तु विन्यसेत् || 54 ||

वनमालां हृदि न्यस्य सर्वदेवाभिपूजितां |
गदां वक्षःस्थले न्यस्य चक्रं चैव तु पृष्ठतः || 55 ||

श्रीवत्समुरसि न्यस्य पंचांगं कवचं न्यसेत् |
आपादमस्तकं चैव विन्यसेत्पुरुषोत्तमं || 56 ||

एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् |
तनुर्विष्णुमयी तस्य यत्किंचिन्न स भाषते || 57 ||

अपामार्जनको न्यासः सर्वव्याधिविनाशनः |
आत्मनश्च परस्यापि विधिरेष सनातनः || 58 ||

वैष्णवेन तु कर्तव्यः सर्वसिद्धिप्रदायकः |
विष्णुस्तदूर्ध्वं रक्षेत्तु वैकुंठो विदिशोदिशः || 59 ||

पातु मां सर्वतो रामो धन्वी चक्री च केशवः |
एतत्समस्तं विन्यस्य पश्चान्मंत्रान् प्रयोजयेत् || 60 ||अथ मूल मंत्रः||

ॐ नमो भगवते क्लेशापहर्त्रे नमः |

पूजाकाले तु देवस्य जपकाले तथैव च |
होमकाले च कर्तव्यं त्रिसंध्यासु च नित्यशः || 61 ||

आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं लभेत् |
यद्यत्सुखतरं लोके तत्सर्वं प्राप्नुयान्नरः || 62 ||

एवं भक्त्या समभ्यर्च्य हरिं सर्वार्थदायकं |
अभयं सर्वभूतेभ्यो विष्णुलोकं स गच्छति |
श्रीविष्णुलोकं स गच्छत्यों नम इति || 63 ||अथ अपामार्जन न्यासः||

अस्य श्रीमदपामार्जन स्तोत्रमहामंत्रस्य पुलस्त्यो भगवानृषिः अनुष्टुप्छंदः ॐ श्रीवराह-नृसिंह-वामन-विष्णु-सुदर्शन-पांचजन्या देवताः ॐ हरामुकस्यदुरितमिति बीजं ॐ अच्युतानंतगोविंदेति शक्तिः ॐ ज्वलत्पावकलोचनेति कीलकं ॐ वज्रायुधनखस्पर्शेति कवचं श्री-वराह-नृसिंह-वामन-विष्णु-सुदर्शन-पांचजन्य प्रसादसिद्ध्यर्थे सर्वारिष्टपरिहारार्थे जपे विनियोगः |

ॐ श्रीवराहाय अंगुष्ठाभ्यां नमः |
ॐ श्रीनृसिंहाय तर्जनीभ्यां नमः |
ॐ श्रीवामनाय मध्यमाभ्यां नमः |
ॐ श्रीविष्णवे अनामिकाभ्यां नमः |
ॐ श्रीसुदर्शनाय कनिष्ठिकाभ्यां नमः |
ॐ श्रीपांचजन्याय करतलकरपृष्ठाभ्यां नमः ||

ॐ वराहाय नृसिंहाय वामनाय महात्मने ज्ञानाय हृदयाय नमः |
ॐ नमः कमलकिंजल्कपीत निर्मलवासने ऐश्वर्याय शिरसे स्वाहा |
ॐ नमः पुष्करनेत्राय केशवायादिचक्रिणे शक्त्यै शिखायै वषट् |
ॐ दामोदराय देवाय अनंताय महात्मने बलाय कवचाय हुं |
ॐ काश्यपायातिह्रस्वाय ऋग्वजुस्साममूर्तये तेजसे नेत्राभ्यां वौषट् |
ॐ नमः परमार्थाय पुरुषाय महात्मने वीर्याय अस्त्राय फट् |
ॐ भूर्भुवस्सुवरोमिति दिग्बंधः ||अथ अपामार्जन ध्यानं||

अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनं |
वराहरूपिणं देवं संस्मरन्नर्चयेज्जपेत् || 64 ||

ॐ जलौघमग्ना सचराचरा धरा
विषाणकोट्याखिल विश्वमूर्तिना |
समुद्धृता येन वराहरूपिणा
स मे स्वयंभूर्भगवान् प्रसीदतु || 65 ||

