ध

श्री धर्मशास्ता सहस्रनाम स्तोत्रं

संपादन: अद्यतन
सहस्रनाम
0 व्यूज़

ॐ पूर्णपुष्कलांबासमेत श्रीहरिहरपुत्रस्वामिने नमः ।
श्रीधर्मशास्तासहस्रनामस्तोत्रं ।
अस्य श्रीहरिहरपुत्रसहस्रनामस्तोत्रमालामंत्रस्य
अर्धनारीश्वर ऋषिः । अनुष्टुप्छंदः । श्रीहरिहरपुत्रो देवता ।
ह्रां बिजं,  ह्रीं शक्तिः,  ह्रूं कीलकं ।
श्रीहरिहरपुत्रप्रसादसिध्यर्थे जपे विनियोगः ॥

अथ करन्यासः ।
ह्रां अंगुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ॥

अथांगन्यासः ।
ह्रां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
ह्रूं शिखायै वषट् ।
ह्रैं कवचाय हं ।
ह्रौं नेत्रत्रयाय वौषट् ।
ह्रः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बंधः ॥

ध्यानं -
ध्यायेदुमापतिरमापतिभाग्यपुत्रं
वेत्रोज्ज्वलत्करतलं भसिताभिरामं ।
विश्वैकविश्ववपुषं मृगयाविनोदं
वांछानुरूपफलदं वरभुतनाथं ॥

आश्रयामकोमलविशालतनुं विचित्र-
वासो वसानमरुणोत्पलदामहस्तं ।
उत्तुंगरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥

पंचोपचाराः ।
लं पृथिव्यात्मने गंधं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ।
मूलमंत्रः -  ॐ घ्रूं नमः पराय गोप्त्रे नमः ॥

ॐ नमो भगवते भूतनाथाय ।
ॐ शिवपुत्रो महातेजाः शिवकार्यधुरंधरः ।
शिवप्रदश्शिवज्ञानी शैवधर्मसुरक्षकः ॥1॥

शंखधारी सुराध्यक्षश्चंद्रमौलिस्सुरोत्तमः ।
कामेशः कामतेजस्वी कामादिफलसंयुतः ॥2॥

कल्याणः कोमलांगश्च कल्याणफलदायकः ।
करुणाब्धिः कर्मदक्षः करुणारससागरः ॥3॥

जगत्प्रियो जगद्रक्षो जगदानंददायकः ।
जयादि शाक्तिसंसेव्यो जनाह्लादो जिगीषुकः ॥4॥

जितेंद्रियो जितक्रोधो जितदेवारिसंचयः ।
जैमिन्यादिर्षिसंसेव्यो जरामरणनाशकः ॥5॥

जनार्दनसुतो ज्येष्ठो ज्येष्ठादिगणसेवितः ।
जन्महीनो जितामित्रो जनकेनाभिपूजितः ॥6॥

परमेष्ठी पशुपतिः पंकजासनपूजितः ।
पुरहंता पुरत्राता परमैश्वर्यदायकः ॥7॥

पवनादि सुरैः सेव्यः पंचब्रह्मपरायणः ।
पार्वतीतनयो ब्रह्म परानंदः परात्परः ॥8॥

ब्रह्मिष्टो ज्ञाननिरतो गुणागुणनिरुपकः ।
गुणाध्यक्षो गुणनिधिः गोपालेनाभिपुजितः ॥9॥

गोरक्षको गोधनदो गजारुढो गजप्रियः ।
गजग्रिवो गजस्कंधो गभस्तिर्गोपतिः प्रभुः ॥10॥

ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः ।
गणाध्यक्षो गणपतिर्गवां पतिरहर्पतिः ॥11॥

जटाधरो जलनिभो जैमिन्यादिर्षिपूजितः ।
जलंधरनिहंता च शोणाक्षश्शोणवासकः ॥12॥

सुराधिपश्शोकहंता शोभाक्षस्सुर्यतैजसः ।
सुरार्चितस्सुरैर्वंद्यः शोणांगः शाल्मलीपतिः ॥13॥

सुज्योतिश्शरवीरघ्नः शरच्चंद्रनिभाननः ।
सनकादिमुनिध्येयः सर्वज्ञानप्रदो विभुः ॥14॥

हलायुधो हंसनिभो हाहाहूहू मुखस्तुतः ।
हरिहरप्रियो हंसो हर्यक्षासनतत्परः ॥15॥

पावनः पावकनिभो भक्तपापविनाशनः ।
भसितांगो भयत्राता भानुमान् भयनाशनः ॥16॥

त्रिपुंड्रकस्त्रिनयनः त्रिपुंड्रांगितमस्तकः ।
त्रिपुरघ्नो देववरो देवारिकुलनाशकः ॥17॥

