श्री कनकदुर्गानंदलहरी
वंदे गुरुपदद्वंद्वमवाङ्मानसगोचरं |
रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ||
अखंडमंडलाकारं विश्वं व्याप्य व्यवस्थितं |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ||
शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे
शिरोभिर्वेदानां चिरविनुतकळ्याणचरिते |
स्मितज्योत्स्नालीलारुचिररुचिमच्चंद्रवदने
जगन्मातर्मातर्जय कनकदुर्गे भगवति || 1 ||
नगाधीशेट्कन्ये नलिनदळसंकाशनयने
सुगीतैर्गंधर्वैः सुरयुवतिभिश्चानुचरिते |
अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते
जगन्मातर्मातर्जय कनकदुर्गे भगवति || 2 ||
निजश्रेयस्कामैर्निटलघटितांचत्करपुटे
स्तुवद्भिः सानंदं श्रुतिमधुरवाचां विरचनैः |
असंख्यैर्ब्रह्माद्यैरमरसमुदायैः परिवृते
दया कर्तव्या ते मयि कनकदुर्गे भगवति || 3 ||
भवत्पादन्यासोचितकनकपीठीपरिसरे
पतंतः साष्टांगं मुदितहृदया ब्रह्मऋषयः |
न वांछंति स्वर्गं न च कमलसंभूतभवनं
न वा मुक्तेर्मार्गं ननु कनकदुर्गे भगवति || 4 ||
शचीस्वाहादेवीप्रमुखहरिदीशानरमणी
मणीहस्तन्यस्तैर्मणिखचितपात्रैरनुदिनं |
ससंगीतं नीराजितचरणपंकेरुहयुगे
कृपापूरं मह्यं दिश कनकदुर्गे भगवति || 5 ||
प्रवर्षत्यश्रांतं बहुगुणमभीष्टार्थनिचयं
स्वरूपध्यातॄणां चिकुर निकुरुंबं तव शिवे |
अपामेकं वर्षं वितरति कदाचिज्जलधरो
द्वयोः साम्यं किं स्यान्ननु कनकदुर्गे भगवति || 6 ||
कृशांगं स्वारातिं तुहिनकरमावृत्य तरसा
स्थितं मन्ये धन्ये तिमिरनिकरं ते कचभरं |
सहायं कृत्वायं हरमनसि मोहांधतमसं
वितेने कामः श्रीमति कनकदुर्गे भगवति || 7 ||
तमो नाम्ना सम्यग्गळितपुनरुद्वांतरुचिर-
-प्रभाशेषं भानोरिव तरुणिमानं धृतवतः |
त्वदीये सीमंते कृतपदमिदं कुंकुमरजो-
-वसेदश्रांतं मे हृदि कनकदुर्गे भगवति || 8 ||
त्रिलोकी वैचित्रीजनकघनसौंदर्यसदनं
विराजत्कस्तूरीतिलकमपि फाले विजयते |
यदालोकव्रीडाकुपित इव जूटे पशुपते-
-र्विलीनो बालेंदुर्ननु कनकदुर्गे भगवति || 9 ||
पराभूतश्चेशाळिकनयनकीलाविलसना-
-द्विसृज्य प्राचीनं भुवनविनुतं कार्मुकवरं |
हरं जेतुं त्वद्भ्रूच्छलमपरबाणासनयुगं
स्मरो धत्ते सर्वेश्वरि कनकदुर्गे भगवति || 10 ||
त्वदीयभ्रूवल्लीच्छलमदनकोदंडयुगळी
समीपे विभ्राजत्तव सुविपुलं नेत्रयुगळं |
विजेतुं स्वारातिं विकचनवनीलोत्पलशर-
-द्वयं तेनानीतं खलु कनकदुर्गे भगवति || 11 ||
दरिद्रं श्रीमंतं जरठमबलानां प्रियतमं
जडं संख्यावंतं समरचलितं शौर्यकलितं |
मनुष्यं कुर्वंतोऽमरपरिवृढं नित्यसदयाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति || 12 ||
पुरारातेर्बाणाः कुसुमशरतूणीरगळिता
नतानां संत्राणे निरवधिसुधावीचिनिचयाः |
वियद्गंगाभंगा बहुदुरितजालावृतिमतां
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति || 13 ||
दरिद्राणां कल्पद्रुमसुममरंदोदकझरा
अविद्याध्वांतानामरुणकिरणानां विहृतयः |
पुरा पुण्यश्रेणीसुललितलताचैत्रसमयाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति || 14 ||
गजंतो वाहंतः कनकमणिनिर्माणविलसा
रथंतश्छत्रंतो बलयुत भटंतः प्रतिदिनं |