चंचच्चंद्रार्धदंष्ट्रं स्फुरदुरुदशनं विद्युदुद्द्योतजिह्वं
गर्जत्पर्जन्यनादं स्फुरितरविरुचं चक्षुरक्षुद्ररौद्रं |
त्रस्ताशाहस्तियूधं ज्वलदनलसटा केसरोद्भासमानं
रक्षो रक्ताभिषिक्तं प्रहरतुदुरितं ध्यायतां नारसिंहं || 66 ||

अतिविपुलसुगात्रं रुक्मपात्रस्थमन्नं
सुललितदधिखंडं पाणिना दक्षिणेन |
कलशममृतपूर्णं वामहस्ते दधानं
तरतिसकलदुःखं वामनं भावयेद्यः || 67 ||

विष्णुं भास्वत्किरीटां गदवलयगळाकल्पहारोज्ज्वलांगं
श्रोणीभूषासुवक्षो मणिमकुटमहाकुंडलैर्मंडितांगं |
हस्तोद्यच्छंखचक्रांबुज गदममलं पीतकौशेयवासं
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि || 68 ||

शंखं चक्रं सचापं परशुमसिमिषून्मूलपाशांकुशाग्नीन्
बिभ्राणं वज्रखेटं हलमुसलगदाकुंतमत्युग्रदंष्ट्रं |
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्यायेत्षट्कोणसंस्थं सकलरिपुजनप्राणसंहारि चक्रं || 69 ||

कल्पांतार्क प्रकाशं त्रिभुवनमखिलं तेजसापूरयंतं
रक्ताक्षं पिंगकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासं |
शंखं चक्रं गदाब्जं पृथुतरमुसलं चाप पाशांकुशान् स्वैः
बिभ्राणं दोर्भिरष्टौ मनसि मुररिपुं भावयेच्चक्रसंज्ञं || 70 ||अथ अपामार्जन मूल मंत्राः||

ॐ नमो भगवते श्रीमहावराहाय दंष्ट्रोद्धृत विश्वंभराय हिरण्याक्षगर्वसर्वंकषाय मम विघ्नान् छिंधि छिंधि छेदय छेदय स्वाहा || 1 ||
ॐ नमो भगवते श्रीमहानृसिंहाय दंष्ट्राकराळवदनाय खरनखराग्रविदारित हिरण्यकशपुवक्षस्स्थलाय ज्वालामालाविभूषणाय मम विघ्नान् संहर संहर हाहाहीहीहूहू हुं फट् स्वाहा || 2 ||
ॐ नमो भगवते महामायाय श्रीवामनाय पदत्रयाक्रांतजगत्त्रयाय ऋग्यजुस्साममूर्तये मम विघ्नान् ध्वंसय ध्वंसय त्रासय त्रासय ॐ ह्रां ह्रीं ह्रूं श्रीं क्लीं ठाठाठाठाठा आआआआआ ईईईईई ऊऊऊऊऊ हुं फट् स्वाहा || 3 ||
ॐ नमो भगवते श्रीमहाविष्णवे यक्षरक्षांसि मम विघ्नान् मथ मथ स्वाहा || 4 ||
ॐ नमो भगवते श्रीसुदर्शनाय महाचक्रराजाय मां रक्ष रक्ष मम शत्रून्नाशय नाशय दर दर दारय दारय छिंदि छिंधि भिंधि भिंधि ज्वल ज्वल ज्वालय ज्वालय सहस्रकिरणान् प्रज्वल प्रज्वल शिखा उत्प्रेषयोत्प्रेषय दहनात्मक चट चट चाटय चाटय गर्जय गर्जय त्रासय त्रासय चूर्णय चूर्णय परप्रयुक्तानां मंत्राणामष्टोत्तरशतं स्फोटय स्फोटय परशक्तीः पेषय पेषय परमंत्रान् संहर संहर मां रक्ष रक्ष सहस्रार हुं फट् स्वाहा || 5 ||

एतान्मंत्रान् जपेन्मंत्री उस्पृश्य घटोदकं |
अष्टोत्तरशतं मौनी जपेत्सिद्धिर्भविष्यति || 71 ||अपामार्जन ध्यानं||

बृहद्धाम बृहद्गात्रं बृहद्दंष्ट्रं त्रिलोचनं |
समस्तवेदवेदांगयुक्तांगं भूषणैर्युतं || 72 ||

