वे

श्री वेंकटेश सहस्रनाम स्तोत्रं

संपादन: अद्यतन
सहस्रनाम
0 व्यूज़

श्रीवसिष्ठ उवाच |
भगवन् केन विधिना नामभिर्वेंकटेश्वरं |
पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः || 1 ||

पृच्छामि तानि नामानि गुणयोगपराणि किं |
मुख्यवृत्तीनि किं ब्रूहि लक्षकाण्यथवा हरेः || 2 ||

नारद उवाच |
नामान्यनंतानि हरेः गुणयोगानि कानि चित् |
मुख्यवृत्तीनि चान्यानि लक्षकाण्यपराणि च || 3 ||

परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् |
आदिमध्यांतरहितस्त्वव्यक्तोऽनंतरूपभृत् || 4 ||

चंद्रार्कवह्निवाय्वाद्या ग्रहर्क्षाणि नभो दिशः |
अन्वयव्यतिरेकाभ्यां संति नो संति यन्मतेः || 5 ||

तस्य देवस्य नाम्नां हि पारं गंतुं हि कः क्षमः |
तथाऽपि चाभिधानानि वेंकटेशस्य कानिचित् || 6 ||

ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुव्रत |
यदुच्चारणमात्रेण विमुक्ताघः परं व्रजेत् || 7 ||

वेंकटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विधिः |
छंदोऽनुष्टुप्तथा देवः श्रीवत्सांको रमापतिः || 8 ||

बीजभूतस्तथोंकारो ह्रीं क्लीं शक्तिश्च कीलकं |
ॐ नमो वेंकटेशायेत्यादिर्मंत्रोऽत्र कथ्यते || 9 ||

ब्रह्मांडगर्भः कवचमस्त्रं चक्रगदाधरः |
विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः || 10 ||

अस्य श्री वेंकटेश सहस्रनाम स्तोत्र महामंत्रस्य ब्रह्मा ऋषिः अनुष्टुप् छंदः श्रीवत्सांको रमापतिर्देवता ॐ बीजं ह्रीं शक्तिः क्लीं कीलकं ब्रह्मांडगर्भ इति कवचं चक्रगदाधर इत्यस्त्रं सामगानमिति हृदयं ॐ नमो वेंकटेशायेत्यादिर्मंत्रः श्री वेंकटेश प्रीत्यर्थे जपे विनियोगः ||

ध्यानं |
भास्वच्चंद्रमसौ यदीयनयने भार्या यदीया रमा
यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा
नाथो यो जगतां नगेंद्रदुहितुर्नाथोऽपि यद्भक्तिमान्
तातो यो मदनस्य यो दुरितहा तं वेंकटेशं भजे ||

ऊर्ध्वौ हस्तौ यदीयौ सुररिपुदळने बिभ्रतौ शंखचक्रे
सेव्यावंघ्री स्वकीयावभिदधदधरो दक्षिणो यस्य पाणिः |
तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः
श्रीवत्सांकश्च लक्ष्मीर्यदुरसि लसतस्तं भजे वेंकटेशं ||

इति ध्यायन् वेंकटेशं श्रीवत्सांकं रमापतिं |
वेंकटेशो विरूपाक्ष इत्यारभ्य जपेत्क्रमात् ||

(स्तोत्रं)
ॐ वेंकटेशो विरूपाक्षो विश्वेशो विश्वभावनः |
विश्वसृड्विश्वसंहर्ता विश्वप्राणो विराड्वपुः || 1 ||

शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः |
शेषस्तुत्यः शेषशायी विशेषज्ञो विभुः स्वभूः || 2 ||

विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सहिष्णुः सहिष्णुकः |
भ्राजिष्णुश्च ग्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः || 3 ||

कालयंता कालगोप्ता कालः कालांतकोऽखिलः |
कालगम्यः कालकंठवंद्यः कालकलेश्वरः || 4 ||

शंभुः स्वयंभूरंभोजनाभिः स्तंभितवारिधिः |
अंभोधिनंदिनीजानिः शोणांभोजपदप्रभः || 5 ||

कंबुग्रीवः शंबरारिरूपः शंबरजेक्षणः |
बिंबाधरो बिंबरूपी प्रतिबिंबक्रियातिगः || 6 ||

गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः |
दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः || 7 ||

परेशः परमात्मा च परंज्योतिः परा गतिः |
परं पदं वियद्वासाः पारंपर्यशुभप्रदः || 8 ||

ब्रह्मांडगर्भो ब्रह्मण्यो ब्रह्मसृड्ब्रह्मबोधितः |
ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्यपरायणः || 9 ||

सत्यव्रतार्थसंतुष्टः सत्यरूपी झषांगवान् |
सोमकप्राणहारी चाऽऽनीताम्नायोऽब्धिसंचरः || 10 ||