स्वभक्तानां गेहांगणभुवि चरंतो निरुपमाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति || 15 ||
पुरारातेरंगं पुलकनिकुरुंबैः परिवृतं
मुनिव्रातैर्ध्यातं मुकुळयुतकल्पद्रुमनिभं |
श्रयंतश्चानंदं विचलदळिपोता इव चिरं
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति || 16 ||
हरिब्रह्मेंद्राद्यैः श्रुतिविदितगीर्वाणनिचयै-
-र्वसिष्ठव्यासाद्यैरपि च परमब्रह्मऋषिभिः |
समस्तैराशास्याः सकलशुभदा यद्विहृतयः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति || 17 ||
विरिंचिर्यद्योगाद्विरचयति लोकान् प्रतिदिनं
विधत्ते लक्ष्मीशो विविधजगतां रक्षणविधिं |
ललाटाक्षो दक्षोऽभवदखिलसंहारकरणे
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति || 18 ||
उरोभागे शंभोर्विकचनवनीलोत्पलदळ-
-स्रजं संगृह्णंतो मृगमदरसं फालफलके |
शिरोऽग्रे गंगायां रविदुहितृसंदेहजनकाः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति || 19 ||
मदीयश्रीलीलाहरणपटुपाटच्चरमिति
क्वता हंतागंतुं श्रुतिविमलनीलोत्पलमिव |
तदभ्यर्णं याताः सहजनिजवैशाल्यकलिताः
कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति || 20 ||
कळंकी मासांते वहति कृशतां नित्यजड इ-
-त्यमुं चंद्रं हित्वा तव वदनचंद्राश्रितमिदं |
स्थितं जीवं जीवद्वितयमिति मन्ये नयनयो-
-र्युगं कामारातेः सति कनकदुर्गे भगवति || 21 ||
प्रसादो मय्यास्ते मयि च सहजं सौरभमिदं
तुला मे मैतस्येत्यविरतविवादाभिरतयोः |
निवृत्ता नेदानीमपि च रिपुता ग्लौनळिनयो-
-स्त्वदास्यं दृष्ट्वा श्रीमति कनकदुर्गे भगवति || 22 ||
मनोजातादर्शप्रतिमनिजलीलौ तव शिवे
कपोलौ भूयास्तां मम सकलकळ्याणजनकौ |
श्रितश्रीताटंकद्वितयरुचयो यत्र मिळिताः
सुधारुक्सूर्याभा इव कनकदुर्गे भगवति || 23 ||
त्रयीस्तुत्ये नित्ये तव वदनपंकेरुहभव-
-त्सुगंधायातश्रीप्रचलदळिनीवारणधिया |
लसन्नासाकारे वहसि सहसा चंपकतुलां
न तत्सौंदर्यार्थं ननु कनकदुर्गे भगवति || 24 ||
वहन्मे कारुण्यं वरकमलरागाह्वयमणिः
सुधापूरं सारं सुरुचिरमृदुत्वं यदि वहेत् |
तदा लब्धुं योग्यो भवति भवदीयाधरतुलां
जगद्रक्षादीक्षावति कनकदुर्गे भगवति || 25 ||
लसन्नासाभूषाग्रगपृथुलमुक्तामणियुतं
नितांतारुण्यंतत्तव दशनवासो विजयते |
सुधासिंधोर्मध्ये निपतित सुधाबिंदुसहित-
-प्रवाळश्रीचोरं ननु कनकदुर्गे भगवति || 26 ||
अयोग्या इत्यार्ये तव दशनसाम्याय कविभि-
-र्विमुक्ता मुक्ता इत्यधिकविदिता मौक्तिकगणाः |
दशामल्पांगत्वा तदनुमुखतांबूलसहिता
गतास्तत्साहित्यं खलु कनकदुर्गे भगवति || 27 ||
जितोऽहं पार्वत्या मृदुलतरवाणीविलसनैः
कथं दृप्यस्यंबाधरसमतया बिंब कथय |
इति क्रोधाच्चंच्वादळितवदने रक्तिमयुतः
शुकोऽयं विज्ञानी खलु कनकदुर्गे भगवति || 28 ||
फलं बिंबस्येदं भवति भवदीयाधरतुळा
कृताळं तन्माद्यं वहति मतिरस्येति विदिता |
न चेत्तस्मिन् भुक्ते सुमति कवितानामपि सृणां
कथं स्यात्तन्माद्यं भुवि कनकदुर्गे भगवति || 29 ||
अतुल्यं ते कंठं हरतरुणि दृष्ट्वा सुकवयः
प्रभाषंते शंखं परिहसनपात्रं भवति तत् |
स्वरूपध्यातॄणां सुभवति निधिः शंख इतिचे-
