ऋषय ऊचुः |
सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक |
वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत || 1 ||
ज्ञानदानेन संसारसागरात्तारयस्व नः |
कलौ कलुषचित्ता ये नराः पापरताः सदा || 2 ||
केन स्तोत्रेण मुच्यंते सर्वपातकबंधनात् |
इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनं || 3 ||
सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि |
श्रीसूत उवाच |
शृणुध्वं ऋषयः सर्वे नैमिशारण्यवासिनः || 4 ||
तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः |
स्वयंभुवा पुरा प्रोक्तं नारदाय महात्मने || 5 ||
तदहं संप्रवक्ष्यामि श्रोतुं कौतूहलं यदि |
ऋषय ऊचुः |
किमाह भगवान्ब्रह्मा नारदाय महात्मने || 6 ||
सूतपुत्र महाभाग वक्तुमर्हसि सांप्रतं |
श्रीसूत उवाच |
दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतं || 7 ||
साष्टांगं प्रणिपत्यैनं ब्रह्माणं भुवनेश्वरं |
नारदः परिपप्रच्छ कृतांजलिरुपस्थितः || 8 ||
नारद उवाच |
लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर |
षण्मुखस्य परं स्तोत्रं पावनं पापनाशनं || 9 ||
हे धातः पुत्रवात्सल्यात्तद्वद प्रणताय मे |
उपदिश्य तु मामेवं रक्ष रक्ष कृपानिधे || 10 ||
ब्रह्मोवाच |
शृणु वक्ष्यामि देवर्षे स्तवराजमिदं परं |
मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदं || 11 ||
सहस्राणि च नामानि षण्मुखस्य महात्मनः |
यानि नामानि दिव्यानि दुःखरोगहराणि च || 12 ||
तानि नामानि वक्ष्यामि कृपया त्वयि नारद |
जपमात्रेण सिद्ध्यंति मनसा चिंतितान्यपि || 13 ||
इहामुत्र परं भोगं लभते नात्र संशयः |
इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदं |
संदेहो नात्र कर्तव्यः शृणु मे निश्चितं वचः || 14 ||
ॐ अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्र महामंत्रस्य ब्रह्मा ऋषिः अनुष्टुप्छंदः सुब्रह्मण्यो देवता शरजन्माक्षय इति बीजं शक्तिधरोऽक्षय कार्तिकेय इति शक्तिः क्रौंचधर इति कीलकं शिखिवाहन इति कवचं षण्मुखाय इति ध्यानं श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः |
करन्यासः –
ॐ शं ओंकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अंगुष्ठाभ्यां नमः |
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः |
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः |
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः |
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः |
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः |
हृदयादिन्यासः –
ॐ शं ओंकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः |
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा |
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् |
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय कवचाय हुं |
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् |
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् |
भूर्भुवस्सुवरोमिति दिग्बंधः |
ध्यानं |
ध्यायेत्षण्मुखमिंदुकोटिसदृशं रत्नप्रभाशोभितं
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितं |
कर्णालंबितकुंडलप्रविलसद्गंडस्थलाशोभितं
कांचीकंकणकिंकिणीरवयुतं शृंगारसारोदयं || 1 ||
ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं
खेटं कुक्कुटमंकुशं च वरदं पाशं धनुश्चक्रकं |
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं
देवं चित्रमयूरवाहनगतं चित्रांबरालंकृतं || 2 ||
स्तोत्रं |
अचिंत्यशक्तिरनघस्त्वक्षोभ्यस्त्वपराजितः |
अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः || 1 ||
अत्युदारो ह्यघहरस्त्वग्रगण्योऽद्रिजासुतः |
अनंतमहिमाऽपारोऽनंतसौख्यप्रदोऽव्ययः || 2 ||
अनंतमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः |
अकल्मषोऽभिरामोऽग्रधुर्यश्चामितविक्रमः || 3 ||
[* अतुलश्चामृतोऽघोरो ह्यनंतोऽनंतविक्रमः *]
अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः |
अरिंदमोऽखिलाधारस्त्वणिमादिगुणोऽग्रणीः || 4 ||
अचंचलोऽमरस्तुत्यो ह्यकलंकोऽमिताशनः |
अग्निभूरनवद्यांगो ह्यद्भुतोऽभीष्टदायकः || 5 ||
अतींद्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः |
आपद्विनाशकस्त्वार्य आढ्य आगमसंस्तुतः || 6 ||
आर्तसंरक्षणस्त्वाद्य आनंदस्त्वार्यसेवितः |
आश्रितेष्टार्थवरद आनंद्यार्तफलप्रदः || 7 ||
आश्चर्यरूप आनंद आपन्नार्तिविनाशनः |
इभवक्त्रानुजस्त्विष्ट इभासुरहरात्मजः || 8 ||
इतिहासश्रुतिस्तुत्य इंद्रभोगफलप्रदः |
इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः || 9 ||
इहामुत्रेष्टफलद इष्टदस्त्विंद्रवंदितः |
ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः || 10 ||
ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः |
उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः || 11 ||
उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः |
उज्जृंभ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः || 12 ||
उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः |
उरुप्रभावश्चोदीर्ण उमापुत्र उदारधीः || 13 ||
ऊर्ध्वरेतःसुतस्तूर्ध्वगतिदस्तूर्जपालकः |
ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः || 14 ||
ऊर्जावानूर्जितोदार ऊर्जितोर्जितशासनः |
ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः || 15 ||
ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शनः |
ऋतंभरो ह्यृजुप्रीत ऋषभस्त्वृद्धिदस्त्वृतः || 16 ||
लुलितोद्धारको लूतभवपाशप्रभंजनः |
एणांकधरसत्पुत्र एक एनोविनाशनः || 17 ||
ऐश्वर्यदश्चैंद्रभोगी चैतिह्यश्चैंद्रवंदितः |
ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः || 18 ||
औदार्यशील औमेय औग्र औन्नत्यदायकः |
औदार्य औषधकर औषधं चौषधाकरः || 19 ||
अंशुमानंशुमालीड्य अंबिकातनयोऽन्नदः |
अंधकारिसुतोऽंधत्वहारी चांबुजलोचनः || 20 ||
अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः |
अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः || 21 ||
कार्तिकेयः कामरूपः कुमारः क्रौंचदारणः |
कामदः कारणं काम्यः कमनीयः कृपाकरः || 22 ||
कांचनाभः कांतियुक्तः कामी कामप्रदः कविः |
कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः || 23 ||
कुंकुमांगः क्लमहरः कुशलः कुक्कुटध्वजः |
कुशानुसंभवः क्रूरः क्रूरघ्नः कलितापहृत् || 24 ||
कामरूपः कल्पतरुः कांतः कामितदायकः |
कल्याणकृत्क्लेशनाशः कृपाळुः करुणाकरः || 25 ||
कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृती |
कोमलांगः कुशप्रीतः कुत्सितघ्नः कलाधरः || 26 ||
ख्यातः खेटधरः खड्गी खट्वांगी खलनिग्रहः |
ख्यातिप्रदः खेचरेशः ख्यातेहः खेचरस्तुतः || 27 ||
खरतापहरः स्वस्थः खेचरः खेचराश्रयः |
खंडेंदुमौलितनयः खेलः खेचरपालकः || 28 ||
खस्थलः खंडितार्कश्च खेचरीजनपूजितः |
गांगेयो गिरिजापुत्रो गणनाथानुजो गुहः || 29 ||
गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः |
गतिप्रदो गुणनिधिः गंभीरो गिरिजात्मजः || 30 ||
गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः |
गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः || 31 ||
गुह्यो गुणज्ञो गीतिज्ञो गतातंको गुणाश्रयः |
गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः || 32 ||
गणनीयचरित्रश्च गतक्लेशो गुणार्णवः |
घूर्णिताक्षो घृणिनिधिः घनगंभीरघोषणः || 33 ||
घंटानादप्रियो घोषो घोराघौघविनाशनः |
घनानंदो घर्महंता घृणावान् घृष्टिपातकः || 34 ||
घृणी घृणाकरो घोरो घोरदैत्यप्रहारकः |
घटितैश्वर्यसंदोहो घनार्थो घनसंक्रमः || 35 ||
चित्रकृच्चित्रवर्णश्च चंचलश्चपलद्युतिः |
चिन्मयश्चित्स्वरूपश्च चिरानंदश्चिरंतनः || 36 ||
चित्रकेलिश्चित्रतरश्चिंतनीयश्चमत्कृतिः |
चोरघ्नश्चतुरश्चारुश्चामीकरविभूषणः || 37 ||
चंद्रार्ककोटिसदृशश्चंद्रमौलितनूभवः |
छादितांगश्छद्महंता छेदिताखिलपातकः || 38 ||
छेदीकृततमःक्लेशश्छत्रीकृतमहायशाः |
छादिताशेषसंतापश्छुरितामृतसागरः || 39 ||
छन्नत्रैगुण्यरूपश्च छातेहश्छिन्नसंशयः |
छंदोमयश्छंदगामी छिन्नपाशश्छविश्छदः || 40 ||
जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः |
जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः || 41 ||
जयी जितेंद्रियो जैत्रो जरामरणवर्जितः |
ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः || 42 ||
जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः |
जंभारिवंद्यो जयदो जगज्जनमनोहरः || 43 ||
जगदानंदजनको जनजाड्यापहारकः |
जपाकुसुमसंकाशो जनलोचनशोभनः || 44 ||
जनेश्वरो जितक्रोधो जनजन्मनिबर्हणः |
जयदो जंतुतापघ्नो जितदैत्यमहाव्रजः || 45 ||
जितमायो जितक्रोधो जितसंगो जनप्रियः |
झंझानिलमहावेगो झरिताशेषपातकः || 46 ||
झर्झरीकृतदैत्यौघो झल्लरीवाद्यसंप्रियः |
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः || 47 ||
टंकारनृत्तविभवः टंकवज्रध्वजांकितः |
टंकिताखिललोकश्च टंकितैनस्तमोरविः || 48 ||
डंबरप्रभवो डंभो डंबो डमरुकप्रियः | [डमड्ड]
डमरोत्कटसन्नादो डिंभरूपस्वरूपकः || 49 ||
ढक्कानादप्रीतिकरो ढालितासुरसंकुलः |
ढौकितामरसंदोहो ढुंढिविघ्नेश्वरानुजः || 50 ||
तत्त्वज्ञस्तत्वगस्तीव्रस्तपोरूपस्तपोमयः |
त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः || 51 ||
त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः |
तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् || 52 ||
स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तुतिप्रियः |
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः || 53 ||
स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः |
दांतो दयापरो दाता दुरितघ्नो दुरासदः || 54 ||
दर्शनीयो दयासारो देवदेवो दयानिधिः |
दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः || 55 ||
दुर्धरो दानशीलश्च द्वादशाक्षो द्विषड्भुजः |
द्विषट्कर्णो द्विषड्बाहुर्दीनसंतापनाशनः || 56 ||
दंदशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः |
दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः || 57 ||
दंडो दमयिता दर्पो देवसिंहो दृढव्रतः |
दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमंडनः || 58 ||
दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशां पतिः |
दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः || 59 ||
दंभो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिंतकः |
धुरंधरो धर्मपरो धनदो धृतिवर्धनः || 60 ||
धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः |
धनाध्यक्षो धनपतिर्धृतिमांधूतकिल्बिषः || 61 ||
धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद्ध्रुवः |
धाता धीमांधर्मचारी धन्यो धुर्यो धृतव्रतः || 62 ||
नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः |
निरवद्यो निराधारो निष्कलंको निरंजनः || 63 ||
निर्ममो निरहंकारो निर्मोहो निरुपद्रवः |
नित्यानंदो निरातंको निष्प्रपंचो निरामयः || 64 ||
निरवद्यो निरीहश्च निर्दर्शो निर्मलात्मकः |
नित्यानंदो निर्जरेशो निःसंगो निगमस्तुतः || 65 ||
निष्कंटको निरालंबो निष्प्रत्यूहो निरुद्भवः |
नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः || 66 ||
नेता निधिर्नैकरूपो निराकारो नदीसुतः |
पुलिंदकन्यारमणः पुरुजित्परमप्रियः || 67 ||
प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः |
पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः || 68 ||
पुण्योदयः परं ज्योतिः पुण्यकृत्पुण्यवर्धनः |
परानंदः परतरः पुण्यकीर्तिः पुरातनः || 69 ||
प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः |
प्रणतार्तिहरः पूर्णः पार्वतीनंदनः प्रभुः || 70 ||
पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः |
प्रसन्नः परमस्पष्टः परः परिबृढः परः || 71 ||
परमात्मा परब्रह्म परार्थः प्रियदर्शनः |
पवित्रः पुष्टिदः पूर्तिः पिंगळः पुष्टिवर्धनः || 72 ||
पापहारी पाशधरः प्रमत्तासुरशिक्षकः |
पावनः पावकः पूज्यः पूर्णानंदः परात्परः || 73 ||
पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः |
प्राणदः प्राणिजनकः प्रदिष्टः पावकोद्भवः || 74 ||
परब्रह्मस्वरूपश्च परमैश्वर्यकारणं |
परर्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् || 75 ||
प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः |
फणीश्वरः फणिवरः फणामणिविभूषणः || 76 ||
फलदः फलहस्तश्च फुल्लांबुजविलोचनः |
फडुच्चाटितपापौघः फणिलोकविभूषणः || 77 ||
बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बली |
ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः || 78 ||
बालरूपो ब्रह्मगर्भो ब्रह्मचारी बुधप्रियः |
बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः || 79 ||
बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः |
बृहद्भानुतनूद्भूतो बृहत्सेनो बिलेशयः || 80 ||
बहुबाहुर्बलश्रीमान् बहुदैत्यविनाशकः |
बिलद्वारांतरालस्थो बृहच्छक्तिधनुर्धरः || 81 ||
बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः |
भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः || 82 ||
भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः |
भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः || 83 ||
भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः |
भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः || 84 ||
भावको भीकरो भीष्मो भावकेष्टो भवोद्भवः |
भवतापप्रशमनो भोगवान् भूतभावनः || 85 ||
भोज्यप्रदो भ्रांतिनाशो भानुमान् भुवनाश्रयः |
भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः || 86 ||
महासेनो महोदारो महाशक्तिर्महाद्युतिः |
महाबुद्धिर्महावीर्यो महोत्साहो महाबलः || 87 ||
महाभोगी महामायी मेधावी मेखली महान् |
मुनिस्तुतो महामान्यो महानंदो महायशाः || 88 ||
महोर्जितो माननिधिर्मनोरथफलप्रदः |
महोदयो महापुण्यो महाबलपराक्रमः || 89 ||
मानदो मतिदो माली मुक्तामालाविभूषणः |
मनोहरो महामुख्यो महर्धिर्मूर्तिमान्मुनिः || 90 ||
महोत्तमो महोपायो मोक्षदो मंगळप्रदः |
मुदाकरो मुक्तिदाता महाभोगो महोरगः || 91 ||
यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः |
यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी || 92 ||
यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः |
यंत्रो यंत्री च यंत्रज्ञो यंत्रवान्यंत्रवाहकः || 93 ||
यातनारहितो योगी योगीशो योगिनां वरः |
रमणीयो रम्यरूपो रसज्ञो रसभावनः || 94 ||
रंजनो रंजितो रागी रुचिरो रुद्रसंभवः |
रणप्रियो रणोदारो रागद्वेषविनाशनः || 95 ||
रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः |
रत्नांगदधरो रत्नभूषणो रमणीयकः || 96 ||
रुचिकृद्रोचमानश्च रंजितो रोगनाशनः |
राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः || 97 ||
राजद्वेदागमस्तुत्यो रजःसत्त्वगुणान्वितः |