देवासुरवरस्तुत्यः पतन्मंदरधारकः |
धन्वंतरिः कच्छपांगः पयोनिधिविमंथकः || 11 ||

अमरामृतसंधाता धृतसंमोहिनीवपुः |
हरमोहकमायावी रक्षस्संदोहभंजनः || 12 ||

हिरण्याक्षविदारी च यज्ञो यज्ञविभावनः |
यज्ञीयोर्वीसमुद्धर्ता लीलाक्रोडः प्रतापवान् || 13 ||

दंडकासुरविध्वंसी वक्रदंष्ट्रः क्षमाधरः |
गंधर्वशापहरणः पुण्यगंधो विचक्षणः || 14 ||

करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः |
श्वेतघोणी घूर्णितभ्रूर्घुर्घुरध्वनिविभ्रमः || 15 ||

द्राघीयान् नीलकेशी च जाग्रदंबुजलोचनः |
घृणावान् घृणिसम्मोहो महाकालाग्निदीधितिः || 16 ||

ज्वालाकराळवदनो महोल्काकुलवीक्षणः |
सटानिर्भिन्नमेघौघो दंष्ट्रारुग्व्याप्तदिक्तटः || 17 ||

उच्छ्वासाकृष्टभूतेशो निश्श्वासत्यक्तविश्वसृट् |
अंतर्भ्रमज्जगद्गर्भोऽनंतो ब्रह्मकपालहृत् || 18 ||

उग्रो वीरो महाविष्णुर्ज्वलनः सर्वतोमुखः |
नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः || 19 ||

सभास्तंभोद्भवो भीमः शीरोमाली महेश्वरः |
द्वादशादित्यचूडालः कल्पधूमसटाच्छविः || 20 ||

हिरण्यकोरःस्थलभिन्नखः सिंहमुखोऽनघः |
प्रह्लादवरदो धीमान् भक्तसंघप्रतिष्ठितः || 21 ||

ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः |
लक्ष्मीनृसिंहो देवेशो ज्वालाजिह्वांत्रमालिकः || 22 ||

खड्गी खेटी महेष्वासी कपाली मुसली हली |
पाशी शूली महाबाहुर्ज्वरघ्नो रोगलुंठकः || 23 ||

मौंजीयुक् छात्रको दंडी कृष्णाजिनधरो वटुः |
अधीतवेदो वेदांतोद्धारको ब्रह्मनैष्ठिकः || 24 ||

अहीनशयनप्रीतः आदितेयोऽनघो हरिः |
संवित्प्रियः सामवेद्यो बलिवेश्मप्रतिष्ठितः || 25 ||

बलिक्षालितपादाब्जो विंध्यावलिविमानितः |
त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः || 26 ||

धृतत्रिविक्रमः स्वांघ्रिनखभिन्नांडखर्परः |
पज्जातवाहिनीधारापवित्रितजगत्त्रयः || 27 ||

विधिसम्मानितः पुण्यो दैत्ययोद्धा जयोर्जितः |
सुरराज्यप्रदः शुक्रमदहृत्सुगतीश्वरः || 28 ||

जामदग्न्यः कुठारी च कार्तवीर्यविदारणः |
रेणुकायाः शिरोहारी दुष्टक्षत्रियमर्दनः || 29 ||

वर्चस्वी दानशीलश्च धनुष्मान् ब्रह्मवित्तमः |
अत्युदग्रः समग्रश्च न्यग्रोधो दुष्टनिग्रहः || 30 ||

रविवंशसमुद्भूतो राघवो भरताग्रजः |
कौसल्यातनयो रामो विश्वामित्रप्रियंकरः || 31 ||

ताटकारिः सुबाहुघ्नो बलातिबलमंत्रवान् |
अहल्याशापविच्छेदी प्रविष्टजनकालयः || 32 ||

स्वयंवरसभासंस्थ ईशचापप्रभंजनः |
जानकीपरिणेता च जनकाधीशसंस्तुतः || 33 ||

जमदग्नितनूजातयोद्धाऽयोध्याधिपाग्रणीः |
पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः || 34 ||

ससीतश्चित्रकूटस्थो भरताहितराज्यकः |
काकदर्पप्रहर्ता च दंडकारण्यवासकः || 35 ||

पंचवट्यां विहारी च स्वधर्मपरिपोषकः |
विराधहाऽगस्त्यमुख्यमुनिसम्मानितः पुमान् || 36 ||

इंद्रचापधरः खड्गधरश्चाक्षयसायकः |
खरांतको दूषणारिस्त्रिशिरस्करिपुर्वृषः || 37 ||

ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः |
जटावान् पर्णशालास्थो मारीचबलमर्दकः || 38 ||

पक्षिराट्कृतसंवादो रवितेजा महाबलः |
शबर्यानीतफलभुक् हनूमत्परितोषितः || 39 ||

सुग्रीवाऽभयदो दैत्यकायक्षेपणभासुरः |
सप्ततालसमुच्छेत्ता वालिहृत्कपिसंवृतः || 40 ||

