सा

सांबपंचाशिका

संपादन: अद्यतन
स्तोत्रनवग्रह
0 व्यूज़

सांबपंचाशिका

पुष्णन् देवानमृतविसरैरिंदुमास्राव्य सम्यग्
भाभिः स्वाभी रसयति रसं यः परं नित्यमेव |
क्षीणं क्षीणं पुनरपि च तं पूरयत्येवमीदृग्
दोलालीलोल्लसितहृदयं नौमि चिद्भानुमेकं ||

शब्दार्थत्वविवर्तमानपरमज्योतीरुचो गोपते-
-रुद्गीथोऽभ्युदितः पुरोऽरुणतया यस्य त्रयीमंडलं |
भास्यद्वर्णपदक्रमेरिततमः सप्तस्वराश्वैर्विय-
-द्विद्यास्यंदनमुन्नयन्निव नमस्तस्मै परब्रह्मणे || 1 ||

ओमित्यंतर्नदति नियतं यः प्रतिप्राणि शब्दो
वाणी यस्मात्प्रसरति परा शब्दतन्मात्रगर्भा |
प्राणापानौ वहति च समौ यो मिथो ग्राससक्तौ
देहस्थं तं सपदि परमादित्यमाद्यं प्रपद्ये || 2 ||

यस्त्वक्चक्षुःश्रवणरसनाघ्राणपाण्यंघ्रिवाणी-
-पायूपस्थस्थितिरपि मनोबुद्ध्यहंकारमूर्तिः |
तिष्ठत्यंतर्बहिरपि जगद्भासयंद्वादशात्मा
मार्तंडं तं सकलकरणाधारमेकं प्रपद्ये || 3 ||

या सा मित्रावरुणसदनादुच्चरंतो त्रिषष्टिं
वर्णानत्र प्रकटकरणैः प्राणसंगात्प्रसूतान् |
तां पश्यंतीं प्रथममुदितां मध्यमां बुद्धिसंस्थां
वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये || 4 ||

ऊर्ध्वाधःस्थान्यतनुभुवनान्यंतरा संनिविष्टा
नानानाडिप्रसवगहना सर्वभूतांतरस्था |
प्राणापानग्रसननिरतैः प्राप्यते ब्रह्मनाडी
सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना || 5 ||

न ब्रह्मांडव्यवहितपथा नातिशीतोष्णरूपा
नो वा नक्तंदिवगममिताऽतापनीयापराहुः |
वैकुंठीया तनुरिव रवे राजते मंडलस्था
सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना || 6 ||

यत्रारूढं त्रिगुणवपुषि ब्रह्म तद्बिंदुरूपं
योगींद्राणां यदपि परमं भाति निर्वाणमार्गः |
त्रय्याधारः प्रणव इति यन्मंडलं चंडरश्मे-
-रंतः सूक्ष्मं बहिरपि बृहन्मुक्तयेऽहं प्रपन्नः || 7 ||

यस्मिन्सोमः सुरपितृनरैरन्वहं पीयमानः
क्षीणः क्षीणः प्रविशति यतो वर्धते चापि भूयः |
यस्मिन्वेदा मधुनि सरघाकारवद्भांति चाग्रे
तच्चंडांशोरमितममृतं मंडलस्थं प्रपद्ये || 8 ||

ऐंद्रीमाशां पृथुकवपुषा पूरयित्वा क्रमेण
क्रांताः सप्त प्रकटहरिणा येन पादेन लोकाः |
कृत्वा ध्वांतं विगलितबलिव्यक्ति पाताललीनं
विश्वालोकः स जयति रविः सत्त्वमेवोर्ध्वरश्मिः || 9 ||

ध्यात्वा ब्रह्म प्रथममतनु प्राणमूले नदंतं
दृष्ट्वा चांतः प्रणवमुखरं व्याहृतीः सम्यगुक्त्वा |
यत्तद्वेदे तदिति सवितुर्ब्रह्मणोक्तं वरेण्यं
तद्भर्गाख्यं किमपि परमं धामगर्भं प्रपद्ये || 10 ||

