शिवानंदलहरी
कळाभ्यां चूडालंकृतशशिकळाभ्यां निजतपः-
-फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे |
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-
-र्भवाभ्यामानंदस्फुरदनुभवाभ्यां नतिरियं || 1 ||
गळंती शंभो त्वच्चरितसरितः किल्बिषरजो
दळंती धीकुल्यासरणिषु पतंती विजयतां |
दिशंती संसारभ्रमणपरितापोपशमनं
वसंती मच्चेतोह्रदभुवि शिवानंदलहरी || 2 ||
त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरं |
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालंबं सांबं शिवमतिविडंबं हृदि भजे || 3 ||
सहस्रं वर्तंते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलं |
हरिब्रह्मादीनामपि निकटभाजामसुलभं
चिरं याचे शंभो शिव तव पदांभोजभजनं || 4 ||
स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ
पुराणे मंत्रे वा स्तुतिनटनहास्येष्वचतुरः |
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो || 5 ||
घटो वा मृत्पिंडोऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तंतुर्वा परिहरति किं घोरशमनं |
वृथा कंठक्षोभं वहसि तरसा तर्कवचसा
पदांभोजं शंभोर्भज परमसौख्यं व्रज सुधीः || 6 ||
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ |
तव ध्याने बुद्धिर्नयनयुगळं मूर्तिविभवे
परग्रंथान्कैर्वा परमशिव जाने परमतः || 7 ||
यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-
-र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलं |
तथा देवभ्रांत्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते || 8 ||
गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः |
समर्प्यैकं चेतः सरसिजमुमानाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो || 9 ||
नरत्वं देवत्वं नगवनमृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि जननं |
सदा त्वत्पादाब्जस्मरणपरमानंदलहरी-
-विहारासक्तं चेद्धृदयमिह किं तेन वपुषा || 10 ||
वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति |
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शंभो भवसि भवभारं च वहसि || 11 ||
गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलं |
सदा यस्यैवांतःकरणमपि शंभो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी || 12 ||
असारे संसारे निजभजनदूरे जडधिया
भ्रमंतं मामंधं परमकृपया पातुमुचितं |
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-
-स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते || 13 ||
प्रभुस्त्वं दीनानां खलु परमबंधुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बंधुत्वमनयोः |
त्वयैव क्षंतव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बंधुसरणिः || 14 ||
उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां
दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् |
शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनखमुखेनैव लुलितं || 15 ||
विरिंचिर्दीर्घायुर्भवतु भवता तत्परशिर-
-श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् |
विचारः को वा मां विशद कृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः || 16 ||
फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगळं |
कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां
निलिंपानां श्रेणिर्निजकनकमाणिक्यमकुटैः || 17 ||
त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहंतस्त्वन्मूलां पुनरपि भजंते हरिमुखाः |
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणापूरितदृशा || 18 ||
दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके
दुरंते संसारे दुरितनिलये दुःखजनके |
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयं || 19 ||
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशाशाखास्वटति झटिति स्वैरमभितः |
कपालिन् भिक्षो मे हृदयकपिमत्यंतचपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो || 20 ||
धृतिस्तंभाधारां दृढगुणनिबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटितां |
स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो || 21 ||
प्रलोभाद्यैरर्थाहरणपरतंत्रो धनिगृहे
प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते |
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपां || 22 ||
करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति |
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षिमृगता-
-मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो || 23 ||
कदा वा कैलासे कनकमणिसौधे सह गणै-
-र्वसन् शंभोरग्रे स्फुटघटितमूर्धांजलिपुटः |
विभो सांब स्वामिन्परमशिव पाहीति निगद-