वायुसूनुकृतासेवस्त्यक्तपंपः कुशासनः |
उदन्वत्तीरगः शूरो विभीषणवरप्रदः || 41 ||

सेतुकृद्दैत्यहा प्राप्तलंकोऽलंकारवान् स्वयं |
अतिकायशिरश्छेत्ता कुंभकर्णविभेदनः || 42 ||

दशकंठशिरोध्वंसी जांबवत्प्रमुखावृतः |
जानकीशः सुराध्यक्षः साकेतेशः पुरातनः || 43 ||

पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः |
लक्ष्मीसरःकेळिलोलो लक्ष्मीशो लोकरक्षकः || 44 ||

देवकीगर्भसंभूतो यशोदेक्षणलालितः |
वसुदेवकृतस्तोत्रो नंदगोपमनोहरः || 45 ||

चतुर्भुजः कोमलांगो गदावान्नीलकुंतलः |
पूतनाप्राणसंहर्ता तृणावर्तविनाशनः || 46 ||

गर्गारोपितनामांको वासुदेवो ह्यधोक्षजः |
गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः || 47 ||

वैयाघ्रनखभूषश्च वत्सजिद्वत्सवर्धनः |
क्षीरसाराशनरतो दधिभांडप्रमर्दनः || 48 ||

नवनीतापहर्ता च नीलनीरदभासुरः |
आभीरदृष्टदौर्जन्यो नीलपद्मनिभाननः || 49 ||

मातृदर्शितविश्वाऽऽस्य उलूखलनिबंधनः |
नलकूबरशापांतो गोधूळिच्छुरितांगकः || 50 ||

गोसंघरक्षकः श्रीशो बृंदारण्यनिवासकः |
वत्सांतको बकद्वेषी दैत्यांबुदमहानिलः || 51 ||

महाजगरचंडाग्निः शकटप्राणकंटकः |
इंद्रसेव्यः पुण्यगात्रः खरजिच्चंडदीधितिः || 52 ||

तालपक्वफलाशी च काळीयफणिदर्पहा |
नागपत्नीस्तुतिप्रीतः प्रलंबासुरखंडनः || 53 ||

दावाग्निबलसंहारी फलाहारी गदाग्रजः |
गोपांगनाचेलचोरः पाथोलीलाविशारदः || 54 ||

वंशगानप्रवीणश्च गोपीहस्तांबुजार्चितः |
मुनिपत्न्याहृताहारो मुनिश्रेष्ठो मुनिप्रियः || 55 ||

गोवर्धनाद्रिसंधर्ता संक्रंदनतमोऽपहः |
सदुद्यानविलासी च रासक्रीडापरायणः || 56 ||

वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तमः |
अक्रूरस्तुतिसंप्रीतः कुब्जायौवनदायकः || 57 ||

मुष्टिकोरःप्रहारी च चाणूरोदरदारणः |
मल्लयुद्धाग्रगण्यश्च पितृबंधनमोचकः || 58 ||

मत्तमातंगपंचास्यः कंसग्रीवानिकृंतनः |
उग्रसेनप्रतिष्ठाता रत्नसिंहासनस्थितः || 59 ||

कालनेमिखलद्वेषी मुचुकुंदवरप्रदः |
साल्वसेवितदुर्धर्षराजस्मयनिवारणः || 60 ||

रुक्मिगर्वापहारी च रुक्मिणीनयनोत्सवः |
प्रद्युम्नजनकः कामी प्रद्युम्नो द्वारकाधिपः || 61 ||

मण्याहर्ता महामायो जांबवत्कृतसंगरः |
जांबूनदांबरधरो गम्यो जांबवतीविभुः || 62 ||

कालिंदीप्रथितारामकेलिर्गुंजावतंसकः |
मंदारसुमनोभास्वान् शचीशाभीष्टदायकः || 63 ||

सत्राजिन्मानसोल्लासी सत्याजानिः शुभावहः |
शतधन्वहरः सिद्धः पांडवप्रियकोत्सवः || 64 ||

भद्रप्रियः सुभद्राया भ्राता नाग्नाजितीविभुः |
किरीटकुंडलधरः कल्पपल्लवलालितः || 65 ||

भैष्मीप्रणयभाषावान् मित्रविंदाधिपोऽभयः |
स्वमूर्तिकेलिसंप्रीतो लक्ष्मणोदारमानसः || 66 ||

प्राग्ज्योतिषाधिपध्वंसी तत्सैन्यांतकरोऽमृतः |
भूमिस्तुतो भूरिभोगो भूषणांबरसंयुतः || 67 ||

बहुरामाकृताह्लादो गंधमाल्यानुलेपनः |
नारदादृष्टचरितो देवेशो विश्वराड्गुरुः || 68 ||

बाणबाहुविदारश्च तापज्वरविनाशकः |
उषोद्धर्षयिताऽव्यक्तः शिववाक्तुष्टमानसः || 69 ||