-दसंदेहं स्थाने खलु कनकदुर्गे भगवति || 30 ||
अकंठं ते कंठस्थितकनकसूत्रं विजयते
हरो यत्सामर्थ्यादमृतमिव पीत्वापि गरळं |
समाख्यां विख्यातां समलभत मृत्युंजय इति
त्रयीवेद्यक्रीडावति कनकदुर्गे भगवति || 31 ||
चिरं ध्यात्वा ध्यात्वा सकलविबुधाभीष्टनिचयं
ततस्त्वल्लावण्यामृतजलधिसंप्राप्तजनने |
भुजाकारेणैके भुवनविनुते कल्पकलते
श्रियै मे भूयास्तां ननु कनकदुर्गे भगवति || 32 ||
विराजत्केयूरद्वयमणिविभाभानुकिरणै-
-र्नितांतव्याकोचीकृतमदनजिन्नेत्रकमलौ |
विभोः कंठाश्लेषाद्विपुलपुलकांकूरजनकौ
भुजौ मे त्रातारौ ननु कनकदुर्गे भगवति || 33 ||
सुपर्वारामांतःस्फुरितसहकारद्रुमलता-
-समग्रश्रीजाग्रत्किसलयसगर्वोद्यमहरौ |
करौ ते भूयास्तां मम शुभकरौ कांतिनिकरा
करौ निश्शंकं शांकरि कनकदुर्गे भगवति || 34 ||
प्रशस्तौ त्रैलोक्ये बहुळदनुजत्रासविचल-
-न्मरुन्मस्तन्यस्तौ जननि तव हस्तौ हृदि भजे |
स्मरो यत्संकाशा इति किसलयानेव धृतवान्
त्रिलोकीजेताऽऽसीत्खलु कनकदुर्गे भगवति || 35 ||
पुरारातेः पाणिग्रहणसमये मौक्तिकचयान्
विधातुं तच्छीर्षे जनकवचनादुन्नमितयोः |
ययोरूपं दृष्ट्वाऽभवदुदितलज्जा सुरनदी
कदार्तित्रातारौ मम कनकदुर्गे भगवति || 36 ||
स्फुरंतो निश्शंकं पुरहरनिरातंकविजय-
-क्रियायात्रोद्युक्तस्मरबिरुदपाठा इव भृशं |
झणत्कारारावाः कनकवलयानां तव शिवे
वितन्वंतु श्रेयो मम कनकदुर्गे भगवति || 37 ||
कुचौ ते रूपश्रीविजितलकुचौ मे शुभकरौ
भवेतां व्याकीर्णौ प्रकटतरमुक्तामणिरुचौ |
विरिंचाद्या देवा यदुदितसुधापातुरनिशं
सुनम्राः सेनान्यो ननु कनकदुर्गे भगवति || 38 ||
अतुल्यं ते मध्यं वदति हरिमध्येन सदृशं
जगत्तन्नो युक्तं जननि खलु तद्रूपकलने |
कृताशः पंचास्यो भवति तव वाहः प्रतिदिनं
जगत्सर्गक्रीडावति कनकदुर्गे भगवति || 39 ||
असौ पुन्नागस्य प्रसवमृदुशाखाचलगतं
तपःकृत्वा लेभे जननि तव नाभेः सदृशतां |
प्रमत्तः पुन्नागप्रसव इतरस्तावक गते-
-स्तुलामाप्तुं वांछत्यपि कनकदुर्गे भगवति || 40 ||
त्रिलोकीवासांचद्युवतिजनतादुर्गमभव-
-न्नितंबश्रीचौर्यं कृतवदिति संचिंत्य पुलिनं |
सरो बाह्यंचक्रे जननि भवदीयस्मरणतो
झरेवाधीरेशा जननि कनकदुर्गे भगवति || 41 ||
जितोऽहं पार्वत्या मृदुतरगतीनां विलसनैः
तदूर्वोः सौंदर्यं सहजमधिगंतुं जडतया |
कृतारंभा रंभा इति विदळिताऽऽसां वनमयं
करी सामर्षः श्रीकरि कनकदुर्गे भगवति || 42 ||
प्रविष्टा ते नाभीबिलमसितरोमावळिरियं
कटीचंचत्कांचीगुणविहितसौत्रामणमणेः |
रुचां रेखेवास्ते रुचिरतरमूर्ध्वायनगता
श्रितश्रेणीसंपत्करि कनकदुर्गे भगवति || 43 ||
अनिर्वाच्यं जंघारुचिररुचिसौंदर्यविभवं
कथं प्राप्तुं योग्यस्तव कलमगर्भो गिरिसुते |
तदीयं सौभाग्यं कणिशजननैकावधि सुधी-
-जनैश्चिंताकार्या ननु कनकदुर्गे भगवति || 44 ||
सदा मे भूयात्ते प्रपदममिताभीष्टसुखदं
सुरस्त्रीवाहाग्रच्युतमृगमदानां समुदयं |
अशेषं निर्धौतः प्रणयकलहे यत्र पुरजि-
-ज्जटागंगानीरैर्ननु कनकदुर्गे भगवति || 45 ||
मनोज्ञाकारं ते मधुरनिनदं नूपुरयुगं
ग्रहीतुं विख्यातान् गतिविलसनानामतिरयान् |
स्थितं मन्ये हंसद्वयमिति न चेद्धंसकपदं