देवसेनाधिपस्तेजस्तेजोराशिर्दशाननः ।
दारुणो दोषहंता च दोर्दंडो दंडनायकः ॥18॥

धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः ।
धर्मज्ञो धर्मनिरतो धनुश्शास्त्रपरायणः ॥19॥

स्थूलकर्णः स्थूलतनुः स्थूलाक्षः स्थूलबाहुकः ।
तनूत्तमस्तनुत्राणस्तारकस्तेजसांपतिः ॥20॥

योगीश्वरो योगनिधिर्योगेशो योगसंस्थितः ।
मंदारवाटिकामत्तो मलयाचलवासभूः ॥21॥

मंदारकुसुमप्रख्यो मंदमारुतसेवितः ।
महाभश्च महावक्षा मनोहरमदार्चितः ॥22॥

महोन्नतो महाकायो महानेत्रो महाहनुः ।
मरुत्पूज्यो मानधनो मोहनो मोक्षदायकः ॥23॥

मित्रो मेधा महौजस्वी महावर्षप्रदायकः ।
भाषको भाष्यशास्त्रज्ञो भानुमान् भानुतैजसः ॥24॥

भिषग्भवानीपुत्रश्च भवतारणकारणः ।
नीलांबरो नीलनिभो नीलग्रीवो निरंजनः ॥25॥

नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः ।
रत्नप्रभो रमापुत्रो रमया परितोषितः ॥26॥

राजसेव्यो राजधनः रणदोर्दंडमंडितः ।
रमणो रेणुकासेव्यो राजनीचरदारणः ॥27॥

ईशान इभराट्सेव्य ईषणात्रयनाशनः ।
इडावासो हेमनिभो हैमप्राकारशोभितः ॥28॥

हयप्रियोहयग्रीवो हंसो हरिहरात्मजः ।
हाटकस्फटिकप्रख्यो हंसारूढेन सेवितः ॥29॥

वनवासो वनाध्यक्षो वामदेवो वराननः ।
वैवस्वतपतिर्विष्णुः विराड्रूपो विशांपतिः ॥30॥

वेणुनादो वरग्रिवो वराभयकरान्वितः ।
वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् ॥31॥

वैणवारण्यवासश्च वामदेवेनसेवितः ।
वेत्रहस्तो वेदविधिर्वंशदेवो वरांगकः ॥32॥

ह्रींकारो ह्रीम्मना हृष्टो हिरण्यः हेमसंभवः ।
हूताशो हूतनिष्पन्नो हूँकाराकृतिसुप्रभः ॥33॥

हव्यवाहो हव्यकरश्चाट्टहासोऽपराहतः ।
अणुरूपो रूपकरश्चाजरोऽतनुरूपकः ॥34॥

हंसमंत्रश्च हुतभुक् हेमांबरस्सुलक्षणः ।
नीपप्रियो नीलवासाः निधिपालो निरातपः ॥35॥

क्रोडहस्तस्तपस्त्राता तपोरक्षस्तपाह्वयः ।
मूर्ताभिषिक्तो मानी च मंत्ररूपोः मृडो मनुः ॥36॥

मेधावी मेदसो मुष्णुः मकरो मकरालयः ।
मार्त्तांडो मंजुकेशश्च मासपालो महौषधिः ॥37॥

श्रोत्रियश्शोभमानश्च सविता सर्वदेशिकः ।
चंद्रहासश्श्मश्श्क्तः शशिभासश्शमाधिकः ॥38॥

सुदंतस्सुकपोलश्च षड्वर्णस्संपदोऽधिपः ।
गरलः कालकंठश्च गोनेता गोमुखप्रभुः ॥39॥

कौशिकः कालदेवश्च क्रोशकः क्रौंचभेदकः ।
क्रियाकरः कृपालुश्च करवीरकरेरुहः ॥40॥

कंदर्पदर्पहारी च कामदाता कपालकः ।
कैलासवासो वरदो विरोचनो विभावसुः ॥41॥

बभ्रुवाहो बलाध्यक्षः फणामणिविभुषणः ।
सुंदरस्सुमुखः स्वच्छः सफासश्च सफाकरः ॥42॥

शरानिवृत्तश्शक्राप्तः शरणागतपालकः ।
तीक्ष्णदंष्ट्रो दीर्घजिह्वः पिंगलाक्षः पिशाचहा ॥43॥

अभेद्यश्चांगदार्ढ्यश्च भोजपालोऽथ भूपतिः ।
गृध्रनासोऽविषह्यश्च दिग्देहो दैन्यदाहकः ॥44॥