-न्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः || 24 ||
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
गणानां केळीभिर्मदकलमहोक्षस्य ककुदि |
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं
कदा त्वां पश्येयं करधृतमृगं खंडपरशुं || 25 ||
कदा वा त्वां दृष्ट्वा गिरिश तव भव्यांघ्रियुगळं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् |
समाश्लिष्याघ्राय स्फुटजलजगंधान्परिमला-
-नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये || 26 ||
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजामरसुरभिचिंतामणिगणे |
शिरःस्थे शीतांशौ चरणयुगळस्थेऽखिलशुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः || 27 ||
सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे |
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहं || 28 ||
त्वत्पादांबुजमर्चयामि परमं त्वां चिंतयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो |
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु || 29 ||
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गंधे गंधवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता |
पात्रे कांचनगर्भतास्ति मयि चेद्बालेंदुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो || 30 ||
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षिगतांश्चराचरगणान् बाह्यस्थितान् रक्षितुं |
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरळं गळे न गिळितं नोद्गीर्णमेव त्वया || 31 ||
ज्वालोग्रः सकलामरातिभयदः क्ष्वेळः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्वजंबूफलं |
जिह्वायां निहितश्च सिद्धघुटिका वा कंठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शंभो महात्मन् वद || 32 ||
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशां |
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा || 33 ||
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-
-द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते |
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपंचं लयं
पश्यन्निर्भय एक एव विहरत्यानंदसांद्रो भवान् || 34 ||
योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यांतरव्यापिनः |
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमांतरंग इति मे चित्ते स्मराम्यन्वहं || 35 ||
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः
कुंभे सांब तवांघ्रिपल्लवयुगं संस्थाप्य संवित्फलं |
सत्वं मंत्रमुदीरयन्निजशरीरागारशुद्धिं वहन्
पुण्याहं प्रकटीकरोमि रुचिरं कळ्याणमापादयन् || 36 ||
आम्नायांबुधिमादरेण सुमनःसंघाः समुद्यन्मनो
मंथानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः |
सोमं कल्पतरुं सुपर्वसुरभिं चिंतामणिं धीमतां
नित्यानंदसुधां निरंतररमासौभाग्यमातन्वते || 37 ||
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः |
चेतः पुष्करलक्षितो भवति चेदानंदपाथोनिधिः
प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्तदा जायते || 38 ||
धर्मो मे चतुरंघ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगळिताः कालाः सुखाविष्कृताः |
ज्ञानानंदमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुंडरीकनगरे राजावतंसे स्थिते || 39 ||
धीयंत्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै-
-रानीतैश्च सदाशिवस्य चरितांभोराशिदिव्यामृतैः |
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः || 40 ||
पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने |
जिह्वाचित्तशिरोंघ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः || 41 ||
गांभीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण-
-स्तोमश्चाप्तबलं घनेंद्रियचयो द्वाराणि देहे स्थितः |
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु || 42 ||
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकांतारसीमांतरे |
वर्तंते बहुशो मृगा मदजुषो मात्सर्यमोहादय-
-स्तान्हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि || 43 ||
करलग्नमृगः करींद्रभंगो
घनशार्दूलविखंडनोऽस्तजंतुः |
गिरिशो विशदाकृतिश्च चेतः-
-कुहरे पंचमुखोऽस्ति मे कुतो भीः || 44 ||
छंदःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते |
चेतःपक्षिशिखामणे त्यज वृथासंचारमन्यैरलं
नित्यं शंकरपादपद्मयुगळीनीडे विहारं कुरु || 45 ||
आकीर्णे नखराजिकांतिविभवैरुद्यत्सुधावैभवै-
-राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते |
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथांघ्रिसौधांतरे || 46 ||
शंभुध्यानवसंतसंगिनि हृदारामेऽघजीर्णच्छदाः