कथं धत्ते नाम्ना ननु कनकदुर्गे भगवति || 46 ||
त्वदीयं पादाब्जद्वयमचलकन्ये विजयते
सुरस्त्रीकस्तूरीतिलकनिकरात्यंतसुरभि |
भ्रमंतो यत्रार्याप्रकरहृदयेंदिंदिरगणाः
सदा माद्यंति श्रीमति कनकदुर्गे भगवति || 47 ||
अपर्णे ते पादावतनुतनुलावण्यसरसी
समुद्भूते पद्मे इति सुकविभिर्निश्चितमिदं |
न चेद्गीर्वाणस्त्रीसमुदयललाटभ्रमरकाः
कथं तत्रासक्ता ननु कनकदुर्गे भगवति || 48 ||
रमावाणींद्राणीमुखयुवतिसीमंतपदवी-
-नवीनार्कच्छायासदृशरुचि यत्कुंकुमरजः |
स्वकांगाकारेण स्थितमिति भवत्पादकमल-
-द्वये मन्ये शंभोः सति कनकदुर्गे भगवति || 49 ||
दवाग्निं नीहारं गरळममृतं वार्धिमवनी-
-स्थलं मृत्युं मित्रं रिपुमपि च सेवाकरजनं |
विशंकं कुर्वंतो जननि तव पादांबुरुहयोः
प्रणामाः संस्तुत्या मम कनकदुर्गे भगवति || 50 ||
जलप्राया विद्या हृदि सकलकामाः करगताः
महालक्ष्मीर्दासी मनुजपतिवर्याः सहचराः |
भवत्यश्रांतं ते पदकमलयोर्भक्तिसहितां
नतिंकुर्वाणानां ननु कनकदुर्गे भगवति || 51 ||
तव श्रीमत्पादद्वितयगतमंजीरविलस-
-न्मणिच्छायाच्छन्नाकृतिभवति यत्फालफलकं |
स तत्रैवाशेषावनिवहनदीक्षा समुचितं
वहेत्पट्टं हैमं ननु कनकदुर्गे भगवति || 52 ||
तनोतु क्षेमं त्वच्चरणनखचंद्रावळिरियं
भवत्प्राणेशस्य प्रणयकलहारंभसमये |
यदीयज्योत्स्नाभिर्भवति नितरां पूरिततनुः
शिरोऽग्रे बालेंदुर्ननु कनकदुर्गे भगवति || 53 ||
समस्ताशाधीश प्रवरवनिताहस्तकमलैः
सुमैः कल्पद्रूणां निरतकृतपूजौ निरुपमौ |
नतानामिष्टार्थप्रकरघटनापाटवयुतौ
नमस्यामः पादौ तव कनकदुर्गे भगवति || 54 ||
पुरा बाल्ये शीताचलपरिसरक्षोणिचरणे
ययोः स्पर्शं लब्ध्वा मुदितमनसः कीटनिचयान् |
विलोक्य श्लाघंते विबुधसमुदायाः प्रतिदिनं
नमामस्तौ पादौ ननु कनकदुर्गे भगवति || 55 ||
नराणामज्ञानां प्रशमयितुमंतःस्थतिमिरा-
-ण्यलक्ष्मीसंतापं गमितमनुजान् शीतलयितुं |
समर्थान्निर्दोषांश्चरणनखचंद्रानभिनवान्
नमामः सद्भक्त्या तव कनकदुर्गे भगवति || 56 ||
मुकुंद ब्रह्मेंद्र प्रमुख बहुबर्हिर्मुखशिखा-
-विभूषाविभ्राजन्मघवमणि संदर्भरुचिभिः |
विशंकं साकं त्वच्चरणनखचंद्रेषुघटितं
कवींद्रैः स्तोतव्यं तव कनकदुर्गे भगवति || 57 ||
नखानां धावळ्यं निजमरुणिमानंच सहजं
नमद्गीर्वाणस्त्रीतिलकमृगनाभिश्रियमपि |
वहंतौ सत्त्वादित्रिगुणरुचिसारानिव सदा
नमस्यामः पादौ तव कनकदुर्गे भगवति || 58 ||
मणिश्रेणीभास्वत्कनकमयमंजीरयुगळी-
-झणत्कारारावच्छलमधुरवाचां विलसनैः |
अभीष्टार्थान् दातुं विनतजनताह्वानचतुरा-
-विप ख्यातौ पादौ तव कनकदुर्गे भगवति || 59 ||
नमद्गीर्वाणस्त्रीतिलकमृगनाभीद्रवयुतं
नखच्छायायुक्तं जननि तव पादांबु जयति |
समंचत्काळिंदीझरसलिलसम्मिश्रितविय-
-न्नदीवारीव श्रीकरि कनकदुर्गे भगवति || 60 ||
सुरश्रेणीपाणिद्वितयगतमाणिक्यकलशै-
-र्धृतं हेमांभोजप्रकरमकरंदेन मिळितं |
सतां बृंदैर्वंद्यं चरणयुगसंक्षाळनजलं
पुनात्वस्मान्नित्यं तव कनकदुर्गे भगवति || 61 ||
विरावन्मंजीरद्वयनिहितहीरोपलरुचि-
-प्रसादे निर्भेदं प्रथितपरमब्रह्मऋषिभिः |
शिरोभागैर्धार्यं पदकमलनिर्णेजनजलं
वसन्मे शीर्षाग्रे तव कनकदुर्गे भगवति || 62 ||