बाडवापूरितमुखो व्यापको विषमोचकः ।
वसंतस्समरक्रुद्धः पुंगवः पंगजासनः ॥45॥

विश्वदर्पो निश्चितज्ञो नागाभरणभूषितः ।
भरतो भैरवाकारो भरणो वामनक्रियः ॥46॥

सिंहास्यस्सिंहरूपश्च सेनापतिस्सकारकः ।
सनातनस्सिद्धरूपी सिद्धधर्मपरायणः ॥47॥

आदित्यरूपश्चापधरश्चामृताब्धिनिवासभूः ।
युवराजो योगिवर्य उषस्तेजा उडुप्रभः ॥48॥

देवादिदेवो दैवज्ञस्ताम्रोष्ठस्ताम्रलोचनः ।
पिंगलाक्षः पिच्छचूडः फणामणिविभूषितः ॥49॥

भुजंगभूषणो भोगो भोगानंदकरोऽव्ययः ।
पंचहस्तेन संपूज्यः पङ्चबाणेनसेवितः ॥50॥

भवश्शर्वो भानुमयः प्राजापत्यस्वरुपकः ।
स्वच्छंदश्छंदश्शस्त्रज्ञो दांतो देवो मनुः प्रभुः ॥51॥

दशभुक्च दशाध्यक्षो दानवानां विनाशनः ।
सहस्राक्षश्शरोत्पन्नः शतानंदसमागमः ॥52॥

गृध्राद्रिवासो गंभिरो गंधग्राहोगणेश्वरः ।
गोमेधो गंढकावासो गोकुलैः परिवारितः ॥53॥

परिवेषः पदज्ञानी प्रियंगुद्रुमवासकः ।
गुहावासो गुरुवरो वंदनीयो वदान्यकः ॥54॥

वृत्ताकारो वेणुपाणीर्वीणादंडधरोहरः ।
हैमीड्यो होत्रुसुभगो हौत्रज्ञश्चौजसां पतिः ॥55॥

पवमानः प्रजातंतुप्रदो दंडविनाशनः ।
निमीड्यो निमिषार्धज्ञो निमिषाकारकारणः ॥56॥

लिगुडाभो लिडाकारो लक्ष्मीवंद्यो वरप्रभुः ।
इडाज्ञः पिंगलावासः सुषुम्नामध्यसंभवः ॥57॥

भिक्षाटनो भीमवर्चा वरकीर्तिस्सभेश्वरः ।
वाचोऽतीतो वरनिधिः परिवेत्ताप्रमाणकः ॥58॥

अप्रमेयोऽनिरुद्धश्चाप्यनंतादित्यसुप्रभः ।
वेषप्रियो विषग्राहो वरदानकरोत्तमः ॥59॥

विपिनो वेदसारश्च वेदांतैः परितोषितः ।
वक्रागमो वर्चवचा बलदाता विमानवान् ॥60॥

वज्रकांतो वंशकरो वटुरक्षाविशारदः ।
वप्रक्रीडो विप्रपूज्यो वेलाराशिश्चलालकः ॥61॥

कोलाहलः क्रोडनेत्रःक्रोडास्यश्च कपालभृत् ।
कुंजरेड्यो मंजुवासाःक्रियामानः क्रियाप्रदः ॥62॥

क्रीडानाथः कीलहस्तः क्रोशमानो बलाधिकः ।
कनको होतृभागी च खवासः खचरः खगः ॥63॥

गणको गुणनिर्दुष्टो गुणत्यागी कुशाधिपः ।
पाटलः पत्रधारी च पलाशः पुत्रवर्धनः ॥64॥

पितृसच्चरितः प्रेष्ठः पापभस्मः पुनश्चुचिः ।
भालनेत्रः फुल्लकेशः फुल्लकल्हारभूषितः ॥65॥

फणिसेव्यः पट्टभद्रः पटुर्वाग्मी वयोऽधिकः ।
चोरनाट्यश्चोरवेषश्चोरघ्नश्चौर्यवर्धनः ॥66॥

चंचलाक्षश्चामरको मरीचिर्मदगामिकः ।
मृडाभो मेषवाहश्च मैथिल्यो मोचकोमनुः ॥67॥

मनुरूपो मंत्रदेवो मंत्रराशिर्महादृढः ।
स्थूपिज्ञो धनदाता च देववंद्यश्चतारणः ॥68॥

यज्ञप्रियो यमाध्यक्ष इभक्रीड इभेक्षणः ।
दधिप्रियो दुराधर्षो दारुपालो दनूजहा ॥69॥

दामोदरोदामधरो दक्षिणामूर्तिरूपकः ।
शचीपूज्यश्शंखकर्णश्चंद्रचूडो मनुप्रियः ॥70॥

गुडरूपो गुडाकेशः कुलधर्मपरायणः ।
कालकंठो गाढगात्रो गोत्ररूपः कुलेश्वरः ॥71॥

आनंदभैरवाराध्यो हयमेधफलप्रदः ।
दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः ॥72॥