स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवाळश्रिताः |
दीप्यंते गुणकोरका जपवचःपुष्पाणि सद्वासना
ज्ञानानंदसुधामरंदलहरी संवित्फलाभ्युन्नतिः || 47 ||
नित्यानंदरसालयं सुरमुनिस्वांतांबुजाताश्रयं
स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतं |
शंभुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं
किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि || 48 ||
आनंदामृतपूरिता हरपदांभोजालवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता |
उच्छैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा
नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता || 49 ||
संध्यारंभविजृंभितं श्रुतिशिरःस्थानांतराधिष्ठितं
सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितं |
भोगींद्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरिमल्लिकार्जुनमहालिंगं शिवालिंगितं || 50 ||
भृंगीच्छानटनोत्कटः करमदग्राही स्फुरन्माधवा-
-ह्लादो नादयुतो महासितवपुः पंचेषुणा चादृतः |
सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-
-राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः || 51 ||
कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं
विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिं |
नृत्यद्भक्तमयूरमद्रिनिलयं चंचज्जटामंडलं
शंभो वांछति नीलकंधर सदा त्वां मे मनश्चातकः || 52 ||
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-
-नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते |
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटंतं मुदा
वेदांतोपवने विहाररसिकं तं नीलकंठं भजे || 53 ||
संध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक-
-ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चंचला |
भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वलतांडवं विजयते तं नीलकंठं भजे || 54 ||
आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानंदमयात्मने त्रिजगतः संरक्षणोद्योगिने |
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
सम्यक्तांडवसंभ्रमाय जटिने सेयं नतिः शंभवे || 55 ||
नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे
सत्यायादिकुटुंबिने मुनिमनः प्रत्यक्षचिन्मूर्तये |
मायासृष्टजगत्त्रयाय सकलाम्नायांतसंचारिणे
सायंतांडवसंभ्रमाय जटिने सेयं नतिः शंभवे || 56 ||
नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो |
मज्जन्मांतरपुण्यपाकबलतस्त्वं शर्व सर्वांतर-
-स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहं || 57 ||
एको वारिजबांधवः क्षितिनभोव्याप्तं तमोमंडलं
भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः |
वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम-
-स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव || 58 ||
हंसः पद्मवनं समिच्छति यथा नीलांबुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चंद्रं चकोरस्तथा |
चेतो वांछति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्जयुगळं कैवल्यसौख्यप्रदं || 59 ||
रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो
भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकं |
दीपं संतमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शंभोः पदांभोरुहं || 60 ||
अंकोलं निजबीजसंततिरयस्कांतोपलं सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिंधुः सरिद्वल्लभं |
प्राप्नोतीह यथा तथा पशुपतेः पादारविंदद्वयं
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते || 61 ||
आनंदाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचाशंखमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः |
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-
-पर्यंके विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति || 62 ||
मार्गावर्तितपादुका पशुपतेरंगस्य कूर्चायते
गंडूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायते |
किंचिद्भक्षितमांसशेषकबळं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते || 63 ||
वक्षस्ताडनमंतकस्य कठिनापस्मारसंमर्दनं
भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसंघर्षणं |
कर्मेदं मृदुलस्य तावकपदद्वंद्वस्य किं वोचितं
मच्चेतोमणिपादुकाविहरणं शंभो सदांगीकुरु || 64 ||
वक्षस्ताडनशंकया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते |
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभं || 65 ||
क्रीडार्थं सृजसि प्रपंचमखिलं क्रीडामृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् |
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया || 66 ||