समीपे माणिक्यस्थगितपदपीठस्य नमतां
शिरः सु त्वत्पादस्नपनसलिलं यन्निवतति |
तदेवोच्चस्थानस्थितिकृदभिषेकांबु भवति
प्रभावोऽयं वर्ण्यस्तव कनकदुर्गे भगवति || 63 ||
नृणांदीनानां त्वच्चरणकमलैकाश्रयवतां
महालक्ष्मीप्राप्तिर्भवति न हि चित्रास्पदमिदं |
समाश्रित्यांभोजं जडमपि च रेखाकृतिधरं
श्रियो नित्यं धामाजनि कनकदुर्गे भगवति || 64 ||
खगोत्तंसा हंसास्तव गतिविलासेन विजिताः
सलज्जास्तत्तुल्यं गमनमधिगंतुं सकुतुकाः |
भजंते स्रष्टारं रथवहन एवैकनिरता
मनोजातारातेः सति कनकदुर्गे भगवति || 65 ||
जगन्मातर्भव्यांगुळिविवरमार्गेषु गळितं
चतुर्धा ते पादांबुजसलिलमेतद्विजयते |
प्रदातुं धर्मार्थप्रमुखपुरुषार्थद्वययुगं
चतुर्मूर्त्या विद्धाविव कनकदुर्गे भगवति || 66 ||
अजोऽयं श्रीशोऽयं सुरपरिवृढोऽयं रविरयं
शशांकोऽयं कोऽयं सकलजलधीनां पतिरयं |
इति त्वां संद्रष्टुं समुपगतदेवाः परिचरै-
-र्जनैर्विज्ञाप्यंते खलु कनकदुर्गे भगवति || 67 ||
महापीठासीनां मघवमुखबर्हिर्मुखसखी-
-निकायैः संसेव्यां करतलचलच्चामरयुतैः |
प्रदोषे पश्यंतीं पशुपतिमहातांडवकळां
भजे त्वां श्रीकांतासखि कनकदुर्गे भगवति || 68 || [माहेश्वरि]
परंज्योतिस्तद्ज्ञाः सुरतरुलतां दुर्गतजना
महाज्वालामग्नेर्भुवनभयदा राक्षसगणाः |
ललाटाक्षः साक्षादतनुजयलक्ष्मीमविरतं
हृदि ध्यायंति त्वां कनकदुर्गे भगवति || 69 ||
समुद्यद्बालार्कायुतशतसमानद्युतिमतीं
शरद्राकाचंद्रप्रतिमदरहासांचितमुखीं |
सखीं कामारातेश्चकितहरिणीशाबनयनां
सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति || 70 ||
तपःकृत्वा लेभे त्रिपुरमथनस्त्वां प्रियसखीं
तपस्यंती प्राप्ता त्वमपि गिरिशं प्राणदयितं |
तदेवं दांपत्यं जयति युवयोर्भीतधवयोः
कविस्तुत्यं नित्यं ननु कनकदुर्गे भगवति || 71 ||
विभोर्जानासि त्वं विपुलमहिमानं पशुपतेः
स एव ज्ञाता ते चरितजलराशेरनवधेः |
न हि ज्ञातुं दक्षो भवति भवतोस्तत्वमितर-
-स्त्रीलोकीसंधानेष्वपि कनकदुर्गे भगवति || 72 ||
न विष्णुर्नब्रह्मा न च सुरपतिर्नापि सविता
न चंद्रो नोवायुर्विलसति हि कल्पांतसमये |
तदा नाट्यं कुर्वंस्तव रमण एको विजयते
त्वया साकं लोकेश्वरि कनकदुर्गे भगवति || 73 ||
धनुश्चक्रे मेरुं गुणमुरगराजं शितशरं
रमाधीशं चापि त्रिपुरमथनेन त्रिनयनः |
तदेतत्सामर्थ्यं सहजनिजशक्तेस्तव शिवे
जगद्रक्षादीक्षावति कनकदुर्गे भगवति || 74 ||
त्रिकोणांतर्बिंदूपरिविलसनात्यंतरसिकां
त्रिभिर्वेदैः स्तुत्यां त्रिगुणमयमूर्तित्रययुतां |
त्रिलोकैराराध्यां त्रिनयनमनः प्रेमजननीं
त्रिकालं सेवे त्वां हृदि कनकदुर्गे भगवति || 75 ||
मनो ध्यातुं नालं जननि तव मूर्तिं निरुपमां
वचो वक्तुं शक्यं न भवति हि ते चित्रचरितं |
तनुस्त्वत्सेवायां भवति विवशा दीनसमये
कथं वाहं रक्ष्यस्तव कनकदुर्गे भगवति || 76 ||
वियोगं ते नूनं क्षणमसहमानः पशुपति-
-र्ददौ ते देहार्धं तरुणसुमबाणायुतसमं |
अनेन ज्ञातव्यस्तव जननि सौंदर्यमहिमा
त्रिलोकी स्तोतव्यः खलु कनकदुर्गे भगवति || 77 ||
कृता यागा येन श्रुतिषु विदिताः पूर्वजनने
धनं दत्तं येन द्विजकुलवरेभ्यो बहुविधं |