घृतान्नासक्तहृदयो गौरांगो गर्वभंजकः ।
गणेशपूज्यो गगनः गणानां पतिरूर्जितः ॥73॥

छद्महीनश्शशिरदः शत्रूणां पतिरंगिराः ।  (शशिधरः)
चराचरमयश्शांतः शरभेशश्शतातपः ॥74॥

वीराराध्यो वक्रगमो वेदांगो वेदपारगः ।
पर्वतारोहणः पूषा परमेशः प्रजापतिः ॥75॥

भावज्ञो भवरोगघ्नो भवसागरतारणः ।
चिदग्निदेहश्चिद्रूपश्चिदानंदश्चिदाकृतिः ॥76॥

नाट्यप्रियो नरपतिर्नरनारायणार्चितः ।
निषादराजो नीहारो नेष्टा निष्ठूरभाषणः ॥77॥

निम्नप्रियो नीलनेत्रो नीलांगो नीलकेशकः ।
सिंहाक्षस्सर्वविघ्नेशस्सामवेदपरायणः ॥78॥

सनकादिमुनिध्येयः शर्वरीशः षडाननः ।
सुरूपस्सुलभस्स्वर्गः शचीनाथेन पूजितः ॥79॥

काकीनः कामदहनो दग्धपापो धराधिपः ।
दामग्रंधी शतस्त्रीशस्तश्रीपालश्च तारकः ॥80॥

ताम्राक्षस्तीक्ष्णदंष्ट्रश्च तिलभोज्यस्तिलोदरः ।
मांडुकर्णो मृडाधीशो मेरुवर्णो महोदरः ॥81॥

मार्तांडभैरवाराध्यो मणिरूपो मरुद्वहः ।
माषप्रियो मधुपानो मृणालो मोहिनीपतिः ॥82॥

महाकामेशतनयो माधवो मदगर्वितः ।
मूलाधारांबुजावासो मूलविद्यास्वरूपकः ॥83॥

स्वाधिष्टानमयः स्वस्थः स्वस्थिवाक्यः स्रुवायुधः ।
मणिपूराब्जनिलयो महाभैरवपूजितः ॥84॥

अनाहताब्जरसिको ह्रींकाररसपेशलः ।
भूमध्यवासो भूकांतो भरद्वाजप्रपूजितः ॥85॥

सहस्रारांबुजावासः सविता सामवाचकः ।
मुकुंदश्च गुणातीतो गुणपूज्यो गुणाश्रयः ॥86॥

धन्यश्च धनभृद्दाहो धनदानकरांबुजः ।
महाशयो महातीतो मायाहीनो मदार्चितः ॥87॥

माठरो मोक्षफलदः सद्वैरिकुलनाशनः ।
पिंगलः पिंछचूडश्च पिशिताशपवित्रकः ॥88॥

पायसान्नप्रियः पर्वपक्षमासविभाजकः ।
वज्रभूषो वज्रकायो विरिंचोवरवक्षणः ॥89॥

विज्ञानकलिकावृंदो विश्वरूपप्रदर्शकः ।
डंभघ्नो दमघोषघ्नो दासपालस्तपौजसः ॥90॥

द्रोणकुंभाभिषिक्तश्च द्रोहिनाशस्तपातुरः ।
महावीरेंद्रवरदो महासंसारनाशनः ॥91॥

लाकिनी हाकिनीलब्धो लवणांभोधितारणः ।
काकिलः कालपाशघ्नःकर्मबंधविमोचकः ॥92॥

मोचको मोहनिर्भिन्नो भगाराध्यो बृहत्तनुः ।
अक्षयोऽक्रूरवरदो वक्रागमविनाशनः ॥93॥

डाकीनः सूर्यतेजस्वी सर्पभूषश्च सद्गुरुः ।
स्वतंत्रः सर्वतंत्रेशो दक्षिणादिगधीश्वरः ॥94॥

सच्चिदानंदकलिकः प्रेमरूपः प्रियंकरः ।
मिध्याजगदधिष्टानो  मुक्तिदो मुक्तिरूपकः ॥95॥

मुमुक्षुः कर्मफलदो मार्गदक्षोऽथ कर्मठः ।
महाबुद्धो महाशुद्धः शुकवर्णः शुकप्रियः ॥96॥

सोमप्रियः स्वरप्रीतः पर्वाराधनतत्परः ।
अजपो जनहंसश्च फलपाणिप्रपूजितः ॥97॥

अर्चितो वर्धनो वाग्मी वीरवेषो विधुप्रियः ।
लास्यप्रियो लयकरो लाभालाभविवर्जितः ॥98॥