त्वां स्तोष्यामि स्तुतिभिरिति मे यस्तु भेदग्रहोऽयं
सैवाविद्या तदपि सुतरां तद्विनाशाय युक्तः |
स्तौम्येवाहं त्रिविधमुदितं स्थूलसूक्ष्मं परं वा
विद्योपायः पर इति बुधैर्गीयते खल्वविद्या || 11 ||

योऽनाद्यंतोऽप्यतनुरगुणोऽणोरणीयान्महीया-
-न्विश्वाकारः सगुण इति वा कल्पनाकल्पितांगः |
नानाभूतप्रकृतिविकृतीर्दर्शयन्भाति यो वा
तस्मै तस्मै भवतु परमादित्य नित्यं नमस्ते || 12 ||

तत्त्वाख्याने त्वयि मुनिजनाः नेति नेति ब्रुवंतः
श्रांताः सम्यक्त्वमिति न च तैरीदृशो वेति चोक्तः |
तस्मात्तुभ्यं नम इति वचोमात्रमेवास्मि वच्मि
प्रायो यस्मात्प्रसरति तरां भारती ज्ञानगर्भा || 13 ||

सर्वांगीणः सकलवपुषामंतरे योऽंतरात्मा
तिष्ठन्काष्ठे दहन इव नो दृश्यसे युक्तिशून्यैः |
यश्च प्राणारणिषु नियतैर्मथ्यमानासु सद्भि-
-र्दृश्यं ज्योतिर्भवसि परमादित्य तस्मै नमस्ते || 14 ||

स्तोता स्तुत्यः स्तुतिरिति भवान्कर्तृकर्मक्रियात्मा
क्रीडत्येकस्तव नुतिविधावस्वतंत्रस्ततोऽहं |
यद्वा वच्मि प्रणयसुभगं गोपते तच्च तथ्यं
त्वत्तो ह्यन्यत्किमिव जगतां विद्यते तन्मृषा स्यात् || 15 ||

ज्ञानं नांतःकरणरहितं विद्यतेऽस्मद्विधानां
त्वं चात्यंतं सकलकरणागोचरत्वादचिंत्यः |
ध्यानातीतस्त्वमिति न विना भक्तियोगेन लभ्य-
-स्तस्माद्भक्तिं शरणममृतप्राप्तयेऽहं प्रपन्नः || 16 ||

हार्दं हंति प्रथममुदिता या तमः संश्रितानां
सत्त्वोद्रेकात्तदनु च रजः कर्मयोगक्रमेण |
स्वभ्यस्ता च प्रथयतितरां सत्त्वमेव प्रपन्ना
निर्वाणाय व्रजति शमिनां तेऽर्क भक्तिस्त्रयीव || 17 ||

तामासाद्य श्रियमिव गृहे कामधेनुं प्रवासे
ध्वांते भातिं धृतिमिव वने योजने ब्रह्मनाडिं |
नावं चास्मिन्विषमविषयग्राहसंसारसिंधौ
गच्छेयं ते परमममृतं यन्न शीतं न चोष्णं || 18 ||

अग्नीषोमावखिलजगतः कारणं तौ मयूखैः
सर्गादाने सृजसि भगवन्ह्रासवृद्धिक्रमेण |
तावेवांतर्विषुवति समौ जुह्वतामात्मवह्नौ
द्वावप्यस्तं नयसि युगपन्मुक्तये भक्तिभाजां || 19 ||

स्थूलत्वं ते प्रकृतिगहनं नैव लक्ष्यं ह्यनंतं
सूक्ष्मत्वं वा तदपि सदसद्व्यक्त्यभावादचिंत्यं |
ध्यायामीत्थं कथमविदितं त्वामनाद्यंतमंत-
-स्तस्मादर्क प्रणयिनि मयि स्वात्मनैव प्रसीद || 20 ||

यत्तद्वेद्यं किमपि परमं शब्दतत्त्वं त्वमंत-
-स्तत्सद्व्यक्तिं जिगमिषु शनैर्लाति मात्रा कलाः खे |
अव्यक्तेन प्रणववपुषा बिंदुनादोदितं स-
-च्छब्दब्रह्मोच्चरति करणव्यंजितं वाचकं ते || 21 ||