महेशज्वरसंस्तुत्यः शीतज्वरभयांतकः |
नृगराजोद्धारकश्च पौंड्रकादिवधोद्यतः || 70 ||

विविधारिच्छलोद्विग्नब्राह्मणेषु दयापरः |
जरासंधबलद्वेषी केशिदैत्यभयंकरः || 71 ||

चक्री चैद्यांतकः सभ्यो राजबंधविमोचकः |
राजसूयहविर्भोक्ता स्निग्धांगः शुभलक्षणः || 72 ||

धानाभक्षणसंप्रीतः कुचेलाभीष्टदायकः |
सत्त्वादिगुणगंभीरो द्रौपदीमानरक्षकः || 73 ||

भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः |
दंतवक्त्रशिरश्छेत्ता कृष्णः कृष्णासखः स्वराट् || 74 ||

वैजयंतीप्रमोदी च बर्हिबर्हविभूषणः |
पार्थकौरवसंधानकारी दुश्शासनांतकः || 75 ||

बुद्धो विशुद्धः सर्वज्ञः क्रतुहिंसाविनिंदकः |
त्रिपुरस्त्रीमानभंगः सर्वशास्त्रविशारदः || 76 ||

निर्विकारो निर्ममश्च निराभासो निरामयः |
जगन्मोहकधर्मी च दिग्वस्त्रो दिक्पतीश्वरः || 77 ||

कल्की म्लेच्छप्रहर्ता च दुष्टनिग्रहकारकः |
धर्मप्रतिष्टाकारी च चातुर्वर्ण्यविभागकृत् || 78 ||

युगांतको युगाक्रांतो युगकृद्युगभासकः |
कामारिः कामकारी च निष्कामः कामितार्थदः || 79 ||

भर्गो वरेण्यः सवितुः शार्ङ्गी वैकुंठमंदिरः |
हयग्रीवः कैटभारिः ग्राहघ्नो गजरक्षकः || 80 ||

सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः |
कपर्दी कामहारी च कला काष्ठा स्मृतिर्धृतिः || 81 ||

अनादिरप्रमेयौजाः प्रधानः सन्निरूपकः |
निर्लेपो निःस्पृहोऽसंगो निर्भयो नीतिपारगः || 82 ||

निष्प्रेष्यो निष्क्रियः शांतो निष्प्रपंचो निधिर्नयः
कर्म्यकर्मी विकर्मी च कर्मेप्सुः कर्मभावनः || 83 ||

कर्मांगः कर्मविन्यासो महाकर्मी महाव्रती |
कर्मभुक्कर्मफलदः कर्मेशः कर्मनिग्रहः || 84 ||

नरो नारायणो दांतः कपिलः कामदः शुचिः |
तप्ता जप्ताऽक्षमालावान् गंता नेता लयो गतिः || 85 ||

शिष्टो द्रष्टा रिपुद्वेष्टा रोष्टा वेष्टा महानटः |
रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यधीः शुभः || 86 ||

मंत्री मंत्रो मंत्रगम्यो मंत्रकृत्परमंत्रहृत् |
मंत्रभृन्मंत्रफलदो मंत्रेशो मंत्रविग्रहः || 87 ||

मंत्रांगो मंत्रविन्यासो महामंत्रो महाक्रमः |
स्थिरधीः स्थिरविज्ञानः स्थिरप्रज्ञः स्थिरासनः || 88 ||

स्थिरयोगः स्थिराधारः स्थिरमार्गः स्थिरागमः |
निश्श्रेयसो निरीहोऽग्निर्निरवद्यो निरंजनः || 89 ||

निर्वैरो निरहंकारो निर्दंभो निरसूयकः |
अनंतोऽनंतबाहूरुरनंतांघ्रिरनंतदृक् || 90 ||

अनंतवक्त्रोऽनंतांगोऽनंतरूपो ह्यनंतकृत् |
ऊर्ध्वरेता ऊर्ध्वलिंगो ह्यूर्ध्वमूर्धोर्ध्वशाखकः || 91 ||

ऊर्ध्व ऊर्ध्वाध्वरक्षी च ह्यूर्ध्वज्वालो निराकुलः |
बीजं बीजप्रदो नित्यो निदानं निष्कृतिः कृती || 92 ||

महानणीयन् गरिमा सुषमा चित्रमालिकः |
नभः स्पृङ्नभसो ज्योतिर्नभस्वान्निर्नभा नभः || 93 ||

अभुर्विभुः प्रभुः शंभुर्महीयान् भूर्भुवाकृतिः |
महानंदो महाशूरो महोराशिर्महोत्सवः || 94 ||

महाक्रोधो महाज्वालो महाशांतो महागुणः |
सत्यव्रतः सत्यपरः सत्यसंधः सतां गतिः || 95 ||

सत्येशः सत्यसंकल्पः सत्यचारित्रलक्षणः |
अंतश्चरो ह्यंतरात्मा परमात्मा चिदात्मकः || 96 ||

रोचनो रोचमानश्च साक्षी शौरिर्जनार्दनः |
मुकुंदो नंदनिष्पंदः स्वर्णबिंदुः पुरंदरः || 97 ||

