व्यास उवाच |
कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान् |
शिवाय तन्ममाचक्ष्व लोकानुग्रहतत्पर || 1 ||
ब्रह्मोवाच |
देवदेवः पुरारातिः पुरत्रयजयोद्यमे |
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल || 2 ||
मनसा स विनिर्धार्य ततस्तद्विघ्नकारणं |
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि || 3 ||
विघ्नप्रशमनोपायमपृच्छदपराजितः |
संतुष्टः पूजया शंभोर्महागणपतिः स्वयं || 4 ||
सर्वविघ्नैकहरणं सर्वकामफलप्रदं |
ततस्तस्मै स्वकं नाम्नां सहस्रमिदमब्रवीत् || 5 ||
अस्य श्रीमहागणपति सहस्रनाममालामंत्रस्य महागणपति ऋषिः अनुष्टुप् छंदः श्रीमहागणपतिर्देवता गं बीजं हुं शक्तिः स्वाहा कीलकं श्रीमहागणपति प्रसादसिद्ध्यर्थे जपे विनियोगः |
ध्यानं |
गजवदनमचिंत्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणं |
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ||
स्तोत्रं |
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः |
एकदंष्ट्रो वक्रतुंडो गजवक्त्रो महोदरः || 1 ||
लंबोदरो धूम्रवर्णो विकटो विघ्ननायकः |
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः || 2 ||
भीमः प्रमोद आमोदः सुरानंदो मदोत्कटः |
हेरंबः शंबरः शंभुर्लंबकर्णो महाबलः || 3 ||
नंदनोऽलंपटोऽभीरुर्मेघनादो गणंजयः |
विनायको विरूपाक्षो धीरशूरो वरप्रदः || 4 ||
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः |
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः || 5 ||
कुमारगुरुरीशानपुत्रो मूषकवाहनः |
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः || 6 ||
अविघ्नस्तुंबुरुः सिंहवाहनो मोहिनीप्रियः |
कटंकटो राजपुत्रः शालकः सम्मितोऽमितः || 7 ||
कूष्मांडसामसंभूतिर्दुर्जयो धूर्जयो जयः |
भूपतिर्भुवनपतिर्भूतानांपतिरव्ययः || 8 || [भुवनेशानो]
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्घृणिः |
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः || 9 ||
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः |
हिरण्मयपुरांतःस्थः सूर्यमंडलमध्यगः || 10 ||
कराहतिध्वस्तसिंधुसलिलः पूषदंतभित् |
उमांककेलिकुतुकी मुक्तिदः कुलपालनः || 11 ||
किरीटी कुंडली हारी वनमाली मनोमयः |
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः || 12 ||
सद्योजातस्वर्णमुंजमेखली दुर्निमित्तहृत् |
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः || 13 ||
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः |
पीतांबरः खंडरदः खंडेंदुकृतशेखरः || 14 ||
चित्रांकश्यामदशनो फालचंद्रश्चतुर्भुजः |
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः || 15 ||
गणाधिराजो विजयस्थिरो गजपतिध्वजी |
देवदेवः स्मरप्राणदीपको वायुकीलकः || 16 ||
विपश्चिद्वरदो नादोन्नादभिन्नबलाहकः |
वराहरदनो मृत्युंजयो व्याघ्राजिनांबरः || 17 ||
इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः |
शंभुवक्त्रोद्भवः शंभुकोपहा शंभुहास्यभूः || 18 ||
शंभुतेजाः शिवाशोकहारी गौरीसुखावहः |
उमांगमलजो गौरीतेजोभूः स्वर्धुनीभवः || 19 ||
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः |
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्छ्रुतिः || 20 ||
ब्रह्मांडकुंभश्चिद्व्योमफालः सत्यशिरोरुहः |
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् || 21 ||
गिरींद्रैकरदो धर्माधर्मोष्ठः सामबृंहितः |
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः || 22 ||
कुलाचलांसः सोमार्कघंटो रुद्रशिरोधरः |
नदीनदभुजः सर्पांगुळीकस्तारकानखः || 23 ||
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोत्कटः |
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः || 24 ||
कुक्षिस्थयक्षगंधर्वरक्षःकिन्नरमानुषः |