तपस्तप्तं येनास्खलितमतिना तस्य घटिते
भवद्भक्तिः शंभोः सति कनकदुर्गे भगवति || 78 ||
भवन्मूर्तिध्यानप्रवणममलंचापि हृदयं
भवन्नामश्रेणीपठननिपुणां चापि रसनां |
भवत्सेवादार्ढ्यप्रथितमपि कायं वितर मे
भवानंदश्रेयस्करि कनकदुर्गे भगवति || 79 ||
प्रभाषंते वेदाश्चकितचकितं तावकगुणान्
न पारस्य द्रष्टा तव महिमवार्धेर्विधिरपि |
भवत्तत्त्वं ज्ञातुं प्रकृतिचपलानामपि नृणां
कथं वा शक्तिः स्यान्ननु कनकदुर्गे भगवति || 80 ||
नृपा एकच्छत्रं सकलधरणीपालनपराः
सुधामाधुर्यश्रीललितकविताकल्पनचणाः |
निरातंकं शास्त्राध्ययनमनसां नित्यकविता
त्वदीया ज्ञेया श्रीमति कनकदुर्गे भगवति || 81 ||
कदंबानां नागाधिकचतुरसंचारिभसरी
कदंबानां मध्ये खचरतरुणीकोटिकलिते |
स्थितां वीणाहस्तां त्रिपुरमथनानंदजननीं
सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति || 82 ||
गिरां देवी भूत्वा विहरसि चतुर्वक्त्रवदने
महालक्ष्मीरूपा मधुमथनवक्षःस्थलगता |
शिवाकारेण त्वं शिवतनुनिवासं कृतवती
कथं ज्ञेया माया तव कनकदुर्गे भगवति || 83 ||
महाराज्यप्राप्तावतिशयितकौतूहलवतां
सुधामाधुर्योद्यत्सरसकविता कौतुकयुजां |
कृताशानां शश्वत्सुखजनकगीर्वाणभजने
त्वमेवैका सेव्या ननु कनकदुर्गे भगवति || 84 ||
फणी मुक्ताहारो भवति भसितं चंदनरजो
गिरींद्रः प्रासादो गरळममृतं चर्म सुपटः |
शिवे शंभोर्यद्यद्विकृतचरितं तत्तदखिलं
शुभं जातं योगात्तव कनकदुर्गे भगवति || 85 ||
दरिद्रे वा क्षुद्रे गिरिवरसुते यत्र मनुजे
सुधापूराधारस्तव शुभकटाक्षो निपतति |
बहिर्द्वारप्रांतद्विरदमदगंधः स भवति
प्रिये कामारातेर्ननु कनकदुर्गे भगवति || 86 ||
प्रभाषंते वेदाः प्रकटयति पौराणिकवचः
प्रशस्तं कुर्वंति प्रथितबहुशास्त्राण्यविरतं |
स्तुवंतः प्रत्यग्रं सुकविनिचयाः काव्यरचनै-
-रनंतां ते कीर्तिं ननु कनकदुर्गे भगवति || 87 ||
असूयेर्ष्यादंभाद्यवगुणपरित्यागचतुराः
सदाचारासक्ताः सदयहृदयाः सत्यवचनाः |
जितस्वांताः शांता विमलचरिता दाननिरताः
कृपापात्रीभूतास्तव कनकदुर्गे भगवति || 88 ||
यदीयांभस्नानाद्दुरितचरितानां समुदया
महापुण्यायंते महिमवति तस्याः शुभकरे |
तटे कृष्णानद्या विहितमहितानंदवसते
कृपा कर्तव्या ते मयि कनकदुर्गे भगवति || 89 ||
यथा पुष्पश्रेणीविलसितकदंबद्रुमवने
तनोर्भागे नागेश्वरवलयिनः श्रीमति यथा |
तथा भक्तौघानां हृदि कृतविहारे गिरिसुते
दया कर्तव्या ते मयि कनकदुर्गे भगवति || 90 ||
समारुह्याभंगं मृगपतितुरंगं जनयुतं
गळाग्रे धूम्राक्षप्रमुखबलबर्हिर्मुखरिपून् |
निहत्य प्रत्यक्षं जगदवनलीलां कृतवती
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति || 91 ||
पराभूय त्र्यक्षं सवनकरणे यत्रसहितं
दुरात्मानं दक्षं पितरमपि संत्यज्य तरसा |
गृहे नीहाराद्रेर्निजजनसमंगीकृतवती
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति || 92 ||
तपः कृत्वा यस्मिन् सुरपतिसुतोऽनन्यसुलभं
भवादस्त्रं लेभे प्रबलरिपुसंहारकरणं |
किरातेऽस्मिन् प्रीत्या सहविहरणे कौतुकवती
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति || 93 ||