प्रातःसंध्यारुणकिरणभागृङ्मयं राजसं य-
-न्मध्ये चापि ज्वलदिव यजुः शुक्लभाः सात्त्विकं वा |
सायं सामास्तमितकिरणं यत्तमोल्लासि रूपं
साह्नः सर्गस्थितिलयविधावाकृतिस्ते त्रयीव || 22 ||

ये पातालोदधिमुनिनगद्वीपलोकाधिबीज-
-च्छंदोभूतस्वरमुखनदत्सप्तसप्तिं प्रपन्नाः |
ये चैकाश्वं निरवयववाग्भावमात्राधिरूढं
ते त्वामेव स्वरगुणकलावर्जितं यांत्यनश्वं || 23 ||

दिव्यं ज्योतिः सलिलपवनैः पूरयित्वा त्रिलोकी-
-मेकीभूतं पुनरपि च तत्सारमादाय गोभिः |
अंतर्लीनो विशसि वसुधां तद्गतः सूयसेऽन्नं
तच्च प्राणांस्त्वमिति जगतां प्राणभृत्सूर्य आत्मा || 24 ||

अग्नीषोमौ प्रकृतिपुरुषौ बिंदुनादौ च नित्यौ
प्राणापानावपि दिननिशे ये च सत्यानृते द्वे |
धर्माधर्मौ सदसदुभयं योऽंतरावेश्य योगी
वर्तेतात्मन्युपरतमतिर्निर्गुणं त्वां विशेत्सः || 25 ||

गर्भाधानप्रसवविधये सुप्तयोरिंदुभासा
सापत्न्येनाभिमुखमिव खे कांतयोर्मध्यसंस्थः |
द्यावापृथ्व्योर्वदनकमले गोमुखैर्बोधयित्वा
पर्यायेणापिबसि भगवन् षड्रसास्वादलोलः || 26 ||

सोमं पूर्णामृतमिव चरुं तेजसा साधयित्वा
कृत्वा तेनानलमुखजगत्तर्पर्णं वैश्वदेवं |
आमावस्यं विघसमिव खे तत्कलाशेषमश्नन्
ब्रह्मांडांतर्गृहपतिरिव स्वात्मयागं करोषि || 27 ||

कृत्वा नक्तंदिनमिव जगद्बीजमाव्यक्तिकं य-
-त्तत्रैवांतर्दिनकर तथा ब्राह्ममन्यत्ततोऽल्पं |
दैवं पित्र्यं क्रमपरिगतं मानुषं चाल्पमल्पं
कुर्वन्ककुर्वन्कलयसि जगत्पंचधावर्तनाभिः || 28 ||

तत्त्वालोके तपन सुदिने ये परं संप्रबुद्धाः
ये वा चित्तोपशमरजनीयोगनिद्रामुपेताः |
तेऽहोरात्रोपरमपरमानंदसंध्यासु सौरं
भित्त्वा ज्योतिः परमपरमं यांति निर्वाणसंज्ञं || 29 ||

आब्रह्मेदं नवमिव जगज्जंगमस्थावरांतं
सर्गे सर्गे विसृजसि रवे गोभिरुद्रिक्तसोमैः |
दीप्तैः प्रत्याहरसि च लये तद्यथायोनि भूयः
सर्गांतादौ प्रकटविभवां दर्शयन्रश्मिलीलां || 30 ||

श्रित्वा नित्योपचितमुचितं ब्रह्मतेजः प्रकाशं
रूपं सर्गस्थितिलयमुचा सर्वभूतेषु मध्ये |
अंतेवासिष्विव सुगुरुणा यः परोक्षः प्रकृत्या
प्रत्यक्षोऽसौ जगति भवता दर्शितः स्वात्मनात्मा || 31 ||

लोकाः सर्वे वपुषि नियतं ते स्थितास्त्वं च तेषा-
-मेकैकस्मिन्युगपदगुणो विश्वहेतोर्गुणीव |
इत्थंभूते भवति भगवन्न त्वदन्योऽस्मि सत्यं
किं तु ज्ञस्त्वं परमपुरुषोऽहं प्रकृत्यैव चाज्ञः || 32 ||