बहुविधपरितोषबाष्पपूर-
-स्फुटपुलकांकितचारुभोगभूमिं |
चिरपदफलकांक्षिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये || 67 ||
अमितमुदमृतं मुहुर्दुहंतीं
विमलभवत्पदगोष्ठमावसंतीं |
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकां || 68 ||
जडता पशुता कळंकिता
कुटिलचरत्वं च नास्ति मयि देव |
अस्ति यदि राजमौळे
भवदाभरणस्य नास्मि किं पात्रं || 69 ||
अरहसि रहसि स्वतंत्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः |
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति || 70 ||
आरूढभक्तिगुणकुंचितभावचाप-
-युक्तैः शिवस्मरणबाणगणैरमोघैः |
निर्जित्य किल्बिषरिपून्विजयी सुधींद्रः
सानंदमावहति सुस्थिरराजलक्ष्मीं || 71 ||
ध्यानांजनेन समवेक्ष्य तमःप्रदेशं
भित्त्वा महाबलिभिरीश्वरनाममंत्रैः |
दिव्याश्रितं भुजगभूषणमुद्वहंति
ये पादपद्ममिह ते शिव ते कृतार्थाः || 72 ||
भूदारतामुदवहद्यदपेक्षया श्री-
-भूदार एव किमतः सुमते लभस्व |
केदारमाकलितमुक्तिमहौषधीनां
पादारविंदभजनं परमेश्वरस्य || 73 ||
आशापाशक्लेशदुर्वासनादि-
-भेदोद्युक्तैर्दिव्यगंधैरमंदैः |
आशाशाटीकस्य पादारविंदं
चेतःपेटीं वासितां मे तनोतु || 74 ||
कळ्याणिनं सरसचित्रगतिं सवेगं
सर्वेंगितज्ञमनघं ध्रुवलक्षणाढ्यं |
चेतस्तुरंगमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ || 75 ||
भक्तिर्महेशपदपुष्करमावसंती
कादंबिनीव कुरुते परितोषवर्षं |
संपूरितो भवति यस्य मनस्तटाक-
-स्तज्जन्मसस्यमखिलं सफलं च नान्यत् || 76 ||
बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
-सक्ता वधूर्विरहिणीव सदा स्मरंती |
सद्भावनास्मरणदर्शनकीर्तनादि
सम्मोहितेव शिवमंत्रजपेन विंते || 77 ||
सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रितां |
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव || 78 ||
नित्यं योगिमनः सरोजदळसंचारक्षमस्त्वत्क्रमः
शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः |
अत्यंतं मृदुलं त्वदंघ्रियुगळं हा मे मनश्चिंतय-
-त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये || 79 ||
एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-
-द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः |
नो चेद्दिव्यगृहांतरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव || 80 ||
कंचित्कालमुमामहेश भवतः पादारविंदार्चनैः
कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः |
कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु || 81 ||
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदंगवहता चेत्यादि रूपं दधौ |
त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः || 82 ||
जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र |
अजनिममृतरूपं सांबमीशं भजंते
य इह परमसौख्यं ते हि धन्या लभंते || 83 ||
शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये |
सकलभुवनबंधो सच्चिदानंदसिंधो
सदय हृदयगेहे सर्वदा संवस त्वं || 84 ||
जलधिमथनदक्षो नैव पाताळभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः |
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानींदुमौळे || 85 ||
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभं |
जाने मस्तकमंघ्रिपल्लवमुमाजाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा || 86 ||
अशनं गरळं फणी कलापो
वसनं चर्म च वाहनं महोक्षः |
मम दास्यसि किं किमस्ति शंभो
तव पादांबुजभक्तिमेव देहि || 87 ||
यदा कृतांभोनिधिसेतुबंधनः
करस्थलाधःकृतपर्वताधिपः |
भवानि ते लंघितपद्मसंभव-
-स्तदा शिवार्चास्तवभावनक्षमः || 88 ||
नतिभिर्नुतिभिस्त्वमीश पूजा-
-विधिभिर्ध्यानसमाधिभिर्न तुष्टः |
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि || 89 ||
वचसा चरितं वदामि शंभो-
-रहमुद्योगविधासु तेऽप्रसक्तः |
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि || 90 ||
आद्याविद्या हृद्गता निर्गतासी-
-द्विद्या हृद्या हृद्गता त्वत्प्रसादात् |
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौळे || 91 ||
दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि |
सारं त्वदीयचरितं नितरां पिबंतं
गौरीश मामिह समुद्धर सत्कटाक्षैः || 92 ||
सोमकळाधरमौळौ
कोमलघनकंधरे महामहसि |
स्वामिनि गिरिजानाथे
मामकहृदयं निरंतरं रमतां || 93 ||
सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः |
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति || 94 ||
अतिमृदुलौ मम चरणा-
-वतिकठिनं ते मनो भवानीश |
इति विचिकित्सां संत्यज
शिव कथमासीद्गिरौ तथा वेशः || 95 ||
धैर्यांकुशेन निभृतं
रभसादाकृष्य भक्तिशृंखलया |
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यंत्रैः || 96 ||