पृथ्वीकटिः सृष्टिलिंगः शैलोरुर्दस्रजानुकः || 25 ||
पाताळजंघो मुनिपात्कालांगुष्ठस्त्रयीतनुः |
ज्योतिर्मंडललांगूलो हृदयालाननिश्चलः || 26 ||
हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः |
सद्भक्तध्याननिगडः पूजावारीनिवारितः || 27 ||
प्रतापी कश्यपसुतो गणपो विष्टपी बली |
यशस्वी धार्मिकः स्वोजाः प्रथमः प्रथमेश्वरः || 28 ||
चिंतामणिद्वीपपतिः कल्पद्रुमवनालयः |
रत्नमंडपमध्यस्थो रत्नसिंहासनाश्रयः || 29 ||
तीव्राशिरोधृतपदो ज्वालिनीमौलिलालितः |
नंदानंदितपीठश्रीर्भोगदाभूषितासनः || 30 ||
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः |
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः || 31 ||
सविघ्ननाशिनीपीठः सर्वशक्त्यंबुजाश्रयः |
लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः || 32 ||
उन्नतप्रपदो गूढगुल्फः संवृत्तपार्ष्णिकः |
पीनजंघः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः || 33 ||
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः |
पीनस्कंधः कंबुकंठो लंबोष्ठो लंबनासिकः || 34 ||
भग्नवामरदस्तुंगसव्यदंतो महाहनुः |
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः || 35 ||
स्तबकाकारकुंभाग्रो रत्नमौळिर्निरंकुशः |
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् || 36 ||
सर्पकोटीरकटकः सर्पग्रैवेयकांगदः |
सर्पकक्ष्योदराबंधः सर्पराजोत्तरीयकः || 37 ||
रक्तो रक्तांबरधरो रक्तमाल्यविभूषणः |
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः || 38 ||
श्वेतः श्वेतांबरधरः श्वेतमाल्यविभूषणः |
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः || 39 ||
सर्वावयवसंपूर्णसर्वलक्षणलक्षितः |
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः || 40 ||
सर्वमंगळमांगळ्यः सर्वकारणकारणं |
सर्वदैककरः शार्ङ्गी बीजापूरी गदाधरः || 41 ||
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् |
पाशी धृतोत्पलः शालीमंजरीभृत् स्वदंतभृत् || 42 ||
कल्पवल्लीधरो विश्वाभयदैककरो वशी |
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः || 43 ||
पूर्णपात्री कंबुधरो विधृतालिसमुद्गकः |
मातुलुंगधरश्चूतकलिकाभृत्कुठारवान् || 44 ||
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः |
भारतीसुंदरीनाथो विनायकरतिप्रियः || 45 ||
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः |
रमारमेशपूर्वांगो दक्षिणोमामहेश्वरः || 46 ||
महीवराहवामांगो रतिकंदर्पपश्चिमः |
आमोदमोदजननः सप्रमोदप्रमोदनः || 47 ||
समेधितसमृद्धश्रीरृद्धिसिद्धिप्रवर्तकः |
दत्तसौमुख्यसुमुखः कांतिकंदळिताश्रयः || 48 ||
मदनावत्याश्रितांघ्रिः कृत्तदौर्मुख्यदुर्मुखः |
विघ्नसंपल्लवोपघ्नसेवोन्निद्रमदद्रवः || 49 ||
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः |
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् || 50 ||
मोहिनीमोहनो भोगदायिनीकांतिमंडितः |
कामिनीकांतवक्त्रश्रीरधिष्ठितवसुंधरः || 51 ||
वसुंधरामदोन्नद्धमहाशंखनिधिप्रभुः |
नमद्वसुमतीमौलिमहापद्मनिधिप्रभुः || 52 ||
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः |
ईशानमूर्धा देवेंद्रशिखा पवननंदनः || 53 ||
अग्रप्रत्यग्रनयनो दिव्यास्त्राणांप्रयोगवित् |
ऐरावतादिसर्वाशावारणावरणप्रियः || 54 ||
वज्राद्यस्त्रपरीवारो गणचंडसमाश्रयः |
जयाजयपरीवारो विजयाविजयावहः || 55 ||
अजितार्चितपादाब्जो नित्यानित्यावतंसितः |
विलासिनीकृतोल्लासः शौंडीसौंदर्यमंडितः || 56 ||
अनंतानंतसुखदः सुमंगळसुमंगळः |
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः || 57 ||
सुभगासंश्रितपदो ललिताललिताश्रयः |
कामिनीकामनः काममालिनीकेळिलालितः || 58 ||
सरस्वत्याश्रयो गौरीनंदनः श्रीनिकेतनः |
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः || 59 ||