अरिंदमः सुमंदश्च कुंदमंदारहासवान् |
स्यंदनारूढचंडांगो ह्यानंदी नंदनंदनः || 98 ||

अनसूयानंदनोऽत्रिनेत्रानंदः सुनंदवान् |
शंखवान्पंकजकरः कुंकुमांको जयांकुशः || 99 ||

अंभोजमकरंदाढ्यो निष्पंकोऽगरुपंकिलः |
इंद्रश्चंद्ररथश्चंद्रोऽतिचंद्रश्चंद्रभासकः || 100 ||

उपेंद्र इंद्रराजश्च वागिंद्रश्चंद्रलोचनः |
प्रत्यक् पराक् परंधाम परमार्थः परात्परः || 101 ||

अपारवाक् पारगामी पारावारः परावरः |
सहस्वानर्थदाता च सहनः साहसी जयी || 102 ||

तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः |
ऐश्वर्योद्भूतिकृद्भूतिरैश्वर्यांगकलापवान् || 103 ||

अंभोधिशायी भगवान् सर्वज्ञः सामपारगः |
महायोगी महाधीरो महाभोगी महाप्रभुः || 104 ||

महावीरो महातुष्टिर्महापुष्टिर्महागुणः |
महादेवो महाबाहुर्महाधर्मो महेश्वरः || 105 ||

समीपगो दूरगामी स्वर्गमार्गनिरर्गलः |
नगो नगधरो नागो नागेशो नागपालकः || 106 ||

हिरण्मयः स्वर्णरेता हिरण्यार्चिर्हिरण्यदः |
गुणगण्यः शरण्यश्च पुण्यकीर्तिः पुराणगः || 107 ||

जन्यभृज्जन्यसन्नद्धो दिव्यपंचायुधो वशी |
दौर्जन्यभंगः पर्जन्यः सौजन्यनिलयोऽलयः || 108 ||

जलंधरांतको भस्मदैत्यनाशी महामनाः |
श्रेष्ठः श्रविष्ठो द्राघिष्ठो गरिष्ठो गरुडध्वजः || 109 ||

ज्येष्ठो द्रढिष्ठो वर्षिष्ठो द्राघीयान् प्रणवः फणी |
संप्रदायकरः स्वामी सुरेशो माधवो मधुः || 110 ||

निर्निमेषो विधिर्वेधा बलवान् जीवनं बली |
स्मर्ता श्रोता विकर्ता च ध्याता नेता समोऽसमः || 111 ||

होता पोता महावक्ता रंता मंता खलांतकः |
दाता ग्राहयिता माता नियंताऽनंतवैभवः || 112 ||

गोप्ता गोपयिता हंता धर्मजागरिता धवः |
कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ आत्मवित् || 113 ||

क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुत् |
भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायकः || 114 ||

शक्तियुङ्मौक्तिकस्रग्वी सूक्तिराम्नायसूक्तिगः |
धनंजयो धनाध्यक्षो धनिको धनदाधिपः || 115 ||

महाधनो महामानी दुर्योधनविमानितः |
रत्नाकरो रत्नरोची रत्नगर्भाश्रयः शुचिः || 116 ||

रत्नसानुनिधिर्मौळिरत्नभा रत्नकंकणः |
अंतर्लक्ष्योऽंतरभ्यासी चांतर्ध्येयो जितासनः || 117 ||

अंतरंगो दयावांश्च ह्यंतर्मायो महार्णवः |
सरसः सिद्धरसिकः सिद्धिः साध्यः सदागतिः || 118 ||

आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः |
अष्टश्रीरष्टभागोऽष्टककुब्व्याप्तयशो व्रती || 119 ||

अष्टापदः सुवर्णाभो ह्यष्टमूर्तिस्त्रिमूर्तिमान् |
अस्वप्नः स्वप्नगः स्वप्नः सुस्वप्नफलदायकः || 120 ||

दुःस्वप्नध्वंसको ध्वस्तदुर्निमित्तः शिवंकरः |
सुवर्णवर्णः संभाव्यो वर्णितो वर्णसम्मुखः || 121 ||

सुवर्णमुखरीतीरशिवध्यातपदांबुजः |
दाक्षायणीवचस्तुष्टो दूर्वासोदृष्टिगोचरः || 122 ||

अंबरीषव्रतप्रीतो महाकृत्तिविभंजनः |
महाभिचारकध्वंसी कालसर्पभयांतकः || 123 ||

सुदर्शनः कालमेघश्यामः श्रीमंत्रभावितः |
हेमांबुजसरःस्नायी श्रीमनोभाविताकृतिः || 124 ||

श्रीप्रदत्तांबुजस्रग्वी श्रीकेळिः श्रीनिधिर्भवः |
श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः || 125 ||

संतृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदर्शकः |
अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः || 126 ||