उद्धृत्यभूमिं पातालाद्धस्ताभ्यां परिगृह्यतां |
आलिंग्यभूमिमुरसामूर्ध्नि जिघ्रंतमच्युतं || 73 ||

रत्नवैडूर्यमुक्तादिभूषणैरुपशोभितं |
पीतांबरधरं देवं शुक्लमाल्यानुलेपनं || 74 ||

त्रयस्त्रिंशादिदेवैश्चस्तूयमानं तु सर्वदा |
ऋषिभिस्सनकाद्यैश्च सेव्यमानमहर्निशं || 75 ||

नृत्यंतीभिश्चाप्सरोभिर्गीयमानं च किन्नरैः |
इत्थं ध्यात्वा यथा न्याय्यं जपेन्मंत्रमतंद्रितः || 76 ||

सौवर्णमंडपांतस्स्थं पद्मं ध्यायेत्सकेसरं |
सकर्णीकैर्दळैरिष्टैरष्टभिः परिशोभितं || 77 ||

कळंकरहितं देवं पूर्णचंद्रसमप्रभं |
श्रीवत्सांकितवक्षस्कं तीक्ष्णदंष्ट्रं त्रिलोचनं || 78 ||

जपाकुसुमसंकाशं रक्तहस्ततलान्वितं |
पद्मासनसमा(सीनं)रूढं योगपट्टपरिष्कृतं || 79 ||

पीतवस्त्रपरीतांगं शुक्लवस्त्रोत्तरीयकं |
कटिसूत्रेण हैमेन नूपुरेणविराजितं || 80 ||

वनमालादिशोभाढ्यं मुक्ताहारोपशोभितं |
पंकजास्यं चतुर्बाहुं पद्मपत्रनिभेक्षणं || 81 ||

प्रातस्सूर्यसमप्रख्यकुंडलाभ्यां विराजितं |
अनेकसूर्यसंकाशदीप्यन्मकुटमस्तकं || 82 ||

केयूरकांतिसंस्पर्धिमुद्रिकारत्नशोभितं |
जानूपरिन्यस्तकरद्वंद्वमुक्तानखांकुरं || 83 ||

जंघाभरणसंस्पर्धि सुशोभं कंकणत्विषा |
चतुर्थीचंद्रसंकाश सुदंष्ट्रमुखपंकजं || 84 ||

मुक्ताफलाभसुमहादंतावळिविराजितं |
चांपेयपुष्पसंकाश सुनासमुखपंकजं || 85 ||

अतिरक्तोष्ठवदनं रक्तास्यमरिभीषणं |
वामांकस्थां श्रियं भक्तां शांतां दांतां गरीयसीं || 86 ||

अर्हणीयोरुसंयुक्तां सुनासां शुभलक्षणां |
सुभ्रूं सुकेशीं सुश्रोणीं सुभुजां सुद्विजाननां || 87 ||

सुप्रतीकां च सुगतिं चतुर्हस्तां विचिंतयेत् |
दुकूलचेलचार्वंगीं हरिणीं सर्वकामदां || 88 ||

तप्तकांचनसंकाशां सर्वाभरणभूषितां |
सुवर्णकलशप्रख्य पीनोन्नतपयोधरां || 89 ||

गृहीत पद्मयुगळ बाहुभ्यां च विराजितां |
गृहीत मातुलुंगाख्य जांबूनदकरां तथा || 90 ||

एवं देवीं नृसिंहस्य वामांकोपरि चिंतयेत् ||पुनर्ध्यानं||
ॐ जलौघमग्ना सचराचरा धरा
विषाणकोट्याखिल विश्वमूर्तिना |
समुद्धृता येन वराहरूपिणा
स मे स्वयंभूर्भगवान् प्रसीदतु ||

चंचच्चंद्रार्धदंष्ट्रस्फुरदुरुदशनं विद्युदुद्द्योतजिह्वं
गर्जत्पर्जन्यनादं स्फुरितरविरुचं चक्षुरक्षुद्ररौद्रं |
त्रस्ताशाहस्तियूधं ज्वलदनलसटा केसरोद्भासमानं
रक्षोरक्ताभिषिक्तं प्रहरतुदुरितं ध्यायतां नारसिंहं ||