पंचाननः पङ्चगूढः पङ्चयज्ञफलप्रदः ।
पाशहस्तः पावकेशः पर्जन्यसमगर्जनः ॥99॥

पपारिः परमोदारः प्रजेशः पंकनाशनः ।
नष्टकर्मा नष्टवैर इष्टसिद्धिप्रदायकः ॥100॥

नागाधीशो नष्टपाप इष्टनामविधायकः ।
पंचकृत्यपरः पाता पंचपंचातिशायिकः ॥101॥

पद्माक्षोः पद्मवदनः पावकाभः प्रियंकरः ।
कार्तस्वरांगो गौरांगो गौरीपुत्रो धनेश्वरः ॥102॥

गणेशाश्लिष्टदेहश्च शीतांशुः शुभदीदितिः ।
दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः ॥103॥

सुमुखो मार्गणो गर्भो गर्वभंगः कुशासनः ।
कुलपालपतिः श्रेष्ठो पवमानः प्रजाधिपः ॥104॥

दर्शप्रियो निर्विकारो दीर्घकायो दिवाकरः ।
भेरीनादप्रियो वृंदो बृहत्सेनः सुपालकः ॥105॥

सुब्रह्मा ब्रह्मरसिको रसज्ञो रजताद्रिभाः ।
तिमिरघ्नो मिहिराभो महानीलसमप्रभः ॥106॥

श्रीचंदनविलिप्तांगः श्रीपुत्रःश्रीतरुप्रियः ।
लाक्षावर्णो लसत्कर्णो रजनीध्वंसिसन्निभः ॥107॥

बिंदुप्रियोऽम्बिकापुत्रो बैंदवो बलनायकः ।
आपन्नतारकस्तप्तस्तप्तकृच्छ्रफलप्रदः ॥108॥

मरुद्धृतो महाखर्वश्चीरवासाः शिखिप्रियः ।
आयुष्माननघो दूत आयुर्वेदपरायणः ॥109॥

हंसः परमहंसश्चाप्यवधूताश्रमप्रियः ।
अश्ववेगोऽश्वहृदयो हयधैर्यो फलप्रदः ॥110॥

सुमुखो दुर्मुखो विघ्नोनिर्विघ्नो विघ्ननाशनः ।
आर्यो नाथोऽर्यमाभासःफाल्गुनः भाललोचनः ॥111॥

अरातिघ्नो घनग्रीवो ग्रीष्मसूर्यसमप्रभः ।
किरीटी कल्पशास्त्रज्ञः कल्पानलविधायकः ॥112॥

ज्ञानविज्ञानफलदो विरिंचारिविनाशनः ।
वीरमार्त्तांडवरदो वीरबाहुश्च पूर्वजः ॥113॥

वीरसिंहासनो विज्ञो वीरकार्योऽस्तदानवः ।
नरवीरसुहृद्भ्राता नागरत्नविभूषितः ॥114॥

वाचस्पतिः पुरारातिः संवर्त्तः समरेश्वरः ।
उरुवाग्मीह्युमापुत्रः उडुलोकसुरक्षकः ॥115॥

शृंगाररससंपूर्णः सिंदूरतिलकांकितः ।
कुंकुमांकितसर्वांगः कालकेयविनाशनः ॥116॥

मत्तनागप्रियो नेता नागगंधर्वपूजितः ।
सुस्वप्नबोधको बोधो गौरीदुस्वप्ननाशनः ॥117॥

चिंताराशिपरिध्वंसी चिंतामणिविभूषितः ।
चराचरजगत्स्रष्टा चलत्कुंडलकर्णयुक् ॥118॥

मुकुरास्यो मूलनिधिर्निधिद्वयनिषेवितः ।
नीराजनप्रीतमनाः नीलनेत्रो नयप्रदः ॥119॥

केदारेशः किरातश्च कालात्मा कल्पविग्रहः ।
कल्पांतभैरवाराध्यः कंकपत्रशरायुधः ॥120॥

कलाकाष्ठस्वरूपश्च  ॠतुवर्षादिमासवान् ।
दिनेशमंडलावासो वासवादिप्रपूजितः ॥121॥

बहुलास्तंबकर्मज्ञः पंचाशद्वर्णरूपकः ।
चिंताहीनश्चिदाक्रांतः चारुपालोहलायुधः ॥122॥

बंदूककुसुमप्रख्यः परगर्वविभंजनः ।
विद्वत्तमो विराधघ्नः सचित्रश्चित्रकर्मकः ॥123॥

संगीतलोलुपमनाः स्निग्धगंभीरगर्ज्जितः ।
तुंगवक्त्रः स्तवरसश्चाभ्राभो भ्रमरेक्षणः ॥124॥

लीलाकमलहस्ताब्जो बालकुंदविभूषितः ।
लोध्रप्रसवशुधाभः शिरीषकुसुमप्रियः ॥125॥

त्रस्तत्राणकरस्तत्त्वं तत्त्ववाक्यार्थबोधकः ।
वर्षीयांश्च विधिस्तुत्यो वेदांतप्रतिपादकः ॥126॥