कपिलार्चिः कपिलवान् सुस्नाताघविपाटनः |
वृषाकपिः कपिस्वामिमनोऽन्तःस्थितविग्रहः || 127 ||

वह्निप्रियोऽर्थसंभाव्यो जनलोकविधायकः |
वह्निप्रभो वह्नितेजाः शुभाभीष्टप्रदो यमी || 128 ||

वारुणक्षेत्रनिलयो वरुणो वारणार्चितः |
वायुस्थानकृतावासो वायुगो वायुसंभृतः || 129 ||

यमांतकोऽभिजननो यमलोकनिवारणः |
यमिनामग्रगण्यश्च संयमी यमभावितः || 130 ||

इंद्रोद्यानसमीपस्थः इंद्रदृग्विषयः प्रभुः |
यक्षराट् सरसीवासो ह्यक्षय्यनिधिकोशकृत् || 131 ||

स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः |
वराहाद्यष्टतीर्थाभिसेवितांघ्रिसरोरुहः || 132 ||

पांडुतीर्थाभिषिक्तांगो युधिष्ठिरवरप्रदः |
भीमांतःकरणारूढः श्वेतवाहनसख्यवान् || 133 ||

नकुलाभयदो माद्रीसहदेवाभिवंदितः |
कृष्णाशपथसंधाता कुंतीस्तुतिरतो दमी || 134 ||

नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः |
दर्शिताव्यक्तरूपश्च वीणानादप्रमोदितः || 135 ||

षट्कोटितीर्थचर्यावान् देवतीर्थकृताश्रमः |
बिल्वामलजलस्नायी सरस्वत्यंबुसेवितः || 136 ||

तुंबुरूदकसंस्पर्शजनचित्ततमोऽपहः |
मत्स्यवामनकूर्मादितीर्थराजः पुराणभृत् || 137 ||

चक्रध्येयपदांभोजः शंखपूजितपादुकः |
रामतीर्थविहारी च बलभद्रप्रतिष्ठितः || 138 ||

जामदग्न्यसरस्तीर्थजलसेचनतर्पितः |
पापापहारिकीलालसुस्नाताघविनाशनः || 139 ||

नभोगंगाभिषिक्तश्च नागतीर्थाभिषेकवान् |
कुमारधारातीर्थस्थो वटुवेषः सुमेखलः || 140 ||

वृद्धस्य सुकुमारत्वप्रदः सौंदर्यवान् सुखी |
प्रियंवदो महाकुक्षिरिक्ष्वाकुकुलनंदनः || 141 ||

नीलगोक्षीरधाराभूर्वराहाचलनायकः |
भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः || 142 ||

अंजनाकृतपूजावान् आंजनेयकरार्चितः |
अंजनाद्रिनिवासश्च मुंजकेशः पुरंदरः || 143 ||

किन्नरद्वयसंबंधिबंधमोक्षप्रदायकः |
वैखानसमखारंभो वृषज्ञेयो वृषाचलः || 144 ||

वृषकायप्रभेत्ता च क्रीडनाचारसंभ्रमः |
सौवर्चलेयविन्यस्तराज्यो नारायणः प्रियः || 145 ||

दुर्मेधोभंजकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः |
भद्रासुरशिरश्छेत्ता भद्रक्षेत्री सुभद्रवान् || 146 ||

मृगयाऽक्षीणसन्नाहः शंखराजन्यतुष्टिदः |
स्थाणुस्थो वैनतेयांगभावितो ह्यशरीरवान् || 147 ||

भोगींद्रभोगसंस्थानो ब्रह्मादिगणसेवितः |
सहस्रार्कच्छटाभास्वद्विमानांतःस्थितो गुणी || 148 ||

विष्वक्सेनकृतस्तोत्रः सनंदनवरीवृतः |
जाह्नव्यादिनदीसेव्यः सुरेशाद्यभिवंदितः || 149 ||

सुरांगनानृत्यपरो गंधर्वोद्गायनप्रियः |
राकेंदुसंकाशनखः कोमलांघ्रिसरोरुहः || 150 ||

कच्छपप्रपदः कुंदगुल्फकः स्वच्छकूर्परः |
मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलः || 151 ||

प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभंकरः |
अनंतपद्मजस्थाननाभिर्मौक्तिकमालिकः || 152 ||

मंदारचांपेयमाली रत्नाभरणसंभृतः |
लंबयज्ञोपवीती च चंद्रश्रीखंडलेपवान् || 153 ||

वरदोऽभयदश्चक्री शंखी कौस्तुभदीप्तिमान् |
श्रीवत्सांकितवक्षस्को लक्ष्मीसंश्रितहृत्तटः || 154 ||

नीलोत्पलनिभाकारः शोणांभोजसमाननः |
कोटिमन्मथलावण्यश्चंद्रिकास्मितपूरितः || 155 ||

सुधास्वच्छोर्ध्वपुंड्रश्च कस्तूरीतिलकांचितः |
पुंडरीकेक्षणः स्वच्छो मौलिशोभाविराजितः || 156 ||