नलिनीकामुको वामारामो ज्येष्ठामनोरमः |
रौद्रीमुद्रितपादाब्जो हुंबीजस्तुंगशक्तिकः || 60 ||
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः |
अमृताब्धिकृतावासो मदघूर्णितलोचनः || 61 ||
उच्छिष्टगण उच्छिष्टगणेशो गणनायकः |
सार्वकालिकसंसिद्धिर्नित्यशैवो दिगंबरः || 62 ||
अनपायोऽनंतदृष्टिरप्रमेयोऽजरामरः |
अनाविलोऽप्रतिरथो ह्यच्युतोऽमृतमक्षरं || 63 ||
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः |
अमोघसिद्धिरद्वैतमघोरोऽप्रमिताननः || 64 ||
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः |
आधारपीठ आधार आधाराधेयवर्जितः || 65 ||
आखुकेतन आशापूरक आखुमहारथः |
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः || 66 ||
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः |
इंद्रगोपसमानश्रीरिंद्रनीलसमद्युतिः || 67 ||
इंदीवरदलश्यामः इंदुमंडलनिर्मलः |
इध्मप्रिय इडाभाग इडाधामेंदिराप्रियः || 68 ||
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः |
ईशानमौलिरीशान ईशानसुत ईतिहा || 69 ||
ईषणात्रयकल्पांत ईहामात्रविवर्जितः |
उपेंद्र उडुभृन्मौलिरुंडेरकबलिप्रियः || 70 ||
उन्नतानन उत्तुंगः उदारत्रिदशाग्रणीः |
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः || 71 ||
ऋग्यजुःसामसंभूतिरृद्धिसिद्धिप्रवर्तकः |
ऋजुचित्तैकसुलभः ऋणत्रयविमोचकः || 72 ||
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषां |
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः || 73 ||
एकारपीठमध्यस्थः एकपादकृतासनः |
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः || 74 ||
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः |
ऐरम्मदसमोन्मेषः ऐरावतनिभाननः || 75 ||
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः |
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिस्वनः || 76 ||
अंकुशःसुरनागानामंकुशःसुरविद्विषां |
अःसमस्तविसर्गांतपदेषुपरिकीर्तितः || 77 ||
कमंडलुधरः कल्पः कपर्दी कलभाननः |
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः || 78 ||
कदंबगोलकाकारः कूष्मांडगणनायकः |
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् || 79 ||
खर्वः खड्गप्रियः खड्गखातांतस्थः खनिर्मलः |
खल्वाटशृंगनिलयः खट्वांगी खदुरासदः || 80 ||
गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः |
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः || 81 ||
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः |
गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरुः || 82 ||
घंटाघर्घरिकामाली घटकुंभो घटोदरः |
चंडश्चंडेश्वरसुहृच्चंडीशश्चंडविक्रमः || 83 ||
चराचरपतिश्चिंतामणिचर्वणलालसः |
छंदश्छंदोवपुश्छंदोदुर्लक्ष्यश्छंदविग्रहः || 84 ||
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः |
जपो जपपरो जप्यो जिह्वासिंहासनप्रभुः || 85 ||
झलज्झलोल्लसद्दानझंकारिभ्रमराकुलः |
टंकारस्फारसंरावष्टंकारिमणिनूपुरः || 86 ||
ठद्वयीपल्लवांतःस्थसर्वमंत्रैकसिद्धिदः |
डिंडिमुंडो डाकिनीशो डामरो डिंडिमप्रियः || 87 ||
ढक्कानिनादमुदितो ढौको ढुंढिविनायकः |
तत्त्वानां परमं तत्त्वं तत्त्वं पदनिरूपितः || 88 ||
तारकांतरसंस्थानस्तारकस्तारकांतकः |
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जंगमं जगत् || 89 ||
दक्षयज्ञप्रमथनो दाता दानवमोहनः |
दयावान् दिव्यविभवो दंडभृद्दंडनायकः || 90 ||
दंतप्रभिन्नाभ्रमालो दैत्यवारणदारणः |
दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृतिः || 91 ||
धनधान्यपतिर्धन्यो धनदो धरणीधरः |
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः || 92 ||
नंद्यो नंदिप्रियो नादो नादमध्यप्रतिष्ठितः |
निष्कळो निर्मलो नित्यो नित्यानित्यो निरामयः || 93 ||