अतिविपुलसुगात्रं रुक्मपात्रस्थमन्नं
सुललितदधिखंडं पाणिना दक्षिणेन |
कलशममृतपूर्णं वामहस्ते दधानं
तरतिसकलदुःखं वामनं भावयेद्यः ||

विष्णुं भास्वत्किरीटां गदवलयगळाकल्पहारोज्ज्वलांगं
श्रोणीभूषासुवक्षो मणिमकुटमहाकुंडलैर्मंडितांगं |
हस्तोद्यच्छंखचक्रांबुज गदममलं पीतकौशेयवासं
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ||

शंखं चक्रं सचापं परशुमसिमिषून्मूलपाशांकुशाग्नीन्
बिभ्राणं वज्रखेटं हलमुसलगदाकुंतमत्युग्रदंष्ट्रं |
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्यायेत्षट्कोणसंस्थं सकलरिपुजनप्राणसंहारि चक्रं ||

ॐ नमो भगवते श्रीमहावराहाय क्रोडरूपिणे मम विघ्नान् दह दह स्वाहा |
ॐ नमो भगवते श्रीमहानृसिंहाय कराळदंष्ट्रवदनाय मम विघ्नान् पच पच स्वाहा |
ॐ नमो भगवते श्रीमाया वामनाय त्रैलोक्यविक्रांताय मम शत्रून् छेदय च्छेदय स्वाहा |
ॐ नमो भगवते श्रीमहाविष्णवे यक्षरक्षांसि मम विघ्नान् मथ मथ स्वाहा |
ॐ नमो भगवते श्रीसुदर्शनायाऽसुरांतकाय मम विघ्नान् हन हन स्वाहा ||अथ अपामार्जन फलप्रार्थनं||

ॐ नमः परमार्थाय पुरुषाय महात्मने |
अरूपाय विरूपाय व्यापिने परमात्मने || 92 ||

निष्कल्मषाय शुद्धाय ध्यानयोगपराय च |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिद्ध्यतु मे वचः || 93 ||

नारायणाय शुद्धाय विश्वेशायेश्वराय च |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 94 ||

अच्युताय च गोविंद पद्मनाभायसंहृते |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 95 ||

त्रिविक्रमाय रामाय वैकुंठाय हराय च |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 96 ||

दामोदराय देवाय अनंताय महात्मने |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 97 ||

जनार्दनाय कृष्णाय उपेंद्र श्रीधराय च |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 98 ||

हृषीकेशाय कूर्माय माधवायाऽच्युताय च |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 99 ||

योगीश्वराय गुह्याय गूढाय परमात्मने |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 100 ||

भक्तप्रियाय देवाय विष्वक्सेनाय शार्ङ्गिणे |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 101 ||

प्रद्युम्नायाऽनिरुद्धाय पुरुषाय महात्मने |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 102 ||

अथोक्षजाय दक्षाय मत्स्याय मधुहारिणे |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 103 ||

वराहाय नृसिंहाय वामनाय महात्मने |
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः || 104 ||

वराहेश नृसिंहेश वामनेश त्रिविक्रम |
हयग्रीवेश सर्वेश हृषीकेश हराऽशुभं || 105 ||

अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः |
अखंडितानुभावैश्च सर्वदुःखहरो भव || 106 ||

हरामुकस्यदुरितं दुष्कृतं दुरुपद्रवं |
मृत्युबंधार्तिभयदमरिष्टस्य च यत्फलं || 107 ||

पराभिध्यानसहितं प्रयुक्तां चाऽभिचारिकं |
गरस्पर्शमहारोगप्रयुक्तं जरयाऽजर || 108 ||

ॐ नमो वासुदेवाय नमः कृष्णाय शार्ङ्गिणे |
नमः पुष्करनेत्राय केशवायादिचक्रिणे || 109 ||

नमः कमलकिंजल्कदीप्तनिर्मलवाससे |
महाहवरिपुस्कंध घृष्टचक्राय चक्रिणे || 110 ||

दंष्ट्राग्रेण क्षितिधृते त्रयीमूर्तिमते नमः |
महायज्ञवराहाय शेषभोगोपशायिने || 111 ||

तप्तहाटककेशांतज्वलत्पावकलोचन |
वज्रायुधनखस्पर्श दिव्यसिंह नमोऽस्तु ते || 112 ||

काश्यपायातिह्रस्वाय ऋग्यजुस्साममूर्तये |
तुभ्यं वामनरूपाय क्रमतेगां नमो नमः || 113 ||