पद्मस्थः पद्मनाभश्च सोममंडलगो बुधः |
वह्निमंडलगः सूर्यः सूर्यमंडलसंस्थितः || 157 ||

श्रीपतिर्भूमिजानिश्च विमलाद्यभिसंवृतः |
जगत्कुटुंबजनिता रक्षकः कामितप्रदः || 158 ||

अवस्थात्रययंता च विश्वतेजस्स्वरूपवान् |
ज्ञप्तिर्ज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः || 159 ||

ब्रह्मांडांतर्बहिर्व्याप्तो वेंकटाद्रिगदाधरः |
वेंकटाद्रिगदाधर ॐ नमः इति ||
एवं श्रीवेंकटेशस्य कीर्तितं परमाद्भुतं || 160 ||

नाम्नां सहस्रं संश्राव्यं पवित्रं पुण्यवर्धनं |
श्रवणात्सर्वदोषघ्नं रोगघ्नं मृत्युनाशनं || 1 ||

दारिद्र्यभेदनं धर्म्यं सर्वैश्वर्यफलप्रदं |
कालाहिविषविच्छेदि ज्वरापस्मारभंजनं || 2 ||

[शत्रुक्षयकरं राजग्रहपीडानिवारणं |
ब्रह्मराक्षसकूष्मांडभेतालभयभंजनं ||]

विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् |
अनंतकल्पजीवी स्यादायुष्कामो महायशाः || 3 ||

पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्ततः |
संग्रामे शत्रुविजयी सभायां प्रतिवादिजित् || 4 ||

दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् |
वैकुंठवासी भगवत्सदृशो विष्णुसन्निधौ || 5 ||

कल्हारपूजनान्मासात् द्वितीय इव यक्षराट् |
नीलोत्पलार्चनात्सर्वराजपूज्यः सदा भवेत् || 6 ||

हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः |
वांछितार्थं तदा दत्वा वैकुंठं च प्रयच्छति || 7 ||

त्रिसंध्यं यो जपेन्नित्यं संपूज्य विधिना विभुं |
त्रिवारं पंचवारं वा प्रत्यहं क्रमशो यमी || 8 ||

मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेंद्रता |
त्रिमासान्महदैश्वर्यं ततः संभाषणं भवेत् || 9 ||

मासं पठन्न्यूनकर्मपूर्तिं च समवाप्नुयात् |
मार्गभ्रष्टश्च सन्मार्गं गतस्वः स्वं स्वकीयकं || 10 ||

चांचल्यचित्तोऽचांचल्यं मनस्स्वास्थ्यं च गच्छति |
आयुरारोग्यमैश्वर्यं ज्ञानं मोक्षं च विंदति || 11 ||

सर्वान्कामानवाप्नोति शाश्वतं च पदं तथा |
सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं न संशयः || 12 ||

इति श्री ब्रह्मांडपुराणे वसिष्ठनारदसंवादे श्रीवेंकटाचलमाहात्म्ये श्री वेंकटेश सहस्रनाम स्तोत्रं समाप्तं |

अर्थ

श्री वेंकटेश सहस्रनाम स्तोत्रं भगवान श्री वेंकटेश्वर स्वामी के एक हजार पवित्र नामों का संग्रह है। यह स्तोत्र भगवान के अनंत गुणों, महिमाओं और लीलाओं का विस्तृत वर्णन करता है। पौराणिक कथाओं के अनुसार, इस स्तोत्र की उत्पत्ति वसिष्ठ महर्षि और नारद मुनि के संवाद से हुई है। वसिष्ठ ने नारद से पूछा, "हे भगवन, ब्रह्माजी ने किस विधि से और किन शुभ कमलों से भगवान वेंकटेश्वर की पूजा की थी? कृपया बताएं कि वे नाम गुणवाचक थे, मुख्यवृत्ति वाले थे या लक्षणा वाले थे।"

इसके उत्तर में नारद मुनि ने बताया, "भगवान हरि के नाम अनंत हैं। उनमें से कुछ गुणों पर आधारित हैं, कुछ मुख्य अर्थ वाले हैं, और कुछ लक्षणा वाले हैं। वास्तव में, सभी शब्दों द्वारा केवल परम पुरुष भगवान को ही जानना चाहिए, जो आदि, मध्य और अंत से रहित हैं, अव्यक्त हैं और अनंत रूपों को धारण करने वाले हैं।" नारदजी आगे बताते हैं कि सूर्य, चंद्रमा, अग्नि, वायु, ग्रह, नक्षत्र, आकाश और दिशाएं - ये सभी उनकी इच्छा से ही अस्तित्व में हैं और उनकी इच्छा से ही विलीन हो जाते हैं। ऐसे महिमामयी देवता के नामों का पार पाना किसी के लिए संभव नहीं है।