परं व्योम परं धाम परमात्मा परं पदं |
परात्परः पशुपतिः पशुपाशविमोचकः || 94 ||
पूर्णानंदः परानंदः पुराणपुरुषोत्तमः |
पद्मप्रसन्ननयनः प्रणताऽज्ञानमोचनः || 95 ||
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः |
फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः || 96 ||
बाणार्चितांघ्रियुगळो बालकेळिकुतूहली |
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः || 97 ||
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः |
बृहन्नादाग्र्यचीत्कारो ब्रह्मांडावलिमेखलः || 98 ||
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः |
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः || 99 ||
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः |
मंत्रो मंत्रपतिर्मंत्री मदमत्तमनोरमः || 100 ||
मेखलावान् मंदगतिर्मतिमत्कमलेक्षणः |
महाबलो महावीर्यो महाप्राणो महामनाः || 101 ||
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः |
यशस्करो योगगम्यो याज्ञिको याजकप्रियः || 102 ||
रसो रसप्रियो रस्यो रंजको रावणार्चितः |
रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः || 103 ||
लक्ष्यं लक्षप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः |
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः || 104 ||
वरेण्यो वह्निवदनो वंद्यो वेदांतगोचरः |
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः || 105 ||
वामदेवो विश्वनेता वज्रिवज्रनिवारणः |
विश्वबंधनविष्कंभाधारो विश्वेश्वरप्रभुः || 106 ||
शब्दब्रह्म शमप्राप्यः शंभुशक्तिगणेश्वरः |
शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः || 107 ||
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः |
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजं || 108 ||
सृष्टिस्थितिलयक्रीडः सुरकुंजरभेदनः |
सिंदूरितमहाकुंभः सदसद्व्यक्तिदायकः || 109 ||
साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः |
स्वतंत्रः सत्यसंकल्पः सामगानरतः सुखी || 110 ||
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् |
हव्यो हुतप्रियो हर्षो हृल्लेखामंत्रमध्यगः || 111 ||
क्षेत्राधिपः क्षमाभर्ता क्षमापरपरायणः |
क्षिप्रक्षेमकरः क्षेमानंदः क्षोणीसुरद्रुमः || 112 ||
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः |
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः || 113 ||
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः |
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः || 114 ||
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः |
प्रतिवादिमुखस्तंभो रुष्टचित्तप्रसादनः || 115 ||
पराभिचारशमनो दुःखभंजनकाराकः |
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परः क्षणः || 116 ||
घटी मुहूर्तं प्रहरो दिवानक्तमहर्निशं |
पक्षो मासोऽयनं वर्षं युगं कल्पो महालयः || 117 ||
राशिस्तारा तिथिर्योगो वारः करणमंशकं |
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः || 118 ||
राहुर्मंदः कविर्जीवो बुधो भौमः शशी रविः |
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जंगमं च यत् || 119 ||
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् |
ब्रह्मा विष्णुः शिवो रुद्रः ईशः शक्तिः सदाशिवः || 120 ||
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः |
साध्या विद्याधरा भूता मनुष्याः पशवः खगाः || 121 ||
समुद्राः सरितः शैलाः भूतं भव्यं भवोद्भवः |
सांख्यं पातंजलं योगः पुराणानि श्रुतिः स्मृतिः || 122 ||
वेदांगानि सदाचारो मीमांसा न्यायविस्तरः |
आयुर्वेदो धनुर्वेदो गांधर्वं काव्यनाटकं || 123 ||
वैखानसं भागवतं सात्वतं पांचरात्रकं |
शैवं पाशुपतं कालामुखं भैरवशासनं || 124 ||