मूलभूतो मूलतत्त्वं मूलकारणविग्रहः ।
आदिनाथोऽक्षयफलः पाणिजन्माऽपराजितः ॥127॥

गानप्रियो गानलोलो महेशो विज्ञमानसः ।
गिरीजास्तन्यरसिको गिरिराजवरस्तुतः ॥128॥

पीयूषकुंभहस्ताब्जः पाशत्यागी चिरंतनः ।
सुधालालसवक्त्राब्जः सुरद्रुमफलेप्सितः ॥129॥

रत्नहाटकभूषांगो रावणादिप्रपूजितः ।
कनत्कालेयसुप्रीतः क्रौंचगर्वविनाशनः ॥130॥

अशेषजनसम्मोह आयुर्विद्याफलप्रदः ।
अवबद्धदुकूलांगो हारालंकृतकंधरः ॥131॥

केतकीकुसुमप्रीतः कलभैः परिवारितः ।
केकाप्रियः कार्तिकेयः सारंगनिनदप्रियः ॥132॥

चातकालापसंतुष्टश्चमरीमृगसेवितः ।
आम्रकूटाद्रिसंचारी चाम्नायफलदायकः ॥133॥

धृताक्षसूत्रपाणिश्चाप्यक्षिरोगविनाशनः ।
मुकुंदपूज्यो मोहांगो मुनिमानसतोषितः ॥134॥

तैलाभिषिक्तसुशीरास्तर्जनीमुद्रिकायुतः ।
तटातकामनः प्रीतस्तमोगउणविनाशनः ॥135॥

अनामयोऽप्यनादर्शश्चार्जुनाभो हुतप्रियः ।
षाड्गुण्य परिसंपूर्णस्सप्ताश्वादिगृहैः स्तुतः ॥136॥

वीतशोकःप्रसादज्ञः सप्तप्राणवरप्रदः ।
सप्तार्चिश्च त्रिनयनस्त्रिवेणीफलदायकः ॥137॥

कृष्णवर्त्मा वेदमुखो दारुमंडलमध्यगः ।
वीरनूपुरपादाब्जो वीरकंकणपाणिमान् ॥138॥

विश्वमूर्तिश्शुद्धमुखश्शुद्धभस्मानुलेपनः ।
शुंभध्वंसिन्या संपूज्यो रक्तबीजकुलांतकः ॥139॥

निषादादिस्वरप्रीतः नमस्कारफलप्रदः ।
भक्तारिपंचतादायी सज्जीकृतशरायुधः ॥140॥

अभयंकरमंत्रज्ञः कुब्जिकामंत्रविग्रहः ।
धूम्राक्षश्चोग्रतेजस्वी दशकंठविनाशनः ॥141॥

आशुगायुधहस्ताब्जो गदायुधकरांबुजः ।
पाशायुधसुपाणिश्च कपालायुधसद्भुजः ॥142॥

सहस्रशीर्षवदनः सहस्रद्वयलोचनः ।
नानाहेतिर्धनुष्पाणिः नानास्रग्भूषणप्रियः ॥143॥

आश्यामकोमलतनूरारक्तापांगलोचनः ।
द्वादशाहक्रतुप्रीतः पौंडरीकफलप्रदः ॥144॥

अप्तोर्यामक्रतुमयश्चयनादिफलप्रदः ।
पशुबंधस्यफलदो वाजपेयात्मदैवतः ॥145॥

आब्रह्मकीटजननावनात्मा चंबकप्रियः ।
पशुपाशविभागज्ञः परिज्ञानप्रदायकः ॥146॥

कल्पेश्वरः कल्पवर्यो जातवेदा प्रभाकरः ।
कुंभीश्वरः कुंभपाणीः कुंकुमाक्तललाटकः ॥147॥

शिलींध्रपत्रसंकाशः सिंहवक्त्रप्रमर्दनः ।
कोकिलक्वणनाकर्णी कालनाशनतत्परः ॥148॥

नैय्यायिकमतघ्नश्च बौद्धसंघविनाशनः ।
धृतहेमाब्जपाणिश्च होमसंतुष्टमानसः ॥149॥

पितृयज्ञस्यफलदः पितृवज्जनरक्षकः ।
पदातिकर्मनिरतः पृषदाज्यप्रदायकः ॥150॥

महासुरवधोद्युक्तः स्वास्त्रप्रत्यस्त्रवर्षकः ।
महावर्षतिरोधानः नागाभृतकरांबुजः ॥151॥