संकल्पेच्छाद्यखिलकरणप्राणवाण्यो वरेण्याः
संपन्ना मे त्वदभिनवनाज्जन्म चेदं शरण्यं |
मन्ये चास्तं जिगमिषु शनैः पुण्यपापद्वयं त-
-द्भक्तिश्रद्धे तव चरणयोरन्यथा नो भवेतां || 33 ||

सत्यं भूयो जननमरणे त्वत्प्रपन्नेषु न स्त-
-स्तत्राप्येकं तव नुतिफलं जन्म याचे तदित्थं |
त्रैलोक्येशः शम इव परः पुण्यकायोऽप्ययोनिः
संसाराब्धौ प्लव इव जगत्तारणाय स्थिरः स्यां || 34 ||

सौषुम्णेन त्वममृतपथेनैत्य शीतांशुभावं
पुष्णास्यग्रे सुरनरपितॄन् शांतभाभिः कलाभिः |
पश्चादंभो विशसि विविधाश्चौषधीस्तद्गतोऽपि
प्रीणास्येवं त्रिभुवनमतस्ते जगन्मित्रतार्क || 35 ||

मंदाक्रांते तमसि भवता नाथ दोषावसाने
नांतर्लीना मम मतिरियं गाढनिद्रां जहाति |
तस्मादस्तंगमिततमसा पद्मिनीवात्मभासा
सौरीत्येषा दिनकर परं नीयतामाशु बोधं || 36 ||

येन ग्रासीकृतमिव जगत्सर्वमासीत्तदस्तं
ध्वांतं नीत्वा पुनरपि विभो तद्दयाघ्रातचित्तः |
धत्से नक्तंदिनमपि गती शुक्लकृष्णे विभज्य
त्राता तस्माद्भव परिभवे दुष्कृते मेऽपि भानो || 37 ||

आसंसारोपचितसदसत्कर्मबंधाश्रिताना-
-माधिव्याधिप्रजनमरणक्षुत्पिपासार्दितानां |
मिथ्याज्ञानप्रबलतमसा नाथ चांधीकृतानां
त्वं नस्त्राता भव करुणया यत्र तत्र स्थितानां || 38 ||

सत्यासत्यस्खलितवचसां शौचलज्जोज्झिताना-
-मज्ञानानामफलसफलप्रार्थनाकातराणां |
सर्वावस्थास्वखिलविषयाभ्यस्तकौतूहलानां
त्वं नस्त्राता भव पितृतया भोगलोलार्भकाणां || 39 ||

यावद्देहं जरयति जरा नांतकादेत्य दूती
नो वा भीमस्त्रिफणभुजगाकारदुर्वारपाशः |
गाढं कंठे लगति सहसा जीवितं लेलिहान-
-स्तावद्भक्ताभयद सदयं श्रेयसे नः प्रसीद || 40 ||

विश्वप्राणग्रसनरसनाटोपकोपप्रगल्भं
मृत्योर्वक्त्रं दहननयनोद्दामदंष्ट्राकरालं |
यावदृष्ट्वा व्रजति न भिया पंचतामेष काय-
-स्तावन्नित्यामृतमय रवे पाहि नः कांदिशीकान् || 41 ||

शब्दाकारं वियदिव वपुस्ते यजुःसामधाम्नः
सप्तच्छंदांस्यपि च तुरगा ऋङ्मयं मंडलं च |
एवं सर्वश्रुतिमयतया मद्दयानुग्रहाद्वा
क्षिप्रं मत्तः कृपणकरुणाक्रंदमाकर्णयेमं || 42 ||

नाशं नास्मच्चरणशरणा यांत्यपि ग्रस्यमाना
देवैरित्थं सितमिव यशो दर्शयन्स्वं त्रिलोक्यां |
मन्ये सोमं क्षततनुममागर्भवृद्ध्या विवस्वन्
शुक्लच्छायां नयसि शनकैः स्वां सुषुम्णांशुभासा || 43 ||