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता |
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनं || 125 ||
बंधो मोक्षः सुखं भोगोऽयोगः सत्यमणुर्महान् |
स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड्वौषड्वषण्णमः || 126 ||
ज्ञानं विज्ञानमानंदो बोधः संविच्छमो यमः |
एक एकाक्षराधारः एकाक्षरपरायणः || 127 ||
एकाग्रधीरेकवीरः एकानेकस्वरूपधृक् |
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः || 128 ||
द्वैमातुरो द्विवदनो द्वंद्वातीतो द्वयातिगः |
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः || 129 ||
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः |
चतुर्बाहुश्चतुर्दंतश्चतुरात्मा चतुर्मुखः || 130 ||
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः |
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः || 131 ||
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसंभवः |
पंचाक्षरात्मा पंचात्मा पंचास्यः पंचकृत्यकृत् || 132 ||
पंचाधारः पंचवर्णः पंचाक्षरपरायणः |
पंचतालः पंचकरः पंचप्रणवभावितः || 133 ||
पंचब्रह्ममयस्फूर्तिः पंचावरणवारितः |
पंचभक्ष्यप्रियः पंचबाणः पंचशिवात्मकः || 134 ||
षट्कोणपीठः षट्चक्रधामा षड्ग्रंथिभेदकः |
षडध्वध्वांतविध्वंसी षडंगुलमहाह्रदः || 135 ||
षण्मुखः षण्मुखभ्राता षट्छक्तिपरिवारितः |
षड्वैरिवर्गविध्वंसी षडूर्मिभयभंजनः || 136 ||
षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः |
सप्तपातालचरणः सप्तद्वीपोरुमंडलः || 137 ||
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः |
सप्तांगराज्यसुखदः सप्तर्षिगणमंडितः || 138 ||
सप्तच्छंदोनिधिः सप्तहोता सप्तस्वराश्रयः |
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः || 139 ||
सप्तच्छंदोमोदमदः सप्तच्छंदोमखप्रभुः |
अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणं || 140 ||
अष्टांगयोगफलभूरष्टपत्रांबुजासनः |
अष्टशक्तिसमृद्धश्रीरष्टैश्वर्यप्रदायकः || 141 ||
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः |
अष्टभैरवसेव्योऽष्टवसुवंद्योऽष्टमूर्तिभृत् || 142 ||
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः |
नवनागासनाध्यासी नवनिध्यनुशासिता || 143 ||
नवद्वारपुराधारो नवाधारनिकेतनः |
नवनारायणस्तुत्यो नवदुर्गानिषेवितः || 144 ||
नवनाथमहानाथो नवनागविभूषणः |
नवरत्नविचित्रांगो नवशक्तिशिरोधृतः || 145 ||
दशात्मको दशभुजो दशदिक्पतिवंदितः |
दशाध्यायो दशप्राणो दशेंद्रियनियामकः || 146 ||
दशाक्षरमहामंत्रो दशाशाव्यापिविग्रहः |
एकादशादिभीरुद्रैःस्तुत एकादशाक्षरः || 147 ||
द्वादशोद्दंडदोर्दंडो द्वादशांतनिकेतनः |
त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवतं || 148 ||
चतुर्दशेंद्रवरदश्चतुर्दशमनुप्रभुः |
चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प्रभुः || 149 ||
सामपंचदशः पंचदशीशीतांशुनिर्मलः |
षोडशाधारनिलयः षोडशस्वरमातृकः || 150 ||
षोडशांतपदावासः षोडशेंदुकळात्मकः |
कळासप्तदशी सप्तदशः सप्तदशाक्षरः || 151 ||
अष्टादशद्वीपपतिरष्टादशपुराणकृत् |
अष्टादशौषधीसृष्टिरष्टादशविधिस्मृतः || 152 ||
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः |
एकविंशःपुमानेकविंशत्यंगुळिपल्लवः || 153 ||
चतुर्विंशतितत्त्वात्मा पंचविंशाख्यपूरुषः |
सप्तविंशतितारेशः सप्तविंशतियोगकृत् || 154 ||
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः |
षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कळातनुः || 155 ||
नमदेकोनपंचाशन्मरुद्वर्गनिरर्गळः |
पंचाशदक्षरश्रेणी पंचाशद्रुद्रविग्रहः || 156 ||
पंचाशद्विष्णुशक्तीशः पंचाशन्मातृकालयः |
द्विपंचाशद्वपुःश्रेणी त्रिषष्ट्यक्षरसंश्रयः || 157 ||
चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकळानिधिः |
चतुःषष्टिमहासिद्धयोगिनीबृंदवंदितः || 158 ||
अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः |
चतुर्नवतिमंत्रात्मा षण्णवत्यधिकप्रभुः || 159 ||
शतानंदः शतधृतिः शतपत्रायतेक्षणः |
शतानीकः शतमखः शतधारावरायुधः || 160 ||
सहस्रपत्रनिलयः सहस्रफणभूषणः |
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् || 161 ||
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः |
दशसाहस्रफणभृत्फणिराजकृतासनः || 162 ||
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयंत्रितः |
लक्षाधीशप्रियाधारो लक्षाधारमनोमयः || 163 ||
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशितः |
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः || 164 ||
कोटिसूर्यप्रतीकाशः कोटिचंद्रांशुनिर्मलः |
शिवाभवाध्युष्टकोटिविनायकधुरंधरः || 165 ||
सप्तकोटिमहामंत्रमंत्रितावयवद्युतिः |
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः || 166 ||
अनंतनामाऽनंतश्रीरनंताऽनंतसौख्यदः |
इति वैनायकं नाम्नां सहस्रमिदमीरितं || 167 ||
इदं ब्राह्मे मुहूर्ते वै यः पठेत्प्रत्यहं नरः |
करस्थं तस्य सकलमैहिकामुष्मिकं सुखं || 168 ||
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः |
मेधा प्रज्ञा धृतिः कांतिः सौभाग्यमतिरूपता || 169 ||
सत्यं दया क्षमा शांतिर्दाक्षिण्यं धर्मशीलता |
जगत्संयमनं विश्वसंवादो वादपाटवं || 170 ||
सभापांडित्यमौदार्यं गांभीर्यं ब्रह्मवर्चसं |
औन्नत्यं च कुलं शीलं प्रतापो वीर्यमार्यता || 171 ||
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वातिशायिता |
धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत् || 172 ||
वश्यं चतुर्विधं नृणां जपादस्य प्रजायते |
राज्ञो राजकलत्रस्य राजपुत्रस्य मंत्रिणः || 173 ||
जप्यते यस्य वश्यार्थं स दासस्तस्य जायते |
धर्मार्थकाममोक्षाणामनायासेन साधनं || 174 ||
शाकिनीडाकिनीरक्षोयक्षोरगभयापहं |
साम्राज्यसुखदं चैव समस्तरिपुमर्दनं || 175 ||
समस्तकलहध्वंसि दग्धबीजप्ररोहणं |
दुःखप्रशमनं क्रुद्धस्वामिचित्तप्रसादनं || 176 ||
षट्कर्माष्टमहासिद्धित्रिकालज्ञानसाधनं |
परकृत्योपशमनं परचक्रविमर्दनं || 177 ||
संग्रामरंगे सर्वेषामिदमेकं जयावहं |
सर्ववंध्यात्वदोषघ्नं गर्भरक्षैककारणं || 178 ||
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदं |
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च || 179 ||
न तद्गृहं जहाति श्रीर्यत्रायं पठ्यते स्तवः |
क्षयकुष्ठप्रमेहार्शोभगंदरविषूचिकाः || 180 ||
गुल्मं प्लीहानमश्मानमतिसारं महोदरं |
कासं श्वासमुदावर्तं शूलशोकादिसंभवं || 181 ||
शिरोरोगं वमिं हिक्कां गंडमालामरोचकं |
वातपित्तकफद्वंद्वत्रिदोषजनितज्वरं || 182 ||
आगंतुं विषमं शीतमुष्णं चैकाहिकादिकं |
इत्याद्युक्तमनुक्तं वा रोगं दोषादिसंभवं || 183 ||
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपात् |
सकृत्पाठेन संसिद्धिः स्त्रीशूद्रपतितैरपि || 184 ||
सहस्रनाममंत्रोऽयं जपितव्यः शुभाप्तये |
महागणपतेः स्तोत्रं सकामः प्रजपन्निदं || 185 ||
इच्छितान्सकलान् भोगानुपभुज्येह पार्थिवान् |
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः || 186 ||
चंद्रेंद्रभास्करोपेंद्रब्रह्मशर्वादिसद्मसु |
कामरूपः कामगतिः कामतो विचरन्निह || 187 ||
भुक्त्वा यथेप्सितान्भोगानभीष्टान् सह बंधुभिः |
गणेशानुचरो भूत्वा महागणपतेः प्रियः || 188 ||
नंदीश्वरादिसानंदीनंदितः सकलैर्गणैः |
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः || 189 ||
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः |
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते || 190 ||
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः |
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंस्थितः || 191 ||
निरंतरोदितानंदे परमानंदसंविदि |
विश्वोत्तीर्णे परे पारे पुनरावृत्तिवर्जिते || 192 ||
लीनो वैनायके धाम्नि रमते नित्यनिर्वृतः |
यो नामभिर्हुनेदेतैरर्चयेत्पूजयेन्नरः || 193 ||
राजानो वश्यतां यांति रिपवो यांति दासतां |
मंत्राः सिद्ध्यंति सर्वेऽपि सुलभास्तस्यसिद्धयः || 194 ||
मूलमंत्रादपि स्तोत्रमिदं प्रियतरं मम |
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि || 195 ||
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् |
अष्टद्रव्यैर्विशेषेण जुहुयाद्भक्तिसंयुतः || 196 ||
तस्येप्सितानि सर्वाणि सिद्ध्यंत्यत्र न संशयः |
इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतं || 197 ||
व्याकृतं चर्चितं ध्यातं विमृष्टमभिनंदितं |
इहामुत्र च सर्वेषां विश्वैश्वर्यप्रदायकं || 198 ||
स्वच्छंदचारिणाप्येष येनायं धार्यते स्तवः |
स रक्ष्यते शिवोद्भूतैर्गणैरध्युष्टकोटिभिः || 199 ||
पुस्तके लिखितं यत्र गृहे स्तोत्रं प्रपूजयेत् |
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरंतरं || 200 ||
दानैरशेषैरखिलैर्व्रतैश्च
तीर्थैरशेषैरखिलैर्मखैश्च |
न तत्फलं विंदति यद्गणेश-
सहस्रनाम्नां स्मरणेन सद्यः || 201 ||
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायं मध्यंदिने वा त्रिषवणमथवा संततं वा जनो यः |
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
प्रत्यूहं हंति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः || 202 ||
अकिंचनोऽपि मत्प्राप्तिचिंतको नियताशनः |
जपेत्तु चतुरो मासान्गणेशार्चनतत्परः || 203 ||
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि |
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी || 204 ||
आयुष्यं वीतरोगं कुलमतिविमलं संपदश्चार्तदानाः
कीर्तिर्नित्यावदाता भणितिरभिनवा कांतिरव्याधिभव्या |
पुत्राः संतः कलत्रं गुणवदभिमतं यद्यदेतच्च सत्यं
नित्यं यः स्तोत्रमेतत्पठति गणपतेस्तस्य हस्ते समस्तं || 205 ||
गणंजयो गणपतिर्हेरंबो धरणीधरः |
महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः || 206 ||
अमोघसिद्धिरमितो मंत्रश्चिंतामणिर्निधिः |
सुमंगळो बीजमाशापूरको वरदः शिवः || 207 ||
काश्यपो नंदनो वाचासिद्धो ढुंढिविनायकः |
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् || 208 ||
यः स्तौति मद्गतमना ममाराधनतत्परः |
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः || 209 ||
नमो नमः सुरवरपूजितांघ्रये
नमो नमो निरुपममंगळात्मने |
नमो नमो विपुलपदैकसिद्धये
नमो नमः करिकलभाननाय ते || 210 ||
किंकिणीगणरणितस्तवचरणः
प्रकटितगुरुमतिचरितविशेषः |
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिदेवः || 211 ||
इति श्रीगणेशपुराणे उपासनाखंडे महागणपतिप्रोक्तं श्रीमहागणपति सहस्रनामस्तोत्रं संपूर्णं |
अर्थ
श्री महागणपति सहस्रनाम स्तोत्रम भगवान गणेश के एक हजार नामों का एक अत्यंत पवित्र और शक्तिशाली स्तोत्र है। यह स्तोत्र गणेशजी के विभिन्न रूपों, गुणों, शक्तियों और दिव्य लीलाओं का विस्तृत वर्णन करता है। इसका उद्गम ब्रह्माजी द्वारा नारद को सुनाई गई एक कथा में मिलता है। जब भगवान शिव त्रिपुरासुरों का वध करने जा रहे थे, तब उन्होंने गणेशजी की पूजा करना भूल गए, जिसके परिणामस्वरूप उन्हें अनेक विघ्नों का सामना करना पड़ा। अपनी गलती का एहसास होने पर, शिवजी ने अत्यंत भक्तिपूर्वक महागणपति की पूजा की और विघ्नों को दूर करने का उपाय पूछा। तब महागणपति, शिव की पूजा से प्रसन्न होकर, उन्हें अपने एक हजार नामों का उपदेश देते हैं। यह स्तोत्र सभी विघ्नों को हरने वाला और सभी मनोकामनाओं को पूर्ण करने वाला महामंत्र है।