नमः स्वाहावषट् वौषट् वल्लवप्रतिपादकः ।
महीरसदृशग्रीवो महीरसदृशस्तवः ॥152॥

तंत्रीवादनहस्ताग्रः संगीतप्रीतमानसः ।
चिदंशमुकुरावासो मणिकूटाद्रि संचरः ॥153॥

लीलासंचारतनुको लिंगशास्त्रप्रवर्तकः ।
राकेंदुद्युतिसंपन्नो यागकर्मफलप्रदः ॥154॥

मैनाकगिरिसंचारी मधुवंशविनाशनः ।
तालखंडपुरावासः तमालनिभतैजसः ॥155॥

श्रीधर्मशास्तासहस्रनामस्तोत्रं संपूर्णं ।

अर्थ

श्री धर्मशास्ता सहस्रनाम स्तोत्रम भगवान हरिहरपुत्र, श्री धर्मशास्ता स्वामी को समर्पित एक पवित्र स्तोत्र है जिसमें उनके एक हजार नाम संकलित हैं। यह स्तोत्र भगवान के विभिन्न गुणों, रूपों, लीलाओं और महिमा का विस्तार से वर्णन करता है, जिससे भक्तों को एक गहरा आध्यात्मिक अनुभव प्राप्त होता है। स्तोत्र के आवाहन भाग में, ऋषि अर्धनारीश्वर, छंद अनुष्टुप और देवता श्री हरिहरपुत्रो का उल्लेख है। ह्रां, ह्रीं, ह्रूं जैसे बीज मंत्र जप के लिए अत्यंत महत्वपूर्ण हैं, जो भगवान की शक्ति को आह्वान करने में सहायक होते हैं।

स्तोत्र की शुरुआत में करन्यास और अंगन्यास की विधियों का वर्णन किया गया है। ये जप प्रारंभ करने से पहले शरीर और मन को शुद्ध करने तथा दैवीय शक्ति को स्थापित करने के अनुष्ठान हैं। ह्रां अंगुष्ठाभ्यां नमः, ह्रीं तर्जनीभ्यां नमः आदि मंत्रों के माध्यम से शरीर के विभिन्न हिस्सों में दैवीय ऊर्जा का आह्वान किया जाता है। 'भूर्भुवस्सुवरोम् इति दिग्बंधः' दिशाओं को बांधकर जप के लिए एक स्थिर और पवित्र वातावरण निर्मित करता है। ध्यान श्लोक भगवान धर्मशास्ता का वर्णन करता है। इसमें उन्हें उमापति (शिव) और रमापति (विष्णु) के पुत्र के रूप में, हाथ में वेत्र धारण किए हुए, भस्म से सुशोभित, विश्व के एकमात्र रूप, मृगया विनोद में लीन और भक्तों की इच्छाओं को पूर्ण करने वाले के रूप में ध्यान किया जाता है। इसके बाद पंचोपचार पूजा का निर्देश है, जो गंध, पुष्प, धूप, दीप और नैवेद्य के माध्यम से भगवान को पूर्ण भक्ति अर्पित करने का एक तरीका है। मूल मंत्र 'ॐ घ्रूं नमः पराय गोप्त्रे नमः' भगवान धर्मशास्ता की रक्षात्मक शक्ति का आह्वान करता है।

स्तोत्र की नामावली में, शुरुआती श्लोक (लगभग 1-8) भगवान को हरिहरपुत्र, जगत्पालक, पंचाक्षर मंत्रप्रिय, पांच अस्त्रों की कांति से प्रकाशित, शिव और विष्णु के गुणों का संगम, वरदाता और संसार के दुखों को हरने वाले के रूप में वर्णित करते हैं। मध्य के नाम (लगभग 9-60) भगवान के योद्धा, रक्षक और परोपकारी रूपों का वर्णन करते हैं। उन्हें गजाधिपति, गोवर्धनक (गायों के रक्षक), पर्वतवासी, दिव्य सेनाओं के अधिपति, संतान और धन प्रदान करने वाले, शत्रुओं और पापों का नाश करने वाले के रूप में कीर्तित किया गया है। बाद के नाम (लगभग 61-120) भगवान की शक्ति, तेज, यज्ञप्रियता और योगिक क्षमताओं पर केंद्रित हैं। वज्रकांति, वंशकर (वंश को बढ़ाने वाले), मुकुंदपूज्य (विष्णु द्वारा पूजित) जैसे नाम भगवान की सर्वव्यापकता और सर्वोच्चता को दर्शाते हैं।