आस्तां जन्मप्रभृति भवतः सेवनं तद्धि लोके
वाच्यं केनापरिमितफलं भुक्तिमुक्तिप्रकारं |
ज्योतिर्मात्रं स्मृतिपथमितो जीवितांतेऽपि भास्व-
-न्निर्वाणाय प्रभवसि सतां तेन ते कः समोऽन्यः || 44 ||

अप्रत्यक्षत्रिदशभजनाद्यत्परोक्षं फलं त-
-त्पुंसां युक्तं भवति हि समं कारणेनैव कार्यं |
प्रत्यक्षस्त्वं सकलजगतां यत्समक्षं फलं मे
युष्मद्भक्तेः समुचितमतस्तत्तु याचे यथा त्वां || 45 ||

ये चारोग्यं दिशति भगवान्सेवितोऽप्येवमाहु-
-स्ते तत्त्वज्ञा जगति सुभगा भोगयोगप्रधानाः |
भुक्तेर्मुक्तेरपि च जगतां यच्च पूर्णं सुखानां
तस्यान्योऽर्कादमृतवपुषः को हि नामास्तु दाता || 46 ||

हित्वा हित्वा गुरुचपलतामप्यनेकान्निजार्था-
-न्यैरेकार्थीकृतमिव भवत्सेवनं मत्प्रियार्थं |
तेषामिच्छाम्युपकृतिमहं स्वेंद्रियाणां प्रियाणा-
-मादौ तस्मान्मम दिनपते देहि तेभ्यः प्रसादं || 47 ||

किं तन्नामोच्चरति वचनं यस्य नोच्चारकस्त्वं
किं तद्वाच्यं सकलवचसां विश्वमूर्ते न यत्त्वं |
तस्मादुक्तं यदपि तदपि त्वन्नुतौ भक्तियोगा-
-दस्माभिस्तद्भवतु भगवंस्त्वत्प्रसादेन धन्यं || 48 ||

या पंथानं दिशति शिशिराद्युत्तरं देवयानं
या वा कृष्णं पितृपथमथो दक्षिणं प्रावृडाद्यं |
ताभ्यामन्या विषुवदभिजिन्मध्यमा कृत्यशून्या
धन्या काश्चित्प्रकृतिपुरुषावंतरा मेऽस्तु वृत्तिः || 49 ||

स्थित्वा किंचिन्मन इव पिबन्सेतुबंधस्य मध्ये
प्राप्योपेयं धृवपदमथो व्यक्तमुद्दाल्य तालु |
सत्यादूर्ध्वं किमपि परमं व्योम सोमाग्निशून्यं
गच्छेयं त्वां सुरपितृगती चांतरा ब्रह्मभूतः || 50 ||

सर्वात्मत्वं सवितुरिति यो वाङ्मनःकायबुद्ध्या
रागद्वेषोपशमसमतायोगमेवारुरुक्षुः |
धर्माधर्मग्रसनरशनामुक्तये युक्तियुक्तां
स श्रीसांबः स्तुतिमिति रवेः स्वप्रशांतां चकार || 51 ||

भक्तिश्रद्धाद्यखिलतरुणीवल्लभेनेदमुक्तं
श्रीसांबेन प्रकटगहनं स्तोत्रमध्यात्मगर्भं |
यः सावित्रं पठति नियतं स्वात्मवत्सर्वलोका-
-न्पश्यन्सोऽंते व्रजति शुकवन्मंडलं चंडरश्मेः || 52 ||

इति परमरहस्यश्लोकपंचाशदेषा
तपननवनपुण्या सागमब्रह्मचर्चा |
हरतु दुरितमस्मद्वर्णिताकर्णिता वो
दिशतु च शुभसिद्धिं मातृवद्भक्तिभाजां || 53 ||