वराहाशेषदुष्टानि सर्वपापफलानि वै |
मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलं || 114 ||

नारसिंह कराळस्य दंतप्रांतानलोज्ज्वल |
भंज भंज निनादेन दुष्टान्यस्यार्तिनाशन || 115 ||

ऋग्यजुस्सामरूपाभि-र्वाग्भिर्वामनरूपधृत् |
प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः || 116 ||

कौबेरं ते मुखं रौद्रं नंदिनो नंदमावह |
गरं मृत्युभयं घोरं विषं नाशय मे ज्वरं || 117 ||

त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्तलोचनः |
समेप्रीतस्सुखं दद्यात्सर्वामयपतिर्ज्वरः || 118 ||

आद्यंतवंतः कवयः पुराणाः
सन्मार्गवंतो ह्यनुशासितारः |
सर्वज्वरान् घ्नंतु ममाऽनिरुद्ध
प्रद्युम्न संकर्षण वासुदेवाः || 119 ||

ऐकाहिकं द्व्याहिकं च तथा त्रिदिवस ज्वरं |
चातुर्थिकं तथा त्युग्रं तथैव सतत ज्वरं || 120 ||

दोषोत्थं सन्निपातोत्थं तथैवागंतुक ज्वरं |
शमं नयाशु गोविंद च्छिंधिच्छिंध्यस्य वेदनां || 121 ||

नेत्रदुःखं शिरोदुःखं दुःखं चोदरसंभवं |
अतिश्वासमनिश्वासं परितापं च वेपथुं || 122 ||

गुदघ्राणांघ्रिरोगांश्च कुक्षिरोगं तथा क्षयं |
कामलादींस्तथारोगा-न्प्रमेहांश्चातिदारुणान् || 123 ||

भगंदरातिसारांश्च मुखरोगांश्च फल्गुनीन् |
अश्मरी मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् || 124 ||

ये वातप्रभवारोगा ये च पित्तसमुद्भवाः |
कफोद्भवाश्च ये रोगाः ये चान्येसान्निपातिकाः || 125 ||

आगंतुकाश्च ये रोगाः लूताविस्फोटकादयः |
सर्वे ते प्रशमं यांतु वासुदेवाऽपमार्जनात् || 126 ||

विलयं यांतु ते सर्वे विष्णोरुच्चारणेन तु |
क्षयं गच्छंत्वशेषास्ते चक्रेणोपहताहरेः || 127 ||

अच्युताऽनंतगोविंद नामोच्चारण भेषजात् |
नश्यंति सकलरोगाः सत्यं सत्यं वदाम्यहं || 128 ||

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते |
वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परं || 129 ||

स्थावरं जंगमं वापि कृत्रिमं वापि यद्विषं |
दंतोद्भूतं नखोद्भूतमाकाशप्रभवं विषं || 130 ||

लूतादिप्रभवं चैव विषमत्यंतदुस्सहं |
शमं नयतु तत्सर्वं कीर्तितो मे जनार्दनः || 131 ||

ग्रहान् प्रेतग्रहान्भूतां स्तथा वै डाकिनीग्रहान् |
वेताळांश्च पिशाचांश्च गंधर्वान्यक्षराक्षसान् || 132 ||

शाकिनी पूतनाद्यांश्च तथा वैनायकग्रहान् |
मुखमंडलिकान्क्रूरान् रेवतीन्वृद्धरेवतीन् || 133 ||

वृश्चिकाख्यान् ग्रहांश्चोग्रांस्तथा मातृगणानपि |
बालस्य विष्णोश्चरितं हंतु बालग्रहानिमान् || 134 ||

वृद्धानां ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् |
नारसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने || 135 ||

सदा कराळवदनो नारसिंहो महारवः |
ग्रहानशेषान्निश्शेषान्करोतु जगतो हरिः || 136 ||

नारसिंह महासिंह ज्वालामालोज्ज्वलानन |
ग्रहानशेषान्सर्वेश खादखादाऽग्निलोचन || 137 ||

ये रोगा ये महोत्पाताः यद्विषं ये महाग्रहाः |
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः || 138 ||