प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः करी गरीयान् |
परिगृह्य नयेन भक्तिरज्वा
परम स्थाणु पदं दृढं नयामुं || 97 ||
सर्वालंकारयुक्तां सरळपदयुतां साधुवृत्तां सुवर्णां
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्यां |
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण || 98 ||
इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया |
हरिब्रह्माणौ तौ दिवि भुवि चरंतौ श्रमयुतौ
कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः || 99 ||
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिंचादयः
स्तुत्यानां गणनाप्रसंगसमये त्वामग्रगण्यं विदुः |
माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
-द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः || 100 ||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवानंदलहरी ||
अर्थ
शिवानंदलहरी स्तोत्र भगवान आदि शंकराचार्य द्वारा रचित एक गहन भक्तिपूर्ण स्तोत्र है। यह भगवान शिव को परम आनंद के स्रोत के रूप में पूजता है और भक्त के हृदय में होने वाले आध्यात्मिक परिवर्तन — जड़ता और सांसारिक बंधनों से शिव की दृढ़ स्मृति और उनके साथ एकात्मता तक — का भव्य वर्णन करता है। यह केवल एक प्रार्थना नहीं, बल्कि आत्म-साक्षात्कार की ओर ले जाने वाली एक दिव्य यात्रा का चित्रण है। इस स्तोत्र का उद्देश्य भक्त के हृदय में शिव के आनंद की लहर को प्रवाहित करना है।
यह काव्य भक्त के हृदय में शिवानंद को स्थापित करने वाली भक्ति, शिव के रूप का स्मरण करने की शक्ति और सांसारिक बंधनों से मुक्ति पाने के मार्ग का विस्तार से वर्णन करता है। प्रारंभिक भाग में, भक्त शिव के चरण-कमलों के स्मरण से लौकिक अशांति को दूर कर अपने हृदय में स्थायी आनंद स्थापित करने की प्रार्थना करता है। इसमें शिव के उस रूप की महिमा गाई जाती है, जो अपने माथे पर चंद्रमा धारण करते हैं, अपनी तपस्या के फल से भक्तों को फल प्रदान करते हैं, और तीनों लोकों के लिए कल्याणकारी हैं। यह स्तोत्र शिव के दिव्य रूप और गुणों का स्मरण करके मन को एकाग्र करने के लिए प्रेरित करता है।
मध्य भाग में, सांसारिक पीड़ाओं, मोह और इंद्रियों पर नियंत्रण न होने की स्थिति का वर्णन किया गया है। यह इन बाधाओं को पार कर शिव के स्मरण में स्थिर होने का संकल्प प्रेरित करता है। शिव के चरित्र को एक पवित्र नदी के समान बताया गया है, जो पापों को धोकर, मन की अशुद्धियों को दूर कर ज्ञान के मार्ग पर प्रवाहित होती है। स्तोत्र में नश्वर लौकिक फल प्रदान करने वाले तुच्छ देवताओं की पूजा की व्यर्थता पर जोर दिया गया है, और भक्त हरि-ब्रह्मादिकों को भी दुर्लभ शिव के चरण-कमलों की सेवा की श्रेष्ठता की कामना करता है। यहाँ लौकिक इच्छाओं का त्याग कर परमात्मा की ओर मन को मोड़ने के महत्व पर बल दिया गया है।
अंतिम भाग में, भक्ति के फलों — ऐश्वर्य, परम शांति और मोक्ष के लक्षणों का वर्णन किया गया है। यह बताता है कि शिव की सन्निधि में शाश्वत आनंद प्राप्त करना ही अंतिम लक्ष्य है। यह स्तोत्र अत्यंत मार्मिक ढंग से समझाता है कि सच्ची भक्ति, शिव के चरणों का निरंतर स्मरण, श्रद्धापूर्वक भेंट और सेवाएँ कैसे परम आनंद, सुरक्षा, समृद्धि और मोक्ष की ओर ले जाती हैं। इस स्तोत्र का नियमित पाठ आत्म-अभिमान को मिटाने, जीवन के बंधनों से मुक्ति पाने, आंतरिक शुद्धि और भक्ति की स्थिति को स्थापित करने में सहायक होता है। यह भक्त को पूर्ण शरणागति की ओर ले जाता है।
लाभ (Benefits):
- मानसिक शांति और स्थिरता: शिव के चरण-कमलों का स्मरण सांसारिक उथल-पुथल को शांत करता है और हृदय में स्थायी आनंद स्थापित करता है।
- सांसारिक बंधनों से मुक्ति: स्तोत्र का नियमित पाठ मोह और इंद्रिय-विषयों के प्रति आसक्ति को दूर कर सांसारिक बंधनों से मुक्ति दिलाता है।
- आत्म-साक्षात्कार और आध्यात्मिक उन्नति: शिव के प्रति अटूट भक्ति आत्म-साक्षात्कार की दिशा में मार्गदर्शन करती है और आध्यात्मिक विकास को संभव बनाती है।
- पाप निवारण और शुद्धि: शिव के दिव्य चरित्र का स्मरण और स्तोत्र का पाठ मन के मैल और पापों को धोकर आंतरिक शुद्धि प्रदान करता है।
- समस्त शुभ फल और संरक्षण: भगवान शिव के प्रति निष्ठावान भक्ति भक्त को सुरक्षा, समृद्धि, ज्ञान और मोक्ष जैसे सभी शुभ फल प्रदान करती है।
अक्सर पूछे जाने वाले प्रश्न
शिवानंदलहरी स्तोत्र क्या है?
शिवानंदलहरी स्तोत्र का पाठ कब और कैसे करना चाहिए?
शिवानंदलहरी स्तोत्र के पाठ से क्या प्रमुख लाभ मिलते हैं?
शिवानंदलहरी स्तोत्र का पाठ कौन कर सकता है?
शिवानंदलहरी स्तोत्र का पाठ कितनी बार करना चाहिए?
शिवानंदलहरी स्तोत्र की उत्पत्ति क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