श्रीस्वात्मसंविदभिन्नरूपशिवार्पणमस्तु |
समाप्तं चेदं सांबपंचाशिकाशास्त्रं ||

इति सांबप्रणीता सांबपंचाशिका संपूर्णा ||

अर्थ

सांबपंचाशिका भगवान सूर्य (आदित्य) की महिमा का गान करने वाला एक अत्यंत महत्वपूर्ण और आध्यात्मिक स्तोत्र है। यह सूर्य को परम प्रकाश, प्राण का स्रोत, जीवनदाता और अभिव्यक्त ब्रह्म तथा समस्त सृष्टि का आधार मानता है। यह स्तोत्र केवल एक खगोलीय पिंड के रूप में सूर्य का वर्णन नहीं करता, बल्कि उसे वह परम चेतना मानता है जो पूरे ब्रह्मांड को प्रकाशित करती है, पोषण करती है और नियंत्रित करती है। यह भानुनिधि, परम तपस्वी, ब्रह्मैक्य और ज्योतिस्वरूप सूर्य की सर्वोच्चता का स्पष्ट और गहन वर्णन करता है।

इस स्तोत्र का प्रत्येक श्लोक गहरे आध्यात्मिक सत्यों से ओत-प्रोत है। यह नाद से शब्द की उत्पत्ति, प्राण ऊर्जा की गति, सृष्टि-स्थिति-लय चक्र, सूर्योदय और सूर्यास्त के महत्व, संसार चक्र और मोक्ष के मार्ग को अत्यंत सूक्ष्मता से समझाता है। यह इस बात पर जोर देता है कि सूर्य केवल बाहरी प्रकाश नहीं है, बल्कि हमारे भीतर ज्ञान की ज्योति के रूप में भी प्रकाशित होता है। यह स्तोत्र यह स्थापित करता है कि प्रत्येक प्राणी की प्राणशक्ति, इंद्रियों के कार्य और ब्रह्मांड के संतुलन के लिए सूर्य ही मूलभूत कारण है। यह शब्द ब्रह्म की अवधारणा से शुरू होता है, रुद्र मधुरिमय नादों से प्रणव के महत्व तक शब्द ब्रह्म के परिणाम को समझाता है।

सांबपंचाशिका सौर और चंद्र चक्रों के अंतर्संबंध, प्राण-अपान शक्तियों के महत्व, ब्रह्मनाड़ियों के कार्य और तत्वज्ञान के माध्यम से परम सत्य को जानने के मार्गों का वर्णन करती है। यह बताता है कि सूर्य कैसे त्वक् (त्वचा), चक्षु (आँख), श्रवण (कान), रसना (जीभ), घ्राण (नाक) जैसे बारह इंद्रियों और मन, बुद्धि, अहंकार के आधार के रूप में कार्य करता है। यह अज्ञानता के अंधकार को दूर कर ज्ञान का प्रकाश प्रदान करने वाले सूर्य के स्वरूप का सुंदर चित्रण करता है। यह स्तोत्र हमारे दैनिक जीवन में सूर्य के प्रभाव, यज्ञ-यागादि में अग्नि की शुद्धिकरण शक्ति और सूर्य के ध्यान से मोक्ष कैसे प्राप्त किया जा सकता है, इसे स्पष्ट करता है।

सूर्य को परमब्रह्म स्वरूप मानकर उनकी आराधना करने से, भक्त के हृदय में प्रेम, भय की निवृत्ति, ज्ञानोदय और परात्पर शक्ति के प्रति भक्ति सिद्ध होती है। ये श्लोक सृष्टि, स्थिति, लय चक्रों के प्रबंधन, आहार-आविर्भाव शक्तियों के संबंध, दैनिक जीवन शक्तियों की गोपनीयता और स्थूल-सूक्ष्म परिमाणों के बीच समानता को दर्शाते हैं। सांबपंचाशिका स्तोत्र का पाठ भौतिक और आध्यात्मिक दोनों स्तरों पर लाभ प्रदान करता है, जैसा कि ग्रंथ में तार्किक रूप से उल्लेख किया गया है।

लाभ (Benefits):