रजनीशकलारम्यो रत्नकुंडलमंडितः || 98 ||
रत्नसन्मौलिशोभाढ्यो रणन्मंजीरभूषणः |
लोकैकनाथो लोकेशो ललितो लोकनायकः || 99 ||
लोकरक्षो लोकशिक्षो लोकलोचनरंजितः |
लोकबंधुर्लोकधाता लोकत्रयमहाहितः || 100 ||
लोकचूडामणिर्लोकवंद्यो लावण्यविग्रहः |
लोकाध्यक्षस्तु लीलावान्लोकोत्तरगुणान्वितः || 101 ||
वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः |
विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः || 102 ||
विपाशो विगतातंको विचित्रांगो विरोचनः |
विद्याधरो विशुद्धात्मा वेदांगो विबुधप्रियः || 103 ||
वचस्करो व्यापकश्च विज्ञानी विनयान्वितः |
विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् || 104 ||
वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः |
विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः || 105 ||
वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् |
विश्वकर्मा वीतभयो वागीशो वासवार्चितः || 106 ||
वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वरासनः |
विशाखो विमलो वाग्मी विद्वान्वेदधरो वटुः || 107 ||
वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः |
विजयी विनयी वेत्ता वरीयान्विरजा वसुः || 108 ||
वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी |
वरशीलो वरगुणो विशोको वज्रधारकः || 109 ||
शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः |
श्रीमान् शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः || 110 ||
शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः |
शांतः शूलधरः श्रेष्ठः शुद्धात्मा शंकरः शिवः || 111 ||
शितिकंठात्मजः शूरः शांतिदः शोकनाशनः |
षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः || 112 ||
षट्चक्रस्थः षडूर्मिघ्नः षडंगश्रुतिपारगः |
षड्भावरहितः षट्कः षट्छास्त्रस्मृतिपारगः || 113 ||
षड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः |
षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः || 114 ||
षट्कोणमध्यनिलयः षंडत्वपरिहारकः |
सेनानीः सुभगः स्कंदः सुरानंदः सतां गतिः || 115 ||
सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी |
सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः || 116 ||
सिद्धार्थः सिद्धसंकल्पः सिद्धसाधुः सुरेश्वरः |
सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः || 117 ||
सुधापतिः स्वयंज्योतिः स्वयंभूः सर्वतोमुखः |
समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् || 118 ||
सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः |
संभाव्यः सुमनाः सेव्यः सकलागमपारगः || 119 ||
सुव्यक्तः सच्चिदानंदः सुवीरः सुजनाश्रयः |
सर्वलक्षणसंपन्नः सत्यधर्मपरायणः || 120 ||
सर्वदेवमयः सत्यः सदा मृष्टान्नदायकः |
सुधापी सुमतिः सत्यः सर्वविघ्नविनाशनः || 121 ||
सर्वदुःखप्रशमनः सुकुमारः सुलोचनः |
सुग्रीवः सुधृतिः सारः सुराराध्यः सुविक्रमः || 122 ||
सुरारिघ्नः स्वर्णवर्णः सर्पराजः सदा शुचिः |
सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः || 123 ||
हस्तिचर्मांबरसुतो हस्तिवाहनसेवितः |
हस्तचित्रायुधधरो हृताघो हसिताननः || 124 ||
हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः |
हेमाद्रिभिद्धंसरूपो हुंकारहतकिल्बिषः || 125 ||
हिमाद्रिजातातनुजो हरिकेशो हिरण्मयः |
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः || 126 ||
हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः |
हरप्रियो हितकरो हतपापो हरोद्भवः || 127 ||
क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः |
क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः || 128 ||
क्षुद्रघ्नः क्षांतिदः क्षेमः क्षितिभूषः क्षमाश्रयः |
क्षालिताघः क्षितिधरः क्षीणसंरक्षणक्षमः || 129 ||
क्षणभंगुरसन्नद्धघनशोभिकपर्दकः |
क्षितिभृन्नाथतनयामुखपंकजभास्करः || 130 ||
क्षताहितः क्षरः क्षंता क्षतदोषः क्षमानिधिः |
क्षपिताखिलसंतापः क्षपानाथसमाननः || 131 ||
उत्तर न्यासः |
करन्यासः –
ॐ शं ओंकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय अंगुष्ठाभ्यां नमः |
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय तर्जनीभ्यां नमः |
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय मध्यमाभ्यां नमः |
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय अनामिकाभ्यां नमः |
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय कनिष्ठिकाभ्यां नमः |
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय करतलकरपृष्ठाभ्यां नमः |
हृदयादिन्यासः –
ॐ शं ओंकारस्वरूपाय ओजोधराय ओजस्विने सुहृदयाय हृष्टचित्तात्मने भास्वररूपाय हृदयाय नमः |
ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय शिरसे स्वाहा |
ॐ वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय शिखायै वषट् |
ॐ णं कृशानुसंभवाय कवचिने कुक्कुटध्वजाय कवचाय हुं |