शस्त्रक्षतेषु ये रोगाः ज्वालाकर्दमकादयः |
यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै |
तानि सर्वाणि सर्वात्मन्परमात्मंजनार्दन || 139 ||

किंचिद्रूपं समास्थाय वासुदेवाशुनाशय |
क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभूषणं || 140 ||

सर्वदुष्टोपशमनं कुरु देववराऽच्युत |
सुदर्शनमहाचक्र गोविंदस्य वरायुध || 141 ||

तीक्ष्णपावकसंकाश कोटिसूर्यसमप्रभ |
त्रैलोक्यरक्षाकर्ता त्वं दुष्टदानवदारण || 142 ||

तीक्ष्णधारमहावेग छिंदि छिंदि महाज्वरं |
छिंधि वातं च लूतं च छिंधि घोरं महद्विषं || 143 ||

क्रिमिदाहश्च शूलश्च विषज्वाला च कर्दमाः |
सुदर्शनेन चक्रेण शमं यांति न संशयः || 144 ||

त्रैलोक्यस्याऽभयं कर्तुमाज्ञापय जनार्दन |
सर्वदुष्टानि रक्षांसि क्षपयाश्वरिभीषण || 145 ||

प्राच्यां प्रतीच्यां दिशि च दक्षिणोत्तरतस्तथा |
रक्षां करोतु भगवान् बहुरूपी जनार्दनः || 146 ||

व्याघ्रसिंहवराहादिष्वग्नि चोरभयेषु च |
रक्षां करोतु भगवान् बहुरूपी जनार्दनः || 147 ||

भुव्यंतरिक्षे च तथा पार्श्वतः पृष्ठतोऽग्रतः |
रक्षां करोतु भगवान् नारसिंहः स्वगर्जितैः || 148 ||

यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषं |
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु || 149 ||

यथा यज्ञेश्वरो विष्णुर्वेदांतेष्वभिधीयते |
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु || 150 ||

परमात्मा यथा विष्णुर्वेदांतेष्वपि गीयते |
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु || 151 ||

यथा विष्णोः स्तुते सद्यः संक्षयं याति पातकं | [विष्णौ]
तेन सत्येन सकलं यन्मयोक्तं तथाऽस्तु तत् || 152 ||

जले रक्षतु वाराहः स्थले रक्षतु वामनः |
अटव्यां नारसिंहश्च सर्वतः पातु केशवः || 153 ||

शांतिरस्तु शिवं चाऽस्तु प्रणश्यत्वशुभं च यत् |
वासुदेवशरीरोत्थैः कुशैः संमार्जितो मया || 154 ||

अपामार्जतु गोविंदो नरो नारायणस्तथा |
ममाऽस्तु सर्वदुःखानां प्रशमो वचनाद्धरेः || 155 ||

शांताः समस्तारोगास्ते ग्रहास्सर्वेविषाणि च |
भूतानि च प्रशांतानि संस्मृते मधुसूदने || 156 ||

एतत्समस्तरोगेषु भूतग्रहभयेषु च |
अपामार्जनकं शस्त्रं विष्णुनामाभिमंत्रितं || 157 ||

एते कुशा विष्णुशरीरसंभवा
जनार्दनोहं स्वयमेव चागतः |
हतं मया दुष्टमशेषमस्य
स्वस्थो भवत्वेष यथा वचो हरेः || 158 ||

शांतिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु |
यदस्य दुरितं किंचित्तत्क्षिप्तं लवणांभसि || 159 ||

स्वास्थ्यमस्तु शिवं चास्तु हृषीकेशस्य कीर्तनात् |
यत एवागतं पापं तत्रैव प्रतिगच्छतु || 160 ||अथ अपामार्जन माहात्म्यं||

एतद्रोगादिपीडासु जनानां हितमिच्छता |
विष्णुभक्तेन कर्तव्यमपामार्जनकं परं || 161 ||

अनेन सर्वदुःखानि शमं यांति न संशयः |
व्याध्यपस्मार कुष्ठादि पिशाचोरग राक्षसाः || 162 ||

तस्य पार्श्वं न गच्छंति स्तोत्रमेतत्तु यः पठेत् |
यश्च धारयते विद्वान् श्रद्धाभक्तिसमन्वितः || 163 ||

ग्रहास्तं नोपसर्पंति न रोगेण च पीडितः |
धन्यो यशस्यः शत्रुघ्नः स्तवोयं मुनिसत्तम || 164 ||