शरच्चंद्रालोकप्रतिमरुचिमंदस्मितयुते
सुरश्रीसंगीतश्रवणकुतुकालंकृतमते |
कृपापात्रीभूतप्रणमदमराभ्यर्चितपदे
प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति || 94 ||
कपालस्रग्धारी कठिनगजचर्मांबरधरः
स्मरद्वेषी शंभुर्बहुभुवनभिक्षाटनपरः |
अविज्ञातोत्पत्तिर्जननि तव पाणिग्रहणतो
जगत्सेव्यो जातः खलु कनकदुर्गे भगवति || 95 ||
पदाभ्यां प्रत्यूषस्फुटविकचशोणाब्जविलसत्
प्रभाभ्यां भक्तानामभयवरदाभ्यां तव शिवे |
चरद्भ्यां नीहाराचलपदशिलाभंगसरणौ
नमः कुर्मः कामेश्वरि कनकदुर्गे भगवति || 96 ||
मदीये हृत्पद्मे निवसतु पदांभोजयुगळं
जगद्वंद्यं रेखाध्वजकुलिशवज्रांकितमिदं |
स्फुरत्कांतिज्योत्स्ना विततमणिमंजीरमहितं
दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति || 97 ||
सदाऽहं सेवे त्वत्पदकमलपीठीपरिसरे
स्तुवन् भक्तिश्रद्धापरिचयपवित्रीकृतधिया |
भवंतीं कळ्याणीं प्रचुरतरकळ्याणचरितां
दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति || 98 ||
हरः शूली चैकः पितृवननिवासी पशुपति-
-र्दिशावासो हालाहलकबळनव्यग्रधृतिमान् |
गिरीशोऽभूदेवंविधगुणचरित्रोऽपि हि भवत्
सुसांगत्यात् श्लाघ्यो ननु कनकदुर्गे भगवति || 99 ||
समस्ताशाधीश प्रमुख सुरवर्यैः प्रणमिता-
-महर्नाथज्वालापतिहरणपाळी त्रिनयनां |
सदा ध्यायेऽहं त्वां सकलविबुधाभीष्टकलने
रतां तां कळ्याणीं हृदि कनकदुर्गे भगवति || 100 ||
सुसंतोषं यो वा जपति नियमादूहितशत-
-ज्वलद्वृत्तैः श्राव्यां निशि कनकदुर्गास्तुतिमिमां |
महालक्ष्मीपात्रं भवति सदनं तस्य वदनं
गिरां देवीपात्रं कुलमपि विधेः कल्पशतकं || 101 ||
स्तुतिं दुर्गादेव्याः सततमघसंहारकरणे
सुशक्तां वा लोके पठति सुधिया बुद्धिकुशलः |
श्रियं देवी तस्मै वितरति सुतानां च जगतां
पतित्वं वाग्मित्वं बहु कनकदुर्गे भगवति || 102 ||
शतश्लोकीबद्धं ननु कनकदुर्गांकितपदं
गुरूपन्यस्तं तद्भुवि कनकदुर्गास्तवमिदं |
निबद्धं माणिक्यैः कनकशतमानं भवति ते
यथा हृद्यं देवि स्फुटपदविभक्तं विजयतां || 103 ||
इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीविद्याशंकराचार्य विरचितं श्रीमत्कनकदुर्गानंदलहरी स्तोत्रं |
अर्थ
श्री कनकदुर्गानंदलहरी स्तोत्रम केवल एक प्रार्थना नहीं, बल्कि एक दिव्य भक्तिपूर्ण भजन है जो भक्तों को माँ कनकदुर्गा की कृपा प्राप्त करने, उनके दिव्य स्वरूप का ध्यान करने और उनके आशीर्वाद से जीवन को धन्य बनाने का मार्ग दिखाता है। यह स्तोत्र गुरु के चरण कमलों को वंदन के साथ शुरू होता है, यह मानते हुए कि गुरु ही वह हैं जिन्होंने अखंड मंडलाकार, विश्वव्यापी परम तत्व का दर्शन कराया है। यह स्तोत्र भक्तिभाव से कनकदुर्गा देवी के चंद्रवदन, स्मितज्योत्स्ना (मुस्कान की चमक), सुगंधित उपस्थिति और सुंदर नेत्रों जैसे दिव्य गुणों का वर्णन करता है, जो भक्तों के हृदय को आकर्षित करते हैं।