फिर भी, नारदजी वसिष्ठ को ब्रह्मा द्वारा गाए गए कुछ पुण्यकारी वेंकटेश नामों को बताने का वचन देते हैं। वे कहते हैं, "इन नामों के उच्चारण मात्र से ही व्यक्ति पापों से मुक्त होकर परम पद को प्राप्त होता है।" इस सहस्रनाम स्तोत्र के ऋषि विधाता (ब्रह्मा) हैं, छंद अनुष्टुप है, देवता श्रीवत्सांक रमापति श्री वेंकटेश्वर हैं। ओंकार बीज है और ह्रीं क्लीं इसकी शक्ति है। यह स्तोत्र की आध्यात्मिक गहराई और शक्ति को दर्शाता है, जो इसे एक अत्यंत प्रभावशाली प्रार्थना बनाता है।

यह स्तोत्र भगवान वेंकटेश्वर की कृपा प्राप्त करने का एक उत्कृष्ट माध्यम है। इसका प्रतिदिन पाठ करने से भक्त दिव्य शक्ति से जुड़ते हैं, मन की शांति प्राप्त करते हैं और जीवन की बाधाओं को दूर करते हैं। तिरुमाला के स्वामी श्री वेंकटेश्वर कलयुग के प्रत्यक्ष देवता हैं, और इस सहस्रनाम का पाठ भक्तों को सीधे उनका आशीर्वाद प्रदान करता है। यह स्तोत्र न केवल भक्ति को बढ़ाता है, बल्कि आध्यात्मिक उन्नति और आंतरिक शुद्धि भी प्रदान करता है।

लाभ (Benefits):

  • पाप मुक्ति: इस स्तोत्र के नियमित पाठ से पूर्वजन्म और वर्तमान जन्म के सभी पाप नष्ट होते हैं, जिससे मानसिक शुद्धि और आध्यात्मिक उत्थान होता है।
  • मनोकामना पूर्ति: भगवान वेंकटेश्वर भक्तों की सभी मनोकामनाओं को पूर्ण करने वाले करुणावान देवता हैं। इन नामों का जाप करने से भक्त की इच्छाएं पूर्ण होती हैं।
  • स्वास्थ्य और धन की प्राप्ति: इस स्तोत्र का पाठ उत्तम स्वास्थ्य, धन-धान्य और समृद्धि लाता है। यह आर्थिक संकटों को दूर करने में सहायक है।
  • शांति और सुरक्षा: नकारात्मक शक्तियों और प्रभावों से रक्षा मिलती है। मन में शांति, धैर्य और आत्मविश्वास का संचार होता है।
  • मोक्ष प्राप्ति: अंततः, इस स्तोत्र का भक्तिपूर्ण पाठ जन्म-मृत्यु के चक्र से मुक्ति दिलाकर भगवान के परमधाम की प्राप्ति में सहायता करता है।

अक्सर पूछे जाने वाले प्रश्न

श्री वेंकटेश सहस्रनाम स्तोत्रं क्या है?
यह भगवान श्री वेंकटेश्वर स्वामी के एक हजार पवित्र नामों का संग्रह है। ये नाम भगवान की महिमा, गुणों और दिव्य लीलाओं का वर्णन करते हैं, जो भक्तों को उनकी कृपा प्राप्त करने में सहायक होते हैं।
इस स्तोत्र का पाठ कब और कैसे करना चाहिए?
इस स्तोत्र का पाठ प्रतिदिन सुबह स्नान के बाद, शुद्ध मन और भक्तिभाव से करना चाहिए। शुक्रवार को या तिरुमाला यात्रा से पहले इसका पाठ विशेष रूप से शुभ माना जाता है।
श्री वेंकटेश सहस्रनाम स्तोत्र के पाठ के क्या लाभ हैं?
इसके पाठ से पापों का नाश होता है, सभी मनोकामनाएं पूर्ण होती हैं, उत्तम स्वास्थ्य, धन और मन की शांति प्राप्त होती है। यह मोक्ष प्राप्ति में भी सहायक है।
इस स्तोत्र का पाठ कौन कर सकता है?
कोई भी भक्त, लिंग, जाति या आयु के भेदभाव के बिना, शुद्ध हृदय और श्रद्धा के साथ इस स्तोत्र का पाठ कर सकता है।
उत्तम परिणामों के लिए इस स्तोत्र का पाठ कितनी बार करना चाहिए?
नियमित रूप से कम से कम एक बार पाठ करना सर्वोत्तम है। इच्छा अनुसार, 11, 21, या 108 बार जाप माला के साथ भी इसका पाठ किया जा सकता है।
इस स्तोत्र का उद्भव या स्रोत क्या है?
यह स्तोत्र वसिष्ठ और नारद मुनि के बीच के संवाद से उत्पन्न हुआ है। पुराणों के अनुसार, ये वे नाम हैं जिनका उपयोग ब्रह्माजी ने श्री वेंकटेश्वर की पूजा करने के लिए किया था।

टिप्पणियाँ

टिप्पणी लिखने के लिए लॉगिन करें

टिप्पणियाँ लोड हो रही हैं...