पठतां शृण्वतां चैव विष्णोर्माहात्म्यमुत्तमं |
एतत् स्तोत्रं परं पुण्यं सर्वव्याधिविनाशनं || 165 ||

पठतां शृण्वतां चैव जपेदायुष्यवर्धनं |
विनाशाय च रोगाणामपमृत्युजयाय च || 166 ||

इदं स्तोत्रं जपेच्छांतः कुशैः संमार्जयेच्छुचिः |
वाराहं नारसिंहं च वामनं विष्णुमेव च || 167 ||

स्मरन् जपेदिदं स्तोत्रं सर्वदुःखोपशांतये |
सर्वभूतहितार्थाय कुर्यात्तस्मात्सदैवहि || 168 ||
कुर्यात्तस्मात्सदैवह्यों नम इति |

इति श्रीविष्णुधर्मोत्तरपुराणे श्रीदाल्भ्यपुलस्त्यसंवादे श्रीमदपामार्जनस्तोत्रं नामैकोनत्रिंशोध्यायः |

अर्थ

अपामार्जन स्तोत्रं भगवान विष्णु की महिमा और उनकी उपचार तथा सुरक्षात्मक शक्ति का आह्वान करने वाला एक अत्यंत शक्तिशाली भक्तिमय स्तोत्र है। यह बताता है कि कैसे मनुष्यों में रोग, ग्रह दोष, बुरी शक्तियों का प्रभाव, आध्यात्मिक और आधिदैविक संकट तथा आकस्मिक आपदाएँ उत्पन्न होती हैं। यह स्तोत्र मुख्य रूप से पुलस्त्य मुनि और दाल्भ्य मुनि के संवाद के रूप में है, जिसमें पुलस्त्य मुनि इन कष्टों को दूर करने के लिए विधि-विधान और मंत्र-आधारित उपचारों का विस्तृत वर्णन करते हैं। यह केवल शारीरिक कष्टों से मुक्ति प्रदान नहीं करता, बल्कि मानसिक शांति और आध्यात्मिक उत्थान भी प्रदान करता है।

इस स्तोत्र का गहरा आध्यात्मिक महत्व यह है कि यह बताता है कि जिन लोगों ने पूर्वजन्म में व्रत-उपवास से भगवान विष्णु को प्रसन्न नहीं किया या जिन्होंने अपना मन सदैव उनमें स्थिर नहीं रखा, वे इस जन्म में विष, रोग और ग्रह पीड़ा के भागी बनते हैं। यह दृढ़ता से कहता है कि यदि मधुसूदन भगवान विष्णु को प्रसन्न कर लिया जाए, तो किसी भी प्रकार के कष्ट, रोग, ग्रह बंधन, कृत्या या स्पर्श रोगों का भय नहीं रहता। भगवान की भक्ति सभी दुःखों का शमन करती है और ग्रहों को शांत करती है। जिसके ऊपर जनार्दन प्रसन्न होते हैं, उसे देवता भी पराजित नहीं कर सकते। सभी प्राणियों में समान रूप से विद्यमान उस परमेश्वर की आराधना ही अंतिम मोक्ष का मार्ग है।

अपामार्जन स्तोत्रं में शुद्धिकरण (अपामार्जन) की प्रक्रियाओं का विस्तार से वर्णन किया गया है, जिसमें कुश मूल (दूर्वा घास की जड़), पवित्र कलश का जल, और विशिष्ट देवताओं का आह्वान (जैसे वराह, नृसिंह, वामन, विष्णु, सुदर्शन) शामिल हैं। इस स्तोत्र में बीज मंत्रों, ध्यान, मंत्रों के उपयोग और न्यास विधियों का भी उल्लेख है। इनके माध्यम से रोगनाश, आयु वृद्धि, गर्भ रक्षा, शिशु स्वास्थ्य और पापों के नाश जैसे श्रेष्ठ फल प्राप्त किए जा सकते हैं। निष्ठावान भक्ति और निर्धारित विधि-विधान के साथ इस स्तोत्र का पाठ करने से भगवान विष्णु की कृपा प्राप्त होती है। अंततः, यह केवल रोगों के निवारण तक ही सीमित नहीं है, बल्कि भगवद् भक्ति की वृद्धि, आत्म-शांति और विष्णुमयता के अनुभव की ओर ले जाता है।