इस सहस्रनाम स्तोत्र का पाठ भक्तों को शारीरिक, मानसिक और आध्यात्मिक रूप से अपार लाभ प्रदान करता है। भगवान धर्मशास्ता के हजार नामों का स्मरण करने से भक्त अपने जीवन में शांति, समृद्धि और सुरक्षा प्राप्त करते हैं। इस स्तोत्र का प्रत्येक नाम भगवान के एक विशेष गुण का प्रतिनिधित्व करता है, और इनका स्मरण भक्तों को अज्ञान से मुक्ति दिलाकर ज्ञान की ओर ले जाता है। यह केवल नामों का संग्रह नहीं, बल्कि भगवान के दिव्य स्वरूप, उनके कार्यों और उनकी करुणा को गहराई से समझने के लिए एक मार्गदर्शक है। इस स्तोत्र को भक्तिपूर्वक पाठ करने से भक्त अपनी आंतरिक शक्ति को बढ़ाते हैं और जीवन की चुनौतियों का सामना करने के लिए साहस प्राप्त करते हैं।

लाभ (Benefits):

  • शत्रु नाश और सुरक्षा: इस स्तोत्र के पाठ से शत्रु भय दूर होता है और सभी प्रकार की नकारात्मक शक्तियों तथा प्रभावों से सुरक्षा मिलती है। भगवान धर्मशास्ता रक्षक के रूप में खड़े होते हैं।
  • धन और समृद्धि: भगवान के नामों का पाठ करने से आर्थिक स्थिति में सुधार होता है, धन की वृद्धि होती है और जीवन में समृद्धि आती है। मनोकामनाएं पूर्ण होती हैं।
  • स्वास्थ्य और दीर्घायु: नियमित रूप से इस स्तोत्र का पाठ करने से उत्तम स्वास्थ्य, दीर्घायु और रोगों से मुक्ति मिलती है। मानसिक शांति भी प्राप्त होती है।
  • संतान प्राप्ति: निःसंतान दंपति यदि भक्तिपूर्वक इस स्तोत्र का पाठ करें, तो भगवान धर्मशास्ता की कृपा से उन्हें उत्तम संतान सुख प्राप्त होता है।
  • ज्ञान और आध्यात्मिक उन्नति: इस स्तोत्र का पाठ अज्ञान को दूर कर ज्ञान में वृद्धि करता है। यह आध्यात्मिक प्रगति में सहायक होता है और मोक्ष मार्ग को सुगम बनाता है।

अक्सर पूछे जाने वाले प्रश्न

श्री धर्मशास्ता सहस्रनाम स्तोत्रं क्या है?
यह भगवान हरिहरपुत्र, श्री धर्मशास्ता स्वामी के एक हजार पवित्र नामों का संग्रह है। यह स्तोत्र भगवान के विभिन्न गुणों, रूपों और लीलाओं का विस्तार से वर्णन करता है, जिससे भक्तों को गहरा आध्यात्मिक अनुभव मिलता है।
इस स्तोत्र का पाठ कब और कैसे करना चाहिए?
इस स्तोत्र का पाठ प्रतिदिन सुबह स्नान के बाद शुद्ध मन से करना उत्तम है। विशेष रूप से शनिवार को या अय्यप्पन व्रत के दौरान पाठ करना अधिक फलदायी होता है। इसे भक्ति और एकाग्रता के साथ पढ़ना चाहिए।
श्री धर्मशास्ता सहस्रनाम स्तोत्र पाठ करने के क्या लाभ हैं?
इस स्तोत्र का पाठ करने से शत्रु भय दूर होता है, धन-समृद्धि में वृद्धि होती है, उत्तम स्वास्थ्य, संतान प्राप्ति और आध्यात्मिक उन्नति जैसे अनेक लाभ प्राप्त होते हैं। यह मानसिक शांति भी प्रदान करता है।
यह स्तोत्र कौन पाठ कर सकता है?
भगवान धर्मशास्ता के भक्त, विशेषकर अय्यप्पन स्वामी के भक्त, किसी भी जाति, मत या लिंग के भेद के बिना इस स्तोत्र का पाठ कर सकते हैं। जो लोग जीवन में कठिनाइयों का सामना कर रहे हैं या आध्यात्मिक प्रगति चाहते हैं, वे भी इसका पाठ कर सकते हैं।
इस स्तोत्र का कितनी बार पाठ करना चाहिए?
सामान्यतः, पूरे स्तोत्र का दिन में कम से कम एक बार पाठ करना उत्तम माना जाता है। विशेष परिणामों के लिए, इसे 11, 21 या 108 बार भी पाठ किया जा सकता है, लेकिन भक्ति और एकाग्रता सबसे महत्वपूर्ण है।
इस स्तोत्र का मूल या इतिहास क्या है?
यह सहस्रनाम स्तोत्र हिंदू धर्म के प्राचीन ग्रंथों से लिया गया है। इसके ऋषि अर्धनारीश्वर बताए गए हैं, जो शिव और विष्णु के पुत्र धर्मशास्ता के महत्व को उजागर करता है।

टिप्पणियाँ

टिप्पणी लिखने के लिए लॉगिन करें

टिप्पणियाँ लोड हो रही हैं...