यह सहस्रनाम केवल नामों का संग्रह नहीं है, बल्कि गणेशजी के दिव्य स्वरूप का गहरा दर्शन है। प्रत्येक नाम गणेशजी के एक अनूठे गुण, शक्ति या रूप का प्रतिनिधित्व करता है। 'गजवदन', 'एकदंत', 'विकट', 'लंबोदर' जैसे नाम उनके बाहरी रूप का वर्णन करते हैं, जबकि 'विघ्नेश्वर', 'विनायक', 'गणाधिपति', 'सर्वज्ञ' जैसे नाम उनके आंतरिक गुणों और कार्यों को इंगित करते हैं। इस स्तोत्र के निरंतर पाठ से भक्त गणेशजी के साथ एक गहरा आध्यात्मिक संबंध स्थापित करते हैं, मन की शांति और सकारात्मक ऊर्जा प्राप्त करते हैं। ध्यान मंत्र 'गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं' से शुरू होता है, जो गजमुख, तीखे दांतों वाले, तीन नेत्रों वाले, विशाल उदर वाले, रक्तवर्ण महागणपति का स्मरण करता है, जिससे उनके भव्य रूप को मन में स्थापित करने में सहायता मिलती है।
स्तोत्र के आरंभ में, व्यासजी ब्रह्माजी से पूछते हैं कि गणेशजी ने शिव को अपने हजार नाम कैसे उपदेश दिए। ब्रह्माजी उत्तर देते हुए त्रिपुरासुरों के वध के समय शिवजी द्वारा गणेशजी की पूजा न करने और उसके परिणामस्वरूप विघ्नों का सामना करने की कथा सुनाते हैं। तब शिवजी अपनी त्रुटि का अनुभव कर, महागणपति की विधिवत पूजा करते हैं और विघ्न-निवारण के लिए प्रार्थना करते हैं। शिव की भक्ति से संतुष्ट होकर, महागणपति उन्हें सभी बाधाओं को दूर करने और सभी इच्छाओं को पूरा करने वाले अपने हजार नामों का ज्ञान प्रदान करते हैं, ब्रह्माजी बताते हैं। यह इस स्तोत्र की पवित्रता और महत्व को दर्शाता है। 'अस्य श्रीमहागणपति सहस्रनाममाला मंत्रस्य' से शुरू होने वाली प्रारंभिक विनियोग विधि मंत्र के ऋषि, छंद, देवता, बीज, शक्ति और कीलक का वर्णन करती है, जो पाठ की सही विधि बताती है।
इस स्तोत्र का प्रत्येक नाम गणेशजी के अनंत गुणों का महिमामंडन करता है। वे 'गणेश्वर', 'गणक्रीड', 'गणनाथ', 'गणाधिपः' के रूप में, सभी गणों के स्वामी के रूप में, सृष्टि, स्थिति और लय के कार्यों को लीलापूर्वक करने वाले के रूप में प्रकाशित होते हैं। इन नामों का पाठ करने से भक्त न केवल गणेशजी की स्तुति करते हैं, बल्कि उनकी दिव्य शक्ति और ज्ञान के साथ एकात्मता भी प्राप्त करते हैं। यह आंतरिक शुद्धि और आध्यात्मिक प्रगति का मार्ग प्रशस्त करता है। ऐसा माना जाता है कि यह स्तोत्र केवल भय और बाधाओं को दूर नहीं करता, बल्कि ज्ञान, धन, सफलता और मोक्ष भी प्रदान करता है।
लाभ (Benefits):
- विघ्न निवारण: इस स्तोत्र का निरंतर पाठ जीवन में आने वाली सभी बाधाओं, समस्याओं और अप्रत्याशित विघ्नों को दूर करने में सहायता करता है। गणेशजी विघ्नेश्वर के रूप में भक्तों के मार्ग को सुगम बनाते हैं।
- मनोकामना सिद्धि: महागणपति के हजार नामों का भक्तिपूर्वक पाठ करने से भक्तों की सभी सद्भावनाएं और धर्मसम्मत इच्छाएं पूर्ण होती हैं। यह मन की शांति और संतुष्टि प्रदान करता है।
- ज्ञान और बुद्धि वृद्धि: गणेशजी बुद्धि और ज्ञान के देवता हैं, इसलिए इस स्तोत्र का पाठ छात्रों और ज्ञान के साधकों में एकाग्रता, स्मरण शक्ति और बुद्धि को बढ़ाता है।
- धन और समृद्धि: इस स्तोत्र का नियमित पाठ करने से आर्थिक स्थिति में सुधार होता है, धन की वृद्धि होती है और घर में समृद्धि का वास होता है, ऐसा माना जाता है।
- मानसिक शांति और सुरक्षा: महागणपति के दिव्य नामों का पाठ करने से मानसिक तनाव, भय और चिंताएं दूर होती हैं और मन को शांति मिलती है। यह सभी नकारात्मक शक्तियों से सुरक्षा प्रदान करता है।
अक्सर पूछे जाने वाले प्रश्न
श्री महागणपति सहस्रनाम स्तोत्रं क्या है?
इस स्तोत्र का पाठ कब और कैसे करना चाहिए?
श्री महागणपति सहस्रनाम स्तोत्रं के पाठ से क्या प्रमुख लाभ होते हैं?
इस स्तोत्र का पाठ किसे करना चाहिए?
इस स्तोत्र का पाठ कितनी बार करना चाहिए?
इस स्तोत्र का मूल या इतिहास क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