अपामार्जन स्तोत्रं का नियमित पाठ भक्तों के लिए कई तरह से सहायक होता है। यह न केवल शारीरिक बीमारियों से मुक्ति दिलाता है, बल्कि मानसिक और आध्यात्मिक क्लेशों को भी दूर करता है। यह ग्रह दोषों, बुरी शक्तियों के प्रभाव और अन्य अनिष्टों से सुरक्षा प्रदान करता है। गर्भवती महिलाओं और बच्चों के लिए विशेष सुरक्षा प्रदान करने वाला माना जाता है। यह स्तोत्र भगवान विष्णु की अनंत करुणा का आह्वान करने का एक माध्यम है, जिनकी दिव्य शक्ति सभी बाधाओं को दूर कर जीवन में सुख, समृद्धि और शांति लाती है।

लाभ (Benefits):

  • गंभीर रोगों से मुक्ति: बुखार, महामारी, जीर्ण रोगों और अन्य गंभीर बीमारियों से राहत मिलती है।
  • गर्भ रक्षा और शिशु स्वास्थ्य: गर्भवती महिलाओं और अजन्मे बच्चे की सुरक्षा करता है, परिवार के कल्याण को सुनिश्चित करता है।
  • आयु वृद्धि और पापों का क्षय: आयु बढ़ती है, शारीरिक शक्ति में वृद्धि होती है और पूर्व जन्मों के पापों का नाश होता है।
  • ग्रह दोष निवारण: दुष्ट ग्रहों के प्रभाव, पिशाचों, प्रेतों और अन्य अनिष्ट शक्तियों से सुरक्षा प्रदान करता है।
  • मानसिक शांति और आध्यात्मिक उत्थान: मन को शांति मिलती है, भक्ति बढ़ती है और आध्यात्मिक सुरक्षा प्राप्त होती है।

अक्सर पूछे जाने वाले प्रश्न

अपामार्जन स्तोत्रं क्या है?
अपामार्जन स्तोत्रं भगवान विष्णु की सुरक्षात्मक और उपचारक शक्ति का आह्वान करने वाला एक शक्तिशाली भक्तिमय भजन है। यह रोगों, ग्रह दोषों, बुरी शक्तियों के प्रभाव और अन्य संकटों से मुक्ति पाने में मदद करता है।
इस स्तोत्र का पाठ कब और कैसे करना चाहिए?
इस स्तोत्र का पाठ प्रतिदिन सुबह स्नान के बाद शुद्ध मन से करना उत्तम होता है। विशेष रूप से बीमारी या संकट के समय, किसी विशेष संकल्प के साथ विधिपूर्वक इसका पाठ किया जा सकता है।
अपामार्जन स्तोत्रं का पाठ करने के क्या लाभ हैं?
इसके पाठ से गंभीर रोगों से मुक्ति, गर्भ रक्षा, शिशु स्वास्थ्य, आयु वृद्धि, पापों का नाश, ग्रह दोष निवारण और मानसिक शांति प्राप्त होती है। यह आध्यात्मिक उत्थान में भी सहायक है।
इस स्तोत्र का पाठ कौन कर सकता है?
कोई भी व्यक्ति, किसी भी उम्र का, जो रोगों से पीड़ित है, ग्रह दोषों से परेशान है, गर्भवती महिलाएं और जो अपने परिवार के कल्याण की कामना करते हैं, वे इस स्तोत्र का पाठ कर सकते हैं।
अपामार्जन स्तोत्रं का पाठ कितनी बार करना चाहिए?
सामान्यतः प्रतिदिन एक बार या तीन बार पाठ करना शुभ होता है। विशिष्ट परिणामों के लिए, गुरु के मार्गदर्शन में 11, 21 या 108 बार इसका जप किया जा सकता है।
इस स्तोत्र का मूल या उद्गम क्या है?
अपामार्जन स्तोत्रं पुलस्त्य मुनि और दाल्भ्य मुनि के बीच के संवाद के रूप में है। यह प्राचीन हिंदू धर्मग्रंथों का हिस्सा है और विष्णु भक्ति के महत्व को दर्शाता है।

टिप्पणियाँ

टिप्पणी लिखने के लिए लॉगिन करें

टिप्पणियाँ लोड हो रही हैं...