  • शक्ति, स्वास्थ्य और दीर्घायु की वृद्धि: सूर्य प्राणशक्ति का मूल स्रोत है, अतः इस स्तोत्र का पाठ शरीर को नई ऊर्जा प्रदान करता है, स्वास्थ्य में सुधार करता है और दीर्घायु प्रदान करता है।
  • मानसिक शांति और स्पष्टता: यह मन की उलझनों को दूर करता है, चिंता और भय से मुक्ति दिलाता है और शांत नींद प्रदान करता है। यह अज्ञानता के अंधकार को दूर कर मानसिक स्पष्टता लाता है।
  • सुरक्षा और विजय: शत्रुओं और नकारात्मक शक्तियों से सुरक्षा प्रदान करता है, जीवन में आने वाली बाधाओं को दूर करने में सहायता करता है। यह सभी समस्याओं का नाश और निवारण प्रदान करता है।
  • कर्म बंधन से मुक्ति और मोक्ष: सूर्य के ध्यान और इस स्तोत्र के निरंतर पाठ से कर्म बंधनों से मुक्ति मिलती है और मोक्ष का मार्ग सुगम होता है। यह जन्म नाश के लक्ष्य को प्राप्त करने में सहायता करता है।
  • ज्ञानोदय और आध्यात्मिक प्रगति: सूर्य को परमब्रह्म स्वरूप मानकर उनकी आराधना करने से अंतरात्मा में ज्ञान की ज्योति प्रज्वलित होती है और आध्यात्मिक प्रगति का मार्ग प्रशस्त होता है, जिससे संपूर्ण सुख-सौभाग्य और परम उद्धार प्राप्त होता है।

अक्सर पूछे जाने वाले प्रश्न

सांबपंचाशिका स्तोत्र क्या है?
सांबपंचाशिका भगवान सूर्य को परमब्रह्म स्वरूप में स्तुत करने वाला एक अत्यंत महत्वपूर्ण आध्यात्मिक स्तोत्र है। यह सूर्य को समस्त सृष्टि का मूल, प्राण का आधार और ज्योति का स्वरूप मानता है।
सांबपंचाशिका स्तोत्र का पाठ कब और कैसे करना चाहिए?
इस स्तोत्र का पाठ प्रतिदिन सूर्योदय के समय या सूर्यास्त से पहले करना अत्यंत शुभ माना जाता है। स्नान आदि से शुद्ध होकर, सूर्य की ओर मुख करके, एकाग्रता और भक्तिभाव से पाठ करना चाहिए।
इस स्तोत्र के पाठ से क्या प्रमुख लाभ मिलते हैं?
सांबपंचाशिका के पाठ से शक्ति, स्वास्थ्य और दीर्घायु की वृद्धि होती है। मानसिक शांति, अज्ञानता का नाश, भय से मुक्ति और शत्रुओं से सुरक्षा मिलती है। यह कर्म बंधनों से मुक्ति में भी सहायक है।
यह स्तोत्र किसे पढ़ना चाहिए?
जो लोग भगवान सूर्य में भक्ति रखते हैं और आध्यात्मिक प्रगति, उत्तम स्वास्थ्य तथा मानसिक शांति की कामना करते हैं, वे सभी इस स्तोत्र का पाठ कर सकते हैं। इसमें कोई जाति, मत या लिंग का भेद नहीं है।
सांबपंचाशिका स्तोत्र का पाठ कितनी बार करना चाहिए?
सामान्यतः, इस स्तोत्र का पाठ प्रतिदिन कम से कम 3, 5, 11 या 21 बार करना उत्तम होता है। निरंतरता और भक्ति महत्वपूर्ण है, संख्या से अधिक एकाग्रता पर जोर देना चाहिए।
सांबपंचाशिका स्तोत्र का उद्गम या स्रोत क्या है?
सांबपंचाशिका स्तोत्र प्राचीन संस्कृत ग्रंथों में वर्णित है और सूर्यदेव की महिमा का बखान करने वाले प्रमुख स्तोत्रों में से एक है। इसकी रचना के संबंध में विशिष्ट ऐतिहासिक जानकारी कम है, लेकिन यह सूर्य भक्ति की समृद्ध परंपरा का हिस्सा है।

टिप्पणियाँ

टिप्पणी लिखने के लिए लॉगिन करें

टिप्पणियाँ लोड हो रही हैं...