यह स्तोत्र देवी कनकदुर्गा को जगन्माता, परमेश्वरी, शिव सहचरी और विभिन्न रूपों में चित्रित करता है। इसमें यह गहन विश्वास प्रतिपादित है कि उनकी शक्ति सभी सिद्धियों को प्रदान करने में सक्षम है और वे भक्तों पर समान रूप से कृपा बरसाती हैं। स्तोत्र की प्रत्येक पंक्ति कनकदुर्गा देवी के विभिन्न रूपों, उनके दैवीय गुणों और भक्तों पर उनकी असीम करुणा का विस्तृत वर्णन करती है। यह देवी पार्वती के रूप में भगवान शिव के साथ उनके संबंध को भी इंगित करता है और उनके चरण कमलों, कंठ, कटि और अन्य दिव्य अंगों से प्राप्त होने वाले लाभों को बताता है।
स्तोत्र के रचयिता यह कामना करते हैं कि भक्ति, सेवा, ध्यान और कटाक्ष (एक दिव्य दृष्टि) के माध्यम से देवी की कृपा प्राप्त की जा सकती है। यह कटाक्ष विभिन्न प्रकार की समृद्धि, स्वास्थ्य, विजय और जीवन शक्ति प्रदान करता है। यह स्तोत्र देवी की सेवा में स्थिरता, पूजा के नियमों का पालन, नैतिक पराक्रम और दान जैसे गुणों को प्रोत्साहित करता है। स्तोत्र स्पष्ट करता है कि कनकदुर्गा देवी की सेवा से सभी मनोकामनाएं पूरी होती हैं और भक्तों को संस्कार, सौभाग्य, सौंदर्य, धन, संतान, राजसी वैभव और सुरक्षा जैसे फल प्राप्त होते हैं।
इसके अतिरिक्त, यह स्तोत्र वेदों और आगमों के संदर्भों को संदर्भित करता है, शक्ति के विशेष आयाम, उनसे संबंधित देवत्व पीठों और दैवीय संस्कारों को याद दिलाता है। कुल मिलाकर, यह स्तोत्र भक्ति के माध्यम से दिव्य सान्निध्य प्राप्त करने, जीवन के दुखों, भय को दूर करने और आध्यात्मिक, ज्ञान और सामंजस्यपूर्ण पूर्णता प्राप्त करने का मार्गदर्शक है। इस पाठ के माध्यम से, रचयिता भक्तों को प्रेरित करते हैं और प्रत्येक पद के माध्यम से सप्त अभिषेक के गुणों और कल्याण को प्रदान करने की कामना करते हैं।
लाभ (Benefits):
- कनकदुर्गा देवी की कृपा, सुरक्षा और दिव्य दृष्टि: इस स्तोत्र के निरंतर पाठ से भक्त देवी की अपार कृपा प्राप्त करते हैं, उनकी सुरक्षा कवच में सुरक्षित रहते हैं और दिव्य ज्ञान प्राप्त करते हैं।
- सौभाग्य, धन और संतान प्राप्ति: कनकदुर्गा देवी के आशीर्वाद से जीवन में सौभाग्य, धन-संपदा में वृद्धि, समृद्धि और उत्तम संतान की प्राप्ति होती है।
- मानसिक शांति और भक्ति की वृद्धि: स्तोत्र का पाठ मन को शांति और स्थिरता प्रदान करता है और देवी के प्रति भक्ति भाव को मजबूत करता है, जिससे आध्यात्मिक प्रगति संभव होती है।
- विपत्तियों से रक्षा और शत्रु विजय: देवी सभी प्रकार की कठिनाइयों, बाधाओं और शत्रु भय से भक्तों की रक्षा करती हैं, और जीवन में विजय दिलाती हैं।
- आध्यात्मिक उन्नति और सद्गुणों का विकास: ध्यान, पूजा और धार्मिक अनुष्ठानों के माध्यम से आध्यात्मिक प्रगति प्राप्त करने के लिए स्तोत्र प्रेरित करता है, साथ ही सद्गुणों को विकसित करने में भी सहायक होता है।
अक्सर पूछे जाने वाले प्रश्न
श्री कनकदुर्गानंदलहरी स्तोत्र क्या है?
इस स्तोत्र का पाठ कब और कैसे करना चाहिए?
श्री कनकदुर्गानंदलहरी स्तोत्र के पाठ से क्या लाभ होते हैं?
इस स्तोत्र का पाठ कौन कर सकता है?
इस स्तोत्र का पाठ कितनी बार करना चाहिए?
इस स्तोत्र की उत्पत्ति या रचनाकार कौन हैं?
टिप्पणियाँ
टिप्पणी लिखने के लिए लॉगिन करें
टिप्पणियाँ लोड हो रही हैं...