ॐ भं कंदर्पकोटिदीप्यमानाय द्विषड्बाहवे द्वादशाक्षाय नेत्रत्रयाय वौषट् |स्तोत्रं
ध्यानं |
शांतं पद्मासनस्थं शशिधरमुकुटं पंचवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहंतं |
नागं पाशं च घंटां प्रळयहुतवहं सांकुशं वामभागे
नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ||
स्तोत्रं |
ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः |
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः || 1 ||
जटी चर्मी शिखंडी च सर्वांगः सर्वभावनः |
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः || 2 ||
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः |
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः || 3 ||
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः |
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः || 4 ||
महारूपो महाकायो वृषरूपो महायशाः |
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः || 5 ||
लोकपालोऽंतर्हितात्मा प्रसादो हयगर्दभिः |
पवित्रं च महांश्चैव नियमो नियमाश्रितः || 6 ||
सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः |
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः || 7 ||
चंद्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः |
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः || 8 || [आद्यंतलयकर्ता च]
महातपा घोरतपा अदीनो दीनसाधकः |
संवत्सरकरो मंत्रः प्रमाणं परमं तपः || 9 ||
योगी योज्यो महाबीजो महारेता महाबलः |
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः || 10 ||
दशबाहुस्त्वनिमिषो नीलकंठ उमापतिः |
विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः || 11 ||
गणकर्ता गणपतिर्दिग्वासाः काम एव च |
मंत्रवित्परमो मंत्रः सर्वभावकरो हरः || 12 ||
कमंडलुधरो धन्वी बाणहस्तः कपालवान् |
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् || 13 ||
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः |
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा || 14 ||
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च |
सृगालरूपः सिद्धार्थो मुंडः सर्वशुभंकरः || 15 ||
अजश्च बहुरूपश्च गंधधारी कपर्द्यपि |
ऊर्ध्वरेता ऊर्ध्वलिंग ऊर्ध्वशायी नभःस्थलः || 16 ||
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः |
अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः || 17 ||
गजहा दैत्यहा कालो लोकधाता गुणाकरः |
सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः || 18 ||
कालयोगी महानादः सर्वकामश्चतुष्पथः |
निशाचरः प्रेतचारी भूतचारी महेश्वरः || 19 ||
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः |
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः || 20 ||
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः |
सहस्रहस्तो विजयो व्यवसायो ह्यतंद्रितः || 21 ||
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः | [मर्ष]
दक्षयागापहारी च सुसहो मध्यमस्तथा || 22 ||
तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः |
गंभीरघोषो गंभीरो गंभीरबलवाहनः || 23 ||
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः |
सुतीक्ष्णदशनश्चैव महाकायो महाननः || 24 ||
विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः |
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् || 25 ||
विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः |
हुताशनसहायश्च प्रशांतात्मा हुताशनः || 26 ||
उग्रतेजा महातेजा जन्यो विजयकालवित् |
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च || 27 ||
शिखी मुंडी जटी ज्वाली मूर्तिजो मूर्धगो बली |
वेणवी पणवी ताली खली कालकटंकटः || 28 ||
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः |
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः || 29 ||
विमोचनः सुसरणो हिरण्यकवचोद्भवः |
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा || 30 || [मेघजो]
सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः |
व्यालरूपो गुहावासी गुहो माली तरंगवित् || 31 ||
त्रिदशस्त्रिकालधृक्कर्मसर्वबंधविमोचनः |
बंधनस्त्वसुरेंद्राणां युधिशत्रुविनाशनः || 32 ||
सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः |
प्रस्कंदनो विभागज्ञो अतुल्यो यज्ञभागवित् || 33 ||
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः |
हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः || 34 || [यज्ञः]
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः |
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः || 35 ||
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः |
सर्वकालप्रसादश्च सुबलो बलरूपधृत् || 36 ||
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः |
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः || 37 ||
रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसी |
वसुवेगो महावेगो मनोवेगो निशाचरः || 38 ||
सर्ववासी श्रियावासी उपदेशकरोऽकरः |
मुनिरात्मनिरालोकः संभग्नश्च सहस्रदः || 39 ||
पक्षी च पक्षरूपश्च अतिदीप्तो विशां पतिः |
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः || 40 ||
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः |
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः || 41 ||
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः |
महासेनो विशाखश्च षष्टिभागो गवां पतिः || 42 ||
वज्रहस्तश्च विष्कंभी चमूस्तंभन एव च |
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः || 43 ||
वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः | [नित्यमाश्रितपूजितः]
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् || 44 ||
ईशान ईश्वरः कालो निशाचारी पिनाकभृत् |
निमित्तस्थो निमित्तं च नंदिर्नंदिकरो हरिः || 45 ||
नंदीश्वरश्च नंदी च नंदनो नंदिवर्धनः |
भगहारी निहंता च कालो ब्रह्मा पितामहः || 46 ||
चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च |
लिंगाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः || 47 ||
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः |
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः || 48 ||
दंभो ह्यदंभो वैदंभो वश्यो वशकरः कलिः |
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः || 49 ||
अक्षरं परमं ब्रह्म बलवच्छक्र एव च |
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः || 50 ||
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् |
वेदकारो मंत्रकारो विद्वान् समरमर्दनः || 51 ||
महामेघनिवासी च महाघोरो वशीकरः |
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः || 52 ||
वृषणः शंकरो नित्यवर्चस्वी धूमकेतनः |
नीलस्तथांगलुब्धश्च शोभनो निरवग्रहः || 53 ||
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः |
उत्संगश्च महांगश्च महागर्भपरायणः || 54 ||
कृष्णवर्णः सुवर्णश्च इंद्रियं सर्वदेहिनां |
महापादो महाहस्तो महाकायो महायशाः || 55 ||
महामूर्धा महामात्रो महानेत्रो निशालयः |
महांतको महाकर्णो महोष्ठश्च महाहनुः || 56 ||
महानासो महाकंबुर्महाग्रीवः श्मशानभाक् |
महावक्षा महोरस्को ह्यंतरात्मा मृगालयः || 57 ||
लंबनो लंबितोष्ठश्च महामायः पयोनिधिः |
महादंतो महादंष्ट्रो महाजिह्वो महामुखः || 58 ||
महानखो महारोमा महाकेशो महाजटः |
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः || 59 ||
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः |
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः || 60 ||
गंडली मेरुधामा च देवाधिपतिरेव च |
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः || 61 ||
यजुः पादभुजो गुह्यः प्रकाशो जंगमस्तथा |
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः || 62 ||
उपकारः प्रियः सर्वः कनकः कांचनच्छविः |
नाभिर्नंदिकरो भावः पुष्करस्थपतिः स्थिरः || 63 ||
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः |
नक्तं कलिश्च कालश्च मकरः कालपूजितः || 64 ||
सगणो गणकारश्च भूतवाहनसारथिः |
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः || 65 ||
लोकपालस्तथाऽलोको महात्मा सर्वपूजितः |
शुक्लस्त्रिशुक्लः संपन्नः शुचिर्भूतनिषेवितः || 66 ||
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः |
विशालशाखस्ताम्रोष्ठो ह्यंबुजालः सुनिश्चलः || 67 ||
कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः |
गंधर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः || 68 ||
परश्वधायुधो देवो ह्यनुकारी सुबांधवः |
तुंबवीणो महाक्रोध ऊर्ध्वरेता जलेशयः || 69 ||
उग्रो वंशकरो वंशो वंशनादो ह्यनिंदितः |
सर्वांगरूपो मायावी सुहृदो ह्यनिलोऽनलः || 70 ||
बंधनो बंधकर्ता च सुबंधनविमोचनः |
स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः || 71 ||
बहुधा निंदितः शर्वः शंकरः शंकरोऽधनः |
अमरेशो महादेवो विश्वदेवः सुरारिहा || 72 ||
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा | [हरि]
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः || 73 ||
धन्वंतरिर्धूमकेतुः स्कंदो वैश्रवणस्तथा |
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः || 74 ||
प्रभावः सर्वगो वायुरर्यमा सविता रविः |
उषंगुश्च विधाता च मांधाता भूतभावनः || 75 ||
विभुर्वर्णविभावी च सर्वकामगुणावहः |
पद्मनाभो महागर्भश्चंद्रवक्त्रोऽनिलोऽनलः || 76 ||
बलवांश्चोपशांतश्च पुराणः पुण्यचंचुरी |
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः || 77 ||
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः |
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् || 78 ||
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः |
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः || 79 ||
वणिजो वर्धकी वृक्षो वकुलश्चंदनश्छदः |
सारग्रीवो महाजत्रुरलोलश्च महौषधः || 80 ||
सिद्धार्थकारी सिद्धार्थश्छंदोव्याकरणोत्तरः |
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः || 81 ||
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः |
सारंगो नवचक्रांगः केतुमाली सभावनः || 82 ||
भूतालयो भूतपतिरहोरात्रमनिंदितः || 83 ||
वाहिता सर्वभूतानां निलयश्च विभुर्भवः |
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः || 84 ||
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः |
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः || 85 ||
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनां |
प्रकृष्टारिर्महाहर्षो जितकामो जितेंद्रियः || 86 ||
गांधारश्च सुवासश्च तपःसक्तो रतिर्नरः |
महागीतो महानृत्यो ह्यप्सरोगणसेवितः || 87 ||
महाकेतुर्महाधातुर्नैकसानुचरश्चलः |
आवेदनीय आदेशः सर्वगंधसुखावहः || 88 ||
तोरणस्तारणो वातः परिधी पतिखेचरः |
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः || 89 ||
नित्य आत्मसहायश्च देवासुरपतिः पतिः |
युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः || 90 ||
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः |
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः || 91 ||
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः |
अक्षश्च रथयोगी च सर्वयोगी महाबलः || 92 ||
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः |
निर्जीवो जीवनो मंत्रः शुभाक्षो बहुकर्कशः || 93 ||
रत्नप्रभूतो रक्तांगो महार्णवनिपानवित् | [रत्नांगो]
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः || 94 ||
आरोहणोऽधिरोहश्च शीलधारी महायशाः |
सेनाकल्पो महाकल्पो योगो युगकरो हरिः || 95 || [योगकरो]
युगरूपो महारूपो महानागहनो वधः |
न्यायनिर्वपणः पादः पंडितो ह्यचलोपमः || 96 ||
बहुमालो महामालः शशी हरसुलोचनः |
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः || 97 ||
त्रिलोचनो विषण्णांगो मणिविद्धो जटाधरः |
बिंदुर्विसर्गः सुमुखः शरः सर्वायुधः सहः || 98 ||
निवेदनः सुखाजातः सुगंधारो महाधनुः |
गंधपाली च भगवानुत्थानः सर्वकर्मणां || 99 ||
मंथानो बहुलो वायुः सकलः सर्वलोचनः |
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् || 100 ||
छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः |
मुंडो विरूपो विकृतो दंडी कुंडी विकुर्वणः || 101 ||
हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् |
सहस्रमूर्धा देवेंद्रः सर्वदेवमयो गुरुः || 102 ||
सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत् |
पवित्रं त्रिककुन्मंत्रः कनिष्ठः कृष्णपिंगळः || 103 ||
ब्रह्मदंडविनिर्माता शतघ्नीपाशशक्तिमान् |
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः || 104 ||
गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः |
अनंतरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः || 105 ||
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः |
चंदनी पद्मनालाग्रः सुरभ्युत्तरणो नरः || 106 ||
कर्णिकारमहास्रग्वी नीलमौळिः पिनाकधृत् |
उमापतिरुमाकांतो जाह्नवीधृदुमाधवः || 107 ||
वरो वराहो वरदो वरेण्यः सुमहास्वनः |
महाप्रसादो दमनः शत्रुहा श्वेतपिंगळः || 108 ||
पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् | [प्रीतात्मा]
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः || 109 ||
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः |
साध्यर्षिर्वसुरादित्यो विवस्वान्सवितामृतः || 110 ||
व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः |
ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः || 111 ||
कळा काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः |
विश्वक्षेत्रं प्रजाबीजं लिंगमाद्यस्तु निर्गमः || 112 ||
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः |
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपं || 113 ||
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः |
देवासुरविनिर्माता देवासुरपरायणः || 114 ||
देवासुरगुरुर्देवो देवासुरनमस्कृतः |
देवासुरमहामात्रो देवासुरगणाश्रयः || 115 ||
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः |
देवातिदेवो देवर्षिर्देवासुरवरप्रदः || 116 || [देवादि]
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः |
सर्वदेवमयोऽचिंत्यो देवतात्माऽऽत्मसंभवः || 117 ||
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः |
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः || 118 ||
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः |
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः || 119 ||
गुहः कांतो निजः सर्गः पवित्रं सर्वपावनः |
शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः || 120 ||
अभिरामः सुरगणो विरामः सर्वसाधनः |
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः || 121 ||
स्थावराणां पतिश्चैव नियमेंद्रियवर्धनः |
सिद्धार्थः सिद्धभूतार्थोऽचिंत्यः सत्यव्रतः शुचिः || 122 ||
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः | [भक्तानुग्रहकारकः]
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् || 123 ||
ॐ वं खेटधराय खड्गिने शक्तिहस्ताय अस्त्राय फट् |
भूर्भुवस्सुवरोमिति दिग्विमोकः |
फलश्रुति |
इति नाम्नां सहस्राणि षण्मुखस्य च नारद |
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा || 1 ||
स सद्यो मुच्यते पापैर्मनोवाक्कायसंभवैः |
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनं || 2 ||
वाक्येनैकेन वक्ष्यामि वांछितार्थं प्रयच्छति |
तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः || 3 ||
इति स्कंदपुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे श्री सुब्रह्मण्य सहस्रनाम स्तोत्रं |
अर्थ
श्री शिव सहस्रनाम स्तोत्र भगवान शिव के हजार दिव्य नामों का एक अत्यंत शक्तिशाली और पवित्र स्तोत्र है। यह स्तोत्र केवल नामों का संग्रह नहीं, बल्कि भगवान शिव के दिव्य गुणों, लीलाओं, शक्तियों और स्वरूप का गहन वर्णन है। नैमिषारण्य में एकत्रित महर्षियों ने सूत महाऋषि से पूछा कि कलियुग में जब मनुष्य पाप कर्मों में लिप्त होकर दुःख, दरिद्रता और रोगों से पीड़ित हैं, तो किस स्तोत्र के पाठ से वे सभी पाप-बंधनों से मुक्त हो सकते हैं, अपनी मनोकामनाएं पूर्ण कर सकते हैं, पुण्य प्राप्त कर सकते हैं, दुःख-दरिद्रता का नाश कर सकते हैं और सभी रोगों से मुक्ति पा सकते हैं। ऋषियों का यह प्रश्न मानव जाति के कल्याण के प्रति उनकी गहरी चिंता को दर्शाता है।
सूत महाऋषि ने ऋषियों के प्रश्न का उत्तर देते हुए इस महान स्तोत्र के उद्गम का वर्णन किया। उन्होंने बताया कि इस स्तोत्र का उपदेश स्वयं ब्रह्मा जी ने महात्मा नारद को दिया था। यह स्तोत्र के दिव्य और प्राचीन मूल को उजागर करता है। सृष्टिकर्ता ब्रह्मा जी द्वारा उपदिष्ट यह सहस्रनाम कोई साधारण स्तोत्र नहीं है, बल्कि इसमें सभी वेद और शास्त्रों का सार निहित है। नारद मुनि ने ब्रह्मा जी को साष्टांग प्रणाम कर, लोक कल्याण के लिए भगवान शिव के दिव्य नामों के विषय में प्रश्न किया था। यह स्तोत्र कलियुग के कलुषित मनों को शुद्ध करने, पापों से मुक्ति दिलाने और भक्तों को सभी सुख-समृद्धि प्रदान करने की क्षमता रखता है।
श्री शिव सहस्रनाम का प्रत्येक नाम भगवान शिव की अनंत शक्ति और गुणों का प्रतिनिधित्व करता है। इन नामों का जप करने से भक्त शिव के विभिन्न रूपों का ध्यान कर पाता है। शिव केवल संहारक ही नहीं, बल्कि करुणामय, रक्षक, ज्ञानदाता और मोक्षदाता भी हैं। यह स्तोत्र भक्त को भौतिक और आध्यात्मिक दोनों क्षेत्रों में ऊपर उठाता है। यह भक्ति को बढ़ाता है, मन को शांति प्रदान करता है और आध्यात्मिक जागृति को प्रेरित करता है। निरंतर पाठ से मन शुद्ध होता है, शरीर स्वस्थ रहता है और जीवन में सकारात्मक बदलाव आते हैं।
यह स्तोत्र केवल एक धार्मिक अनुष्ठान नहीं, बल्कि आंतरिक परिवर्तन का एक साधन है। शिव के नामों का स्मरण करके, भक्त अपने अहंकार का त्याग कर दिव्य चेतना के साथ एकाकार हो जाता है। यह अज्ञान को दूर कर ज्ञान का दीपक जलाता है। शिव सहस्रनाम भक्तों को कठिनाई के समय शक्ति, दुःख के समय सांत्वना और भय के समय साहस प्रदान करता है। यह भगवान शिव के साथ सीधा संबंध स्थापित करने में मदद करने वाला एक सेतु के समान है। कलियुग के प्रभावों से मुक्ति पाने और परम शांति प्राप्त करने के लिए यह एक अमूल्य साधन है।
प्रयोजन (Benefits):
- पाप निवारण: इस स्तोत्र का भक्तिपूर्वक पाठ करने से कलियुग के पाप नष्ट होते हैं और भक्त पाप-बंधनों से मुक्त हो जाता है।
- इष्टसिद्धि: शिव सहस्रनाम का नियमित पाठ भक्तों की सभी मनोकामनाओं को पूर्ण करता है और जीवन में सफलता लाता है।
- दुःख-दरिद्रता नाश: आर्थिक संकट और जीवन के दुःख दूर होते हैं, जिससे समृद्धि और खुशी प्राप्त होती है।
- सर्वरोग हरण: शारीरिक और मानसिक रोगों से मुक्ति मिलती है, जिससे एक स्वस्थ जीवन प्राप्त होता है।
- आध्यात्मिक उन्नति: शिव के नामों का जप करने से भक्ति बढ़ती है, मन को शांति मिलती है और आध्यात्मिक ज्ञान में वृद्धि होती है।
- भय निवारण: किसी भी प्रकार का भय, चिंताएं दूर होती हैं और साहस तथा आत्मविश्वास बढ़ता है।
अक्सर पूछे जाने वाले प्रश्न
श्री शिव सहस्रनाम स्तोत्रं क्या है?
श्री शिव सहस्रनाम स्तोत्र का पाठ कब और कैसे करना चाहिए?
श्री शिव सहस्रनाम स्तोत्र के पाठ से क्या मुख्य लाभ मिलते हैं?
श्री शिव सहस्रनाम स्तोत्र का पाठ कौन कर सकता है?
श्री शिव सहस्रनाम स्तोत्र का पाठ कितनी बार करना चाहिए?
इस स्तोत्र का मूल या उद्गम क्या